सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 824, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 824

[ अनु० ९ ] सभाव्यो दशमप्रपाठकः । ८१९
ऋषि॑भ्यो॒ नमो॑ दे॒वेभ्य॑: स्व॒धा पि॒तृभ्यो॒ भूर्भुव॑: सुव॒श्छन्द॒ ओम् , इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिष-
द्यष्टमोऽनुवाकः ॥ ८¹ ॥
यः प्रणवश्छन्दसां वेदानां मध्य ऋषभ ( भो ) ज्येष्ठो विश्वरूपः सर्वजगदा-
त्मकः । एतदेवर्षभत्वं विश्वरूपत्वं च सांहित्यामुपनिषदि प्रपञ्चितम् । तादृशः प्रण-
वश्छन्दोभ्यो वेदेभ्यः प्रादुर्भूत इति शेषः । वेदसारत्वेन प्रजापतेः प्रत्यभादित्यर्थः ।
स पुनश्छन्दांसि गायत्र्यादीन्याविवेश । छन्दोभिरुपलक्षितेषु मन्त्रेषु प्रयोक्तव्यः ।
तथा च प्रपञ्चसारेऽभिहितम्—" अस्य [ तु ] वेदादित्वात्सर्वम [ नूनां ] प्रयु-
ज्यते ह्यादौ " इति । तेन प्रणवेन प्रतिपाद्य इन्द्रः परमैश्वर्ययुक्तः परमात्मोपनिषत्पु-
रोवाच । उपनिषदू (षदं ब्र ) ह्य [ विद्यां ] वेदान्तसिद्धान्तमुक्तवान् । कीदृश
इन्द्रः । सचां सतां शिक्क्यः सद्भिः कर्मानुष्ठायिभिरुपासकैर्ज्ञानिमिश्च प्राप्तुं शक्यः ।
ज्येष्ठः कारणत्वेन सर्वस्मात्प्रथमः । किमर्थं विद्यामुक्तवान्, तदुच्यते । ऋषिभ्य
ऋषीणामन्तर्मुखानां ( णां ) जिज्ञासूनामिन्द्रियाय ज्ञानसामर्थ्याय । अतोऽहं तत्प्रति-
बन्धनिवारणाय देवेभ्यश्च पितृभ्यश्च नमस्करोमि । भूर्भुवःसुवर्लोकत्रयावस्थितं छन्दो
मन्त्रब्राह्मणात्मकं वेदमों प्राप्नोति ( मि ) ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि भाष्येऽष्टमोऽनुवाकः ॥ ८ ॥

अथ नवमोऽनुवाकः ।
—————
अथ लब्धानां वेदानामहविस्मरणाय जप्यं मन्त्रमाह—
नमो॒ ब्रह्म॑णे धार॑णं मे अ॒स्त्वनि॑राकरणं धारयि॑ता भूयासं॒
कर्ण॑योः श्रु॒तं मा च्योद्वं ममा॒मुष्य॒ ओम् , इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमपाठके नारायणोपनिषदि
नवमोऽनुवाकः ॥ ९³ ॥
ब्रह्मणे जगत्कारणाय नमोऽस्तु । तत्प्रसादान्मदीये चित्ते ग्रन्थतदर्थयोर्धारण-
मस्तु । अनि Flaकरणं निराकरणं विस्मरणं यथा न भवति तथा धारयिता भूया-
सम् । अमुष्येत्थं प्रार्थयमानस्य मम कर्णयोर्यत्किंचिद्वेदशास्त्रादिकं यदा कदाचि-
—————————————————————————————————————————————
१ व. २२ ॥ २ छ. °दर्थार्थाय । अ° । ३ व. २३ ॥