सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 821, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 821

च॒न्द्रम॑से दिग्भ्यः॒ स्वाहा॒ नमो॑ दे॒वेभ्यः॑ स्व॒धा
पि॒तृभ्यो॒ भूर्भु॒वः॒ सुव॒रन्नमोम् ( ३ ), इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोप-
निषदि तृतीयोऽनुवाकः ॥ ३ ॥
भूर्भुवः सुवरिति त्रीणि पदान्यव्ययानि त्रैलोक्याधिष्ठानदेवतावाचकानि च ।
भूः पृथिव्यधिष्ठानदेवता मह्यमन्नं दद्यादिति शेषः । तदर्थं च चरुरूपमन्नं मयाऽस्मि-
न्स्मार्ताग्नौ स्वाहा सुहुतमस्तु । कस्मै । अग्नये पृथिव्यधिष्ठिताय पृथिव्या अग्न्य-
धिष्ठात्र्यै च । पर्यायद्वयेऽप्यित्थमेव व्याख्याप्रकारः । चतुर्थपर्याये तु भूः, भुवः, सुवः,
एतास्तिस्रोऽधिष्ठात्र्यो मह्यमन्नं दद्युरिति शेषः । समानमन्यत् । एवं प्रधानयाग(गं)
स्विष्टकृता कृत्वाऽन्ते प्रा