तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
DevanagariSanskritpublished914 पृष्ठ
पृष्ठ 825, कुल 914 में से
संदर्भ में पढ़ेंपृष्ठ 825८२० परिशिष्टत्वेन संगृहीतः— [ अनु० १०–११ ]
अथ ज्ञानसाधनं चित्तैकाग्र्यरूपं तपोऽस्ति, " मनसश्चेन्द्रियाणां च ह्यैकाग्र्यं परमं
८२० परिशिष्टत्वेन संगृहीतः— [ अनु० १०–११ ]
दपि श्रुतमासीत्तत्सर्वं [ हे ] देव मा च्योढ्वं मा विनाशय । ततोऽहमों प्राप्नुयां
स्थिरं धारणामिति शेषः ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि भाष्ये नवमोऽनुवाकः ॥ ९ ॥
अथ दशमोऽनुवाकः ।
अथ ज्ञानसाधनं चित्तैकाग्र्यरूपं तपोऽस्ति, " मनसश्चेन्द्रियाणां च ह्यैकाग्र्यं परमं
तपः " इति श्रुतेः । तत्तपः श्रौतस्मार्तसर्वकर्मस्वरूपतया प्रशंसति । यद्वा तथाविध-
तपःसिद्ध्यर्थं जप्यं मन्त्रमाह—
ऋ॒तं तप॑ः स॒त्यं तप॑ः श्रु॒तं तप॑ः शा॒न्तं तपो॑
दम॒स्तप॑ः शम॒स्तपो॒ दानं॒ तपो॑ य॒ज्ञं तपो॒
भूर्भुवः॒ सुव॒र्ब्रह्मै॒तदुपा॑स्यै॒तत्तप॑ः, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि
दशमोऽनुवाकः ॥ १०* ॥
ऋतं मनसा यथार्थवस्तुचिन्तनम् । सत्यं वाचा यथार्थ भाषणम् । श्रुतं वेदस्य
पूर्वोत्तरभागार्थावबोधायोभयोर्मीमांसयोः श्रवणम् । शान्तं शान्तिर्बा[ह्येन्द्रियाभ्यन्तरे-
न्द्रियोपरतिः ] दमो दमनं यथोक्तोपवासादिभिः शरीरकर्षणम् । शमः शत्रुष्वपि
क्रोधराहित्यम् । दानं धनेषु स्वत्वनिवृत्तिः परस्वत्वापादनपर्यन्तम् । यज्ञोऽग्निहोत्रा-
दीनि [ कर्माणि ] तदेतत्सर्वमर्वाचीनं तपः । भूरादिलोकत्रयात्मकविराड्देव(ह)रूपं
यद्ब्रह्मास्ति हे मुमुक्षवेतद्ब्रह्मोपास्य विजातीयप्रत्ययरहितं सजातीयप्रत्ययप्रवाहं कुरु ।
एतदुपासनं तपः ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि भाष्ये
दशमोऽनुवाकः ॥ १० ॥
अथैकादशोऽनुवाकः ।
अथ विहितानुष्ठानरूपं पुण्यं ज्ञानसाधनतया प्रशंसति । निषिद्धाचरणरूपं तु ज्ञान-
प्रतिबन्धकतया निन्दति—
यथा॑ वृ॒क्षस्य॑ संपु॒ष्पि॒तस्य॑ दू॒राद्ग॒न्धो वा॑त्ये॒वं पुण्य॑स्य
- अत्र घ. पुस्तके (२४) अङ्को वर्तते ।