तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
DevanagariSanskritpublished914 पृष्ठ
पृष्ठ 820, कुल 914 में से
संदर्भ में पढ़ेंपृष्ठ 820[ अनु० ३ ] सभाष्यो दशमप्रपाठकः । ८१५
[ अनु० ३ ] सभाष्यो दशमप्रपाठकः । ८१५
हेऽग्ने त्वमध्वरेषु यागेष्वीड्यः स्तुत्यः सन्कं सुखं प्रत्नोषि प्रतनोषि विस्तार-
यसि । सनाच्च कर्मफलस्य दाताऽपि सन्हो[ता हो]मनिष्पादको नव्यः स्तुत्योऽपि
भूत्वा सत्सि सीदसि यागदेशे तिष्ठसि । अतो हेऽग्ने स्वां च स्वकीयामपि तनुवं
पिप्रयस्व स्वकीयहविषा प्रीणय । ततोऽस्मभ्यं च सौभगं शोभनभाग्योपनीतत्वमा-
यजस्व सर्वतो देहि ।
सप्तमीमृचमाह—
गोभि॑र्जुष्ट॒मयु॑जो॒ निषि॑क्तं॒ तवे॑न्द्र॒ विष्णो॒रनु॒संच॑रेम ।
नाक॑स्य पृ॒ष्ठम॒भि संवसा॑नो॒ वैष्ण॑वीं लो॒क इ॒ह मा॑दयन्ताम्* [२] । इति
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
द्वितीयोऽनुवाकः ॥ २ ॥
हे इन्द्र वयं तव व्यत्ययेन त्वामनुसंचरेम । भृत्या इव त्वत्सेवका भवेमेत्यर्थः ।
तव कथंभूतस्य । न युज्यते पापैर्दुःखैश्चेत्ययुक्तस्यायुजः । तथा विष्णोः सर्वया-
गेषु व्यापकशीलस्य । किमुद्दिश्य, गोभिर्धेनुभिर्जुष्टं निषेवितममृतधाराभिनिषिक्तं महा-
भाग्यमुद्दिश्येति शेषः । किंच सर्वे देवा मां मादयन्तां वाञ्छितप्रदानैर्हर्षयन्तु । कुत्र ।
इह लोके भूमौ । सर्वे देवाः कथंविधाः, नाकस्य पृष्ठमुपरिभागमभि सर्वतः संव-
सानो व्यत्ययेन संवसाना आश्रित्य विद्यमानाः । मां कथंभूतम् । वैष्णवीं विष्णु-
संबन्धिनीं भक्तिं कुर्वाणमिति शेषः ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि भाष्ये द्वितीयोऽनुवाकः ॥ २ ॥
अथ तृतीयोऽनुवाकः ।
───
इतः परं पापक्षयार्थद्वाराऽन्नकामस्य होममन्त्रानाह । भूसंस्काराद्याज्यसंस्कारान्तं
स्वगृह्योक्तविधया कर्म कृत्वैतैर्मन्त्रैराज्यं मन्त्रलिङ्गादन्नं वा होतव्यम् । अयं प्रधानयागः
स्विष्टकृदादि च पुनर्गृह्येण विधिना कर्तव्यम्—
भूरन्न॑म॒ग्नये॑ पृथि॒व्यै स्वाहा॒ भुवोऽन्नं॑ वा॒यवे॒ऽन्तरि॑क्षाय॒
स्वाहा॒ सुव॒रन्न॑मादि॒त्याय॑ दि॒वे स्वाहा॒ भूर्भुवः॒ सुव॒रन्नं॑
- एतदग्रे “ अग्निश्चत्वारिं च ” इति परिगणनं क्वचित्प्रसिद्धम् ।
१ व. ॥ ६ ॥