तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
(the स is cut off at the left margin).
Line 26:
ध्ये ऋषिरुतत्तन्गोत्रप्रवर्तको वसिष्ठादिरूपो बभूव । मृगाणां चतुष्पदां मध्ये शक्त्या-
Wait, line 25 ends with: ब्राह्मणानां
Line 26 starts with: ध्ये -> [म]ध्ये!
Then: ऋषिस्तत्तद्गोत्रप्रवर्तको
Wait, let's look at ऋषिस्तत्तद्गोत्रप्रवर्तको:
ऋषिस्तत्तद्गोत्रप्रवर्तको or ऋषिस्तत्तत्गोत्र? It's ऋषिस्तत्तद्गोत्रप्रवर्तको.
Line 27:
धिक्येन युक्तो महिषो बभूव । गृध्रोपलक्षितानां सर्वेषां पक्षिणां मध्ये प्रबलः श्येनो
Wait, line 26 ends with: शक्त्या-
Line 27 starts with: धिक्येन ([अ]धिक्येन -> शक्त्याधिक्येन).
Line 28:
भूव । वनानां वृक्षसमूहरूपाणां मध्ये छेदनार्थः स्वधितिः परशुर्बभूव । यागहेतुभू-
Wait, line 27 ends with: श्येनो
७१८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० १० अनु० १०]
तन्नल्यात्मकः सोमो भूत्वा रेभःमन्त्रशब्दयुक्तः सन्पवित्रं शुद्धिकारणं गङ्गाजलकुशद-
र्भादिद्रव्यजातं सर्वमत्येति ।
पञ्चमीमृचमाह—
अ॒जामेकां लोहि॑तशुक्लकृष्णां ब॒ह्वीं प्र॒जां ज॒नय॑न्तीꣳ सरू॑पाम् ।
अ॒जो ह्येको॑ जु॒षमा॑णोऽनु॒शेते॒ जहा॑त्येनां भु॒क्तभो॑गाम॒जोऽन्यः॑, इति ॥
व्यवहारदशायां परमेश्वरस्य चतुर्मुखब्रह्मादिशरीरेषु विशेषेणावस्थानमभिधाय यथो-
क्तजगत्सृष्टेर्मूलकारणभूतां मायाशक्तिमुपजीव्य बुद्धमुक्तपुरुषव्यवस्था प्रदर्श्यते । न
जायत इत्यजा मूलप्रकृतिरूपा माया । न ह्यनादेस्तस्या जन्म संभवति । सा च मायैका,
इतरस्य सर्वस्य जगतस्तत्कार्यत्वात् । यदाऽसौ तेजोबन्नानि त्रीणि॑ भूतान्युत्पाद्य तद्रू-
पाऽवतिष्ठते तदानीं लोहितशुक्लकृष्णवर्णरूपेता भवति । तथा च च्छन्दोगा आमनन्ति-
“यदग्ने रोहितꣳ रूपं तेजस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य” इति । अन्नश-
ब्देनात्र पृथिव्युपलक्ष्यते । रजःसत्त्वतमोगुणा वा लोहितादिशब्दैरुपलक्ष्यन्ते । गुणत्रया-
त्मिका मायेत्युक्तं भवति । सा च देवतिर्यङ्मनुष्यादिरूपां गुणत्रयात्मकत्वेन सरूपां
बहुविधां प्रजां जनयति । न जायत इत्यजो जीवः, तस्यापि मायावदनादित्वादुत्पत्ति-
र्नास्ति। तादृशो जीवो द्विविधः—आसक्तो विरक्तश्चेति। तयोर्मध्य एक आसक्तो योऽजो
जीवः पूर्वोक्तामजां मायां जुषमाणः प्रीतिपूर्वकं सेवमानोऽनुशेते तदनुसार्येव वर्तते ।
विषयानेव भुञ्जानो विवेकरहितो जन्ममरणप्रवाहरूपेण संचरतीत्यर्थः । अन्योऽजो
विरक्तो जीवो भुक्तभोगामेनां मायां जहाति परित्यजति । विरक्तेः प्रागेव भोगाननु-
भूत्वा(गा भुक्ता) न तूपरिष्टाद्भोगैर्बाध्यन्ते तादृशैर्भोगैर्युक्ता माया भुक्तभोगा तां मायां
तत्त्वविवेकेन बाधत इत्यर्थः ।
षष्ठीमृचमाह—
हꣳसः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् ।
नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत्, इति ॥
यः पुमान्विवेकेन मायां परित्यजति तस्य सर्वमपि जगद्ब्रह्मरूपेणावभासत इत्य-
यमन्त्रो(त्रा)र्थः प्रदर्श्यते । तदर्थमादौ जगदनूद्यते हन्ति सर्वदा गच्छतीति हंस
आदित्यः । स च शुचौ शुद्धे मण्डले ज्योतिर्मये सीदतीति शुचिषत्, सूत्रात्मरूपेण
१ ख झ. णि रूपाण्युल्या° । २ झ. ॰न्ते । सा गु° । ३ ग. ॰यात्मिकं । ४ ख. ग.
जनयन्ती । ५ ग. ॰रणं प्र° । ६ झ. संसर° । ७ झ. ॰क्ष्यन्ते ता° । ८ झ. बाधितामित्य° ।
--------------------------------------------- । १० ख. प्रविश्यते ।
[प्रपा० १० अनु० १०] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७१९
जगन्निवासहेतुत्वात् । वसुर्वायुः, तद्रूपः सन्नन्तरिक्षे सीदतीत्यन्तरिक्षसत् । होमनि-
ष्पादक आहवनीयाद्यग्निर्होता तद्रूपेण सोमयागाद्यङ्गभूतायां वेद्यां सीदतीति वेदिषत् ।
अमावास्यादितिथिविशेषमनपेक्ष्य भोजनयाच्ञार्थं तत्र तत्र गच्छन्पुरुषो वैदेशिकोऽतिथिः,
तद्रूपेण दुरोणेषु गृहेषु परकीयेषु सीदतीति दुरोणसत् । नृषु मनुष्येषु कर्माधिकारिजी-
वरूपेण सीदतीति नृषत् । वरे श्रेष्ठे क्षेत्रे काशीद्वारावत्यादौ पूजनीयदेवरूपेण सीदतीति
वरसत् । ऋते सत्ये वैदिके कर्मणि फलरूपेण सीदतीति ऋतसत् । व्योम्न्याकाशे
नक्षत्रादिरूपेण सीदतीति व्योमसत् । अद्भ्यो नदीसमुद्रादिगताभ्यः शङ्खमकरा-
दिरूपेण जायत इत्यब्जाः । गोभ्यः क्षीरादिरूपेण जायत इति गोजाः । ऋतं
सत्यवचनं तस्मात्कीर्तिरूपेण जायत इति ऋतजाः । अद्रिभ्यः पर्वतेभ्यो वृक्षादिरूपेण
जायत इत्याद्रिजाः । हंस इत्यारभ्याद्रिजा इत्यन्तेनोक्तं यज्जगदस्ति तज्जगद्गतं सत्यं
बृहद्ब्रह्म, अज्ञानिदृष्ट्या जगद्रूपेण भासमानं सर्वं ज्ञानिदृष्ट्या ब्रह्मैवेत्यर्थः ।
सप्तमीमृचमाह—
*यस्मा॒ज्जाता न परा॒ नैव किंच॒नाऽऽस॒ य आ॑वि॒वेश॒ भुव॑नानि॒ विश्वा॑ ।
प्र॒जाप॑तिः प्र॒जया॑ संविदा॒नस्त्रीणि॒ ज्योतीं॑षि सचते॒ स षो॒डशी, इति ॥
हंसादेः सर्वस्य जगतो ब्रह्मरूपत्वं यदुक्तं तदत्र प्रतिपाद्यते । ब्रह्मव्यतिरिक्तं वस्तु
किंचिदस्तीति वदन्वादी प्रष्टव्यः । किमचेतनं जगद्ब्रह्मव्यतिरिक्तमाहोस्विच्चेतनो जीवः ।
अचेतनत्वपक्षेऽपि किं सृष्टेरूर्ध्वभावि वस्तु ब्रह्मव्यतिरिक्तमुत पूर्वभावि । न तावदू-
र्ध्वभाविनो व्यतिरिक्तत्वमित्युच्यते । जाता सृष्टेरूर्ध्वमुत्पन्ना प्रजा यस्मात्परमेश्व-
रात्परा व्यतिरिक्ता न भवति । नापि पूर्वभाविनो व्यतिरिक्तत्वमित्युच्यते सृष्टेः पूर्वं
किंचन किमपि ब्रह्मव्यतिरिक्तं वस्तु नैवाऽऽस । “एकमेवाद्वितीयम्” इति श्रुत्य-
न्तरात् । नापि चेतनस्य जीवस्य ब्रह्मव्यतिरिक्तत्वमित्युच्यते । यः परमेश्वरो
विश्वा भुवनानि सर्वलोकवर्तीनि शरीराण्याविवेश जीवरूपेण प्राविशत् । “अनेन
जीवेनाऽऽत्मनाऽनुप्रविश्य” इति श्रुत्यन्तरात् । स प्रजापतिः प्रजापालकः परमे-
श्वरः प्रजया स्वस्मादुत्पन्नया देवातिर्यगादिरूपया संविदानः संसर्गं तादात्म्यं लभ-
मानो वर्तते । स परमेश्वरस्त्रीणि ज्योतींष्यग्न्यादित्यचन्द्ररूपाणि सचते सम-
वैति तादात्म्यसंबन्धं प्राप्नोति । कीदृशः परमेश्वरः । षोडशी प्रश्नोपनिषत्प्रोक्तषो-
डशकलॉपेतः । तत्र हि प्राणश्रद्धादिकं कृत्स्नमपि जगत्षोडशावयवरूपं परमात्मा
- एतदर्धमनिश्चितस्वरकम् ।
१ ख. ग. ॰द्वारव॰ । २ ख. ॰संगता॰ ।
७२० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० १० अनु० १०]
ससर्जेति श्रुतम् । तथा सति मृद्धटन्यायेन कार्यकारणयोरव्यतिरेकात्षोडशकलारूपेण
जगता सह तादात्म्यसंबन्धादयं षोडशीत्युच्यते ।
अष्टमीमृचमाह —
*विधा॒तारँ॑ हवामहे॒ वसो॑ः कु॒विद्वना॑ति नः ।
+स॒वि॒तारं॑ नृ॒चक्ष॑सम्, इति ॥
यथोक्तब्रह्मतत्त्वज्ञानलाभाय परमेश्वरप्रार्थनारूपाः केचिन्मन्त्रा इत आरभ्योच्यन्ते ।
वसोर्धनस्य ब्रह्मज्ञानरूपस्य विधातारं विशेषेण संपादयितारं परमेश्वरं हवामहेऽ
स्मदनुग्रहार्थमाह्वयामः । नोऽस्माकं तादृशानां कुवित्प्रभूतं तत्त्वज्ञानरूपं धनं वनाति
संभजते स परमेश्वरो ददातीत्यर्थः । कीदृशं विधातारम् । सवितारमस्मद्बुद्धेः प्रेर-
कम् । नृचक्षसं नॄणां मनुष्याणामधिकारिणामाचार्यरूपेण तत्त्वविद्याप्रवक्तारम् ।
नवमीमृचमाह—
अ॒द्या नो॑ देव सवितः प्र॒जाव॑त्सावीः॒ सौभ॑गम् ।
परा॑ दु॒ष्वप्न्यं॑ सुव , इति ॥
हे सवितः प्रेरक देवाद्यास्मिन्दिने नोऽस्माकं विद्यार्थिनां प्रजावच्छिष्यप्रशिष्या-
दिप्रजोपेतं सौभगमाचार्यरूपं भाग्यं सावीः प्रेरय प्रयच्छेत्यर्थः । दुष्ष्वप्निं
दुष्टस्वप्नसदृशं द्वैतप्रतिभासं परासुव निराकुरु ।
दशमीमृचमाह—
विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑सुव ।
यद्भ॒द्रं तन्म॒ आसु॑व , इति ।
हे सवितः प्रेरक देव दुरितानि ज्ञानप्रतिबन्धकानि पापानि विश्वानि सर्वाणि
परासुव पराकुरु । भद्रं कल्याणमसंभावनाविपरीतभावनारहितं तत्त्वज्ञानं यदस्ति
तन्मे मह्यमुपासकायाऽऽसुव साकल्येन प्रयच्छ ।
एकादशीमृचमाह —
मध्यु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः ।
माध्वी॑र्नः स॒न्त्वोष॑धीः, इति ॥
ऋतायत ऋतं परं ब्रह्म तदिच्छते मह्यं वाता वायवो मधु माधुर्योपलक्षितं सु-
- एतत्पदद्वयमनिश्श्रितस्वरकम् । × एतत्पदद्वयमनिश्श्रितस्वरकम् ।
१ ग ॰सर्ज वे’ इति श्रुत्यन्तरात् । तं॰ । २ क. विधातारँ॑ । ३ ग. विधातारं । ४ ।
०. – – – तर्विद्वनात्यस्गये गच्छेत् ।
अष्टम से दशम प्रपाठक (ब्रह्मविद्या, महानारायणोपनिषद् व उपसंहार)
[प्रपा० १० अनु० १-८] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७२१
यथा भवति तथा॑ वान्त्विति॑ शेषः । प्रबले तु वायौ रोगोत्पत्त्या॑त्तत्त्वज्ञानविघ्नः² संपद्येते ।
अतः स मा भूदिति वायोरानुकूल्यं प्रार्थ्यते । एवमुत्तरत्रापि तत्तदानुकूल्यं द्रष्टव्यम् ।
सिन्धवो नद्यो मधु क्षरन्ति मधुरमारोग्यकरमुदकं संपादयन्त्वित्यर्थः । ओषधीर्व्रीहि-
यवादयोऽपि नोऽस्माकं॑ मध्वी॑र्मधुराः प⁴थ्यरूपाः सन्तु ।
द्वादशीमृचमाह—
मधु॒ नक्त॑मु॒तोषसि॒ मधु॑म॒त्पार्थि॑व॒ꣳ रज॑: ।
मधु॒ द्यौर॑स्तु नः पि॒ता , इति ॥
नक्तं रात्रावृतावपि चोषसि प्रभाते दिवसेऽपि विद्यार्थिनो मधु मधुरमनुकूलं सुख-
मस्तु कालकृतोऽपि विघ्नो मा भूदित्यर्थः । पार्थिवं रजः पृथिव्यामवस्थितं शयनादि-
स्थानगतं रजोऽपि मधुमन्माधुर्योपेतं कण्टकपाषाणादिरहित्येनानुकूलमस्तु । नोऽस्माकं
पिता पितृसदृशी द्यौरपि मध्वस्तु, अतिवृष्ट्यादिप्रातिकूल्यरहिताऽस्तु । “ द्यौः पिता
पृथिवी माता ” इति मन्त्रान्तराद्दिवः पितृत्वम् ।
त्रयोदशीमृचमाह—
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माꣳ अस्तु॒ सूर्य॑: ।
माध्वी॒र्गावो॑ भवन्तु नः, इति ॥
वनस्पतिश्चूतपनसादिर्नोऽस्मान्प्रति मधुमान्मधुरफलोपेतो जीवनहेतुरस्तु ।
सूर्योऽपि प्रभूतं संतापमकृत्वा मधुमान्माधुर्येणानुकूलप्रकाशनेन युक्तोऽस्तु । गावोऽपि
नोऽस्मान्प्रति माध्वीर्जीवनहेतुमधुरक्षीरोपेता भवन्तु ।
चतुर्दशीमृचमाह—
घृ॒तं मि॑मिक्षिरे घृ॒तम॑स्य॒ योनि॑र्घृ॒ते श्रि॒तो घृ॒तमु॑वस्य॒ धाम॑ ।
अ॒नु॒स्व॒धमाव॑ह मा॒दय॑स्व॒ स्वाहा॑कृतं वृषभ वक्षि ह॒व्यम्, इति ॥
भोग्यजातस्य ज्ञानयोग्य⁵देहानुकूल्यं प्रार्थ्य ज्ञानसाधनयागादिकर्महेतोरग्नेरानुकूल्यं प्रार्थ्य-
यते । पूर्वे यजमाना अग्नावाहवनीयादिरूपे घृतं मिमिक्षिरे सिक्तवन्तः । मिह सेचन
इति धातुः । तद्घृतमस्याग्नेर्योनिरुत्पत्तिकारणम् । घृतेन ज्वालाभिवृद्धिदर्शनात् ।
अतोऽयमग्निर्घृते श्रितो घृतमाश्रित्यावस्थितः । घृतमेवास्याग्नेर्धाम स्थानं तेजोहेतुर्वा ।
हेऽग्नेऽनुष्वधं⁶ स्वधामन्वस्मदीयं हविःस्वरूपमनुसृत्याऽऽवह देवानत्राऽऽनय । आनीय
१ ख. 'था भवन्तिव' । २ ख. 'विघ्न' । ३ ख. 'दन्ते । अ' । ४ ख. सुपथ्यरू' ।
५ ख. 'योग्यं दे' । ६ ख. 'तमु वा' ।
Wait, let's count characters fromउ: Char 1: उChar 2:दाChar 3:र॑Char 4:दुChar 5:पाँ॒? No, wait! Is Char 4 दु? Wait! Look at Char 4: It has: top bar, vertical down, loop... that's दु! Char 5: it's पा? Wait! Look at Char 4 and 5: Wait, could Char 4 be दुand Char 5 beपा? Wait, what did I think was ऽ? Let's look at the two ऽ: Wait! मधु॑माँ॒ऽ-> wait, is thatऽ? Look at line 4: स॒मु॒द्रादू॒र्मिर्मधु॑माँ॒Then: a character that looks likeऽ` with an anudatta under it?
No!
Wait, look at the Sanskrit mantra in Rigveda:
समु॒द्रादू॒र्मिर्मधु॑माँ॒ उदा॑रत्
In Taittiriya Aranyaka 10.10.1:
What is the exact text of TA 10.10.1?
Let's search memory for:
"समुद्रादूर्मिर्मधुमाँ उदरदुपांशुना" OR "उदार
[प्रपा० १० अनु० १०] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७२३
गौरवम् । वृषभरूपत्वं च संहितोपनिषद्याम्नातम्—" यश्छन्दसामृषभो विश्वरूपः "
इति । एवमनेन प्रतिपादनमुपलक्ष्यते ।
सप्तदशीमृचमाह—
च॒त्वारि॒ शृङ्गा॒ त्रयो॑ अस्य॒ पादा॒ द्वे शीर्षे स॒प्त हस्ता॑सो अस्य ।
त्रि॒धा ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्याँ२ आवि॑वेश, इति ॥
शृङ्गा प्रणवस्य यान्यकारादीनि शृङ्गाणि तानि चत्वारि । अस्य प्रणवप्रतिपाद्य-
त्वेन प्रणवरूपस्य ब्रह्मणस्त्रयः पादाः, पद्यते गम्यते ब्रह्मतत्त्वमेभिरिति पादाः । अध्यात्मं
विश्वतैजसप्राज्ञाः । अधिदैवं विराड्ढिरण्यगर्भाव्याकृतानि । द्वे शीर्षे उत्तमाङ्गस्थानीये
चिदचिद्रूपे द्वे शक्ती । तथैवास्य ब्रह्मणो भूरादयः सप्त लोका हस्तासो हस्तस्थानीयाः ।
त्रिधा बद्धोऽकारोकारमकारेषु विश्वतैजसप्राज्ञैर्विराड्ढिरण्यगर्भाव्याकृतैश्च त्रिप्रकारेण
संबद्धो वृषभः प्रणवो महस्तेजोरूपं ब्रह्मतत्त्वं रोरवीति, अतिशयेन प्रतिपादयति ।
तदेव प्रतिपाद्यं स्पष्टी क्रियते—देवः परमेश्वरो मर्त्यान्मनुष्यदेहानाविवेश सर्वतः प्रविष्टः
"स एष इह प्रविष्ट आ नखाग्रेभ्यः " इति श्रुत्यन्तरात् ।
अष्टादशीमृचमाह —
त्रि॒धा हि॒तं प॒णिभि॑र्गुह्यमा॑नं॒ गवि॑ दे॒वासो॑ घृ॒तमन्व॑विन्दन् ।
इन्द्र॒ एकं॒ सूर्य॒ एकं॑ जजान वे॒नादेकं॑ स्व॒धया॒ निष्ट॑तक्षुः, इति ॥
त्रिधा हितं शरीरे विश्वतैजसप्राज्ञाख्येन त्रिप्रकारेण ब्रह्माण्डे विराड्ढिरण्यगर्भा-
व्याकृताख्येन च त्रिः( त्रि )प्रकारेणावस्थितं घृतं दीप्तं स्वप्रकाशं ब्रह्मतत्त्वं देवासो
देववत्सात्त्विका अन्तर्मुखाः पुरुषा गवि वाचि तत्त्वमस्यादिवेदरूपायामन्वविन्दन्न-
नुक्रमेण लब्धवन्तः । कीदृशं घृतम् । पणिभिर्गुह्यमानम् । पण व्यवहारे स्तुतौ
चेति धातुः । पणिभिः स्तोतृभिरुपदेष्टृभिराचार्यैः परमरहस्यत्वेन गोप्यमानम् । त्रिधा
हितमित्येतदेव विविच्यते । इन्द्रः परमैश्वर्ययुक्तो विराट्पुरुष एकं जागरणंरूपं
जजानोत्पादितवान् । सूर्यशब्दस्तेजस्वित्वेन हिरण्यगर्भमुपलक्षयति । स च हिरण्य-
गर्भ एकं स्वप्नरूपं जजान ! वेने(वे?)ति धातुः कान्तिकर्मा । वेनात्सर्वदुःख-
राहित्येन कमनीयादव्याकृतादेकं सुषुप्तरूपं निष्पन्नमिति शेषः । स्वस्मिन्नेव धीयतेऽव-
स्थाप्यत इत्याश्रयान्तररहिता ब्रह्मरूपा चित्स्वधाशब्देनोच्यते "स भगवः कस्मिन्प्र-
१ ख. ०नि । ... ना० । २ ग घ ०दैवतं वि० । ३ ग. ०श्च त्रिःप्र० । ४ झ. त्रिभिः प्र० ।
तिष्ठित इति स्वे महिम्नि ” इति श्रुत्यन्तरात् । तथा स्वधया अन्नरूपेण पित्र्या
पूर्वोक्ता इन्द्रसूर्येनेना निष्टृतक्षुर्जागरणादिकं निष्पादितवन्तः । एताभ्यां द्वाभ्यामृग्भ्यां
प्रणवतत्प्रतिपाद्यार्थौ प्रपञ्चितौ ।
एकोनविंशीमृचमाह—
यो दे॒वानां॑ प्रथ॒मं पु॒रस्ता॒द्विश्वा॑धि॒को रु॒द्रो म॑ह॒र्षिः ।
हिर॑ण्यग॒र्भं प॑श्यत॒ जाय॑मान॒ꣳ स नो॑ दे॒वः शु॒भया॒ स्मृत्या॒ संयु॑नक्तु , इति ॥
यो देवो हिरण्यगर्भं पश्यत साक्षात्करोति । कीदृशं हिरण्यगर्भम् । देवानां
प्रथममग्नीन्द्रादीनां मध्य आदिभूतम् । पुरस्ताज्जायमानमग्नीन्द्राद्युत्पत्तेः पूर्वमेवो-
त्पद्यमानम् । अनेन प्राथम्यं स्पष्टीकृतम् । कीदृशो देवः । विश्वाधिको विश्वस्य
जगतः कारणत्वेन तस्मादधिकः । रुद्रो रुग्वैदिक
[प्रपा० १० अनु० १०] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७३५
परे॑ण॒ नाकं॒ निहि॑तं॒ गुहा॑यां वि॒भ्राज॑ते॒ यद्यत॑यो वि॒शन्ति॑, इति ॥
यथोक्तब्रह्मतत्त्वानुस्मरणस्यान्तरङ्गं सर्वत्यागरूपं साधनमत्रोच्यते । अग्निहोत्रादिकं
सहस्रसंवत्सरसत्रान्तं यत्कर्म तेन कर्मणा तदमृतत्वं न लभ्यते । “प्रजया पितृभ्यः”
इति श्रुतेः पितृविषयादृणाद्विमोचनहेतुर्या पुत्रादिरूपा प्रजा तयाऽप्यमृतत्वं न लभ्यते ।
“दाने सर्वं प्रतिष्ठितं तस्माद्दानं परमं वदन्ति” इति श्रुतेर्धनदानस्य बहुविधफलसाध-
नत्वावगमात्तस्य दानस्य निष्पादकं यद्धनमस्ति तेन धनेनाप्यमृतत्वं न लभ्यते । किं
तर्हि कर्मप्रजादीनां सर्वेषां लौकिकवैदिकव्यापाराणां त्यागेनैके केचिदेवान्तर्मुखा अमृ-
तत्त्वमानशुः प्राप्नु
७२६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[प्रपा० १० अनु० १०]
विद्यमानत्वात् । नष्टे त्वज्ञाने यो देहपातावसरः सोऽयं परान्तकालः । पुनर्देहग्रहण-
रहितत्वात् । तस्मिन्परान्तकाले संसारबन्धान्मुच्यन्ते । नन्वज्ञानिनोऽपि प्रलयकाले
स्थूलसूक्ष्मशरीरद्वयलक्षणद्वन्धान्मुच्यन्त एवेत्याशङ्क्य परामृतादित्युकम् । जगत्कारण-
त्वेनोत्कृष्टं परम् । तत्त्वज्ञानमन्तरेण विनाशरहितत्वादमृतं तादृशात्परामृतादव्याकृताद-
ज्ञानिनः प्रलयकालेऽपि न मुच्यन्ते । ज्ञानिनस्तु देहपातावसर एव तादृशादव्याकृता-
दपि मुच्यन्त इति विशेषः ।
त्रयोविंशीमृचमाह—
द॒ह्रं विपापं॑ व॒रवे॑श्मभू॒तं यत्पु॑ण्डरी॒कं पु॒रमध्य॑स॒ग्स्थम् ।
तत्रा॑पि द॒हे गग॑नं वि॒शोकं॒ तस्मि॑न्यद॒न्तस्तदुपा॑सि॒तव्य॑म्, इति ॥
तत्त्वं ज्ञातुमसमर्थस्यात्रोपासनमुच्यते । यदेतत्पुण्डरीकमष्टदलं हृदयकमलमस्ति ।
कीदृशम् । दह्रमल्पमङ्गुष्ठमात्रपरिमितत्वात् । विपापं चित्तैकाग्र्यस्थानत्वेन पापरहितम्।
वरवेश्मभूतं वरस्य श्रेष्ठस्य परमात्मन उपलब्धिरूपस्थानत्वेनोपास्तिस्थानत्वेन च गृहरू-
पम् । पुरमध्यसंस्थं हस्तपादादिभिः सर्वैरवयवैः पूर्यत इति पुरं तस्य मध्ये कुसुमरस
इवान्तराऽवस्थितम् । तत्रापि तस्मिन्नपि पुण्डरीके दहेऽल्पप्रदेशे गगनमाकाशवदमूर्तं
ब्रह्मरूपमस्ति । ब्रह्मणः सर्वगतत्वेऽपि घटाकाशवत्पुण्डरीकस्थानापेक्षयाऽल्पत्व-
मुपचर्यते । तथा च श्रुत्यन्तरम्—" अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म
दहरोऽस्मिन्नन्तराकाशः " इति । दहराकाशस्य च ब्रह्मत्वं दहराधिकरणे निर्णीतम् ।
अत एव विशोकं शोकरहितं गगनशब्दवाच्यं ब्रह्म । एवं सति तस्मिन्पुण्डरीकेऽन्त-
र्मध्ये यद्ब्रह्मतत्त्वमस्ति तदुपासितव्यं विजातीयप्रत्ययरहितेन सजातीयप्रत्ययप्रवाहेण
चिन्तनीयम् ।
चतुर्विंशीमृचमाह—
यो वे॒दादौ स्व॑रः प्रो॒क्तो वे॒दान्ते॑ च॒ प्रति॑ष्ठितः ।
तस्य॑ प्रकृ॒तिली॑न॒स्य॒ यः परः॑ स म॒हेश्व॑रः, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
दशमोऽनुवाकः ॥ १० ॥
वेदानाम् " अग्निमीळे पुरोहितम् " " इषे त्वोर्जे त्वा " इत्यादीनामादिरुपक्रमः,
तस्मिन्नुपक्रमे यः स्वरो यो वर्णः प्रणवरूपोऽस्ति स च स्वरः प्रणवो वेदान्ते चोपनिष-
१ ख. 'रल' । २ ग. झ. °मृतत्वम् ता' । ३ ग. दहरं । ४ ग. विद्याप्य ५ ग. शोक-
वर्जितं° । ६ ग. °ष्ठीयत मध्ये° । ७ ग. चान्यान्तरे । ८ ग. हृदयारमोदन्त° । ९ झ: विवेचनीयम्।
[प्रपा० १० अनु० ११] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७२७
द्योमित्येतदक्षरमिदं सर्वमित्यादिकायां प्रतिष्ठितः प्रतिपादितः, स च स्वरः प्रणवो
ध्यानकाले प्रकृतावव्याकृते जगत्कारणे लीनो भवति । अकारोकारमकारेषु विराड्धि-
रण्यगर्भाव्याकृतानि ध्यात्वा विराड्रूपमकारमुकारे प्रविलाप्य तं चोकारं हिरण्यगर्भरूपं
मूलप्रकृतिरूपे मकारे प्रविलापयेत् । तस्य च प्रकृतौ लीनस्य प्रणवस्य यः परश्चतुर्थ-
मात्रारूपेण नादे ध्यातव्य उत्कृष्टोऽस्ति, सोऽयं महेश्वरो विज्ञेयः । अनेन मन्त्रेण
पूर्वोक्तं गानशब्दवाच्यं वस्तु प्रपञ्चितम् ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या-
मुपनिषदि दशमोऽनुवाकः ॥ १० ॥
अथैकादशोऽनुवाकः ।
पूर्वानुवाकान्ते हृदयपुण्डरीक उपास्यं यन्महेश्वरस्वरूपं निर्दिष्टं तस्मिन्नुपास्यगुण-
विशेषा अस्मिन्ननुवाके विशेषेण प्रदर्श्यन्ते । तत्र प्रथमामृचमाह—
स॒हस्र॑शीर्षं दे॒वं वि॒श्वाक्षं॑ वि॒श्वश॑म्भुवम् ।
विश्वं॑ नारा॒यणं॑ दे॒वम॒क्षरं॑ पर॒मं प्र॒भुम् , इति ॥
देवं पूर्वोक्तं महेश्वरं ध्यायेदिति शेषः । कीदृशं देवम् । सहस्रशीर्षं सहस्रशब्दे-
नापरिमितत्वमुपलक्ष्यते । अनन्तशिरस्कमित्यर्थः । सर्वजगदात्मकं विराड्रूपं महेश्वरस्य
देहः । तथा सत्यस्मदादिशिरांसि सर्वाण्यपि तदीयान्येवेत्यनन्तशिरस्त्वम् । अनेनैव
न्यायेन विश्वानि सर्वाण्यस्मदीयान्यक्षणीन्द्रियाणि तदीयान्येवेति विश्वाक्षत्वम् ।
विश्वस्य सर्वस्य जगतः शं सुखमस्माद्भवतीति विश्वशंभुः(भूः), तादृशम् । उक्ते सह-
स्रशीर्षे विराड्रूपे देहेऽवस्थितस्य महेश्वरस्य निजस्वरूपं द्वितीयार्धेनोच्यते । विश्वं
जगदात्मकम् । आरोपितस्य जगतोऽधिष्ठानव्यतिरेकेण वास्तवरूपाभावात् । नारायण-
शब्दस्य निर्वचनं पुराणेषु दर्शितम्—
“आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
अयनं तस्य ताः प्रोक्तास्तेन नारायणः स्मृतः ” इति ।
जगत्कारणेषु पञ्चभूतेष्ववस्थितै इत्यर्थः । यद्वा प्रकृतेः प(र्तिर्न)रः । तस्माज्जातानि
१ ग. °वाच्यव° । २ ख. विस्तरेण । ३ झ. ऽरस्कत्वम् । ४ ग. °चनम् । ५ ग. झ.
'त इत्य° । ६ ख. °र्थः । त° ।
७२८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा० १० अनु० ११]
कानि तानि नारशब्देनोच्यन्ते । तान्येतान्ययनं स्थानं यस्य स नारायणः । स एको
न्द्राग्न्यादिरूपेणावस्थितत्वाद्वैव इत्युच्यते । तथा च शास्त्रान्तरे मन्त्र आम्नातः—"एकं
मित्रं॒ वरु॑णम॒ग्निमा॑हुः" इति । न क्षरतीत्यक्षरः, अश्नुत इति वा तस्याक्षरत्वम् ।
कारणत्वेनोत्कर्षात्परमस्त्वम् । नियन्तुं समर्थत्वात्प्रभुत्वम् ।
द्वितीयामृचमाह—
विश्वतः॑ पर॒मं नि॒त्यं वि॒श्वं ना॑राय॒णꣳ ह॑रिम् ।
वि॒श्वमे॒वेदं पुरु॑ष॒स्तद्विश्वमुप॑जीवति, इति ॥
विश्वतो जगतो जडवर्गात्परमुत्कृष्टम् । ऋग्वेदेन पुनरुक्तिपरिहारो द्रष्टव्यः ।
यद्वा स्तुतिरूपत्वादनेन रूपेण ध्यातव्यत्वाच्च नास्ति पुनरुक्तिदोषः । विनाशरहितत्वान्नि-
त्यत्वम् । सर्वात्मकत्वाद्विश्वत्वम् । नारायणत्वं पूर्वमेवोक्तम् । पापस्याज्ञानस्य च हर-
णाद्धरित्वम् । यदिदं विश्वमिदानीमज्ञैर्नदृष्ट्या प्रदृश्यते तत्सर्वं वस्तुतत्त्वदृष्ट्या
पुरुषः परमात्मैव । स च परमात्मा तद्विश्वमुपजीवति स्वस्य व्यवहारार्थमाश्रयति ।
तृतीयामृचमाह—
पतिं॒ विश्व॑स्या॒ऽऽत्मेश्व॑रꣳ शाश्व॑तं शिव॒मच्यु॑तम् ।
नाराय॒णं म॑हाज्ञे॒यं वि॒श्वात्मा॑नं प॒राय॑णम्, इति ॥
विश्वस्य जगतः पालकत्वात्पतिः । आत्मनां जीवानां नियामकत्वादीश्वरः । निर-
न्तरं वर्तमानत्वाच्छाश्वतः । परममङ्गलत्वाच्छिवः । न च्यवत इत्यच्युतः । नारायणत्वं
पूर्वमुक्तम् । ज्ञेयेषु तत्त्वेषु मध्ये प्रौढत्वान्महाज्ञेय [त्व] म् । जगदुपादानत्वेन तदभेदाद्विश्वात्म-
त्वम् । उत्कृष्टाधारत्वात्परायणत्वम् । सर्वमप्यारोपितं तदधिष्ठाने वर्तते ।
चतुर्थीमृचमाह—
*नाराय॑णः परं॒ ब्रह्म॒ तत्त्वं॒ नारा॑यणः प॑रः ।
नारा॑यणः परो॒ ज्योति॑रात्मा नारा॑यणः परः, इति ॥
- ग. पुस्तके पूर्वार्धोत्तरार्धव्यत्यासो वर्तते—"नारायणः परो ध्याता ध्यानं नारायणः परः"
इत्यधिकं च ।
१ ख. ॰त्यश्वन । २ झ. ॰रः, न स्युत । ३. ख. झ. ॰रमो नि॑ । ४ ग. ॰म्यः।स्तु' ।
५ ख. ॰ज्ञानाद्दृष्ट्या । ६ ग. झ. ॰त्पतिम् । आ° । ७ ग. ॰श्वरं नियम्यारम् । नि॑ । ८ ग.
झ.. ॰श्वतम् । प° । ९ ग. झ. ॰च्छिवत्र । न । १० ग. ॰भ्युदम् । ना । ११ ख. ॰त्वां
यण° । १२ ख. ॰यणं प° । १३ ख. ॰यणप॑ ।
[प्रपा० १० अनु० ११] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७२९
पुराणेषु नारायणशब्देन व्यवह्रियमाणो यः परमेश्वरः स एव परमुत्कृष्टं सत्यज्ञा-
नानन्दादिवाक्यैः प्रतिपाद्यस्य ब्रह्मणस्तत्त्वम् । अतो नारायणः पर एवाऽऽत्मा न
त्वपरो मूर्तिविशेषः । तथा परो ज्योतिर्यदेतदुत्कृष्टं ज्योतिश्छन्दोगैः—" परं ज्योति-
रूपसंपद्य " इत्याम्नातं तदपि नारायण एव । तस्मान्नारायणः परमात्मा ।
पञ्चमीमृचमाह—
यच्च॑ किंचिज्ज*गत्सर्वं दृ॒श्यते॑ श्रूय॒तेऽपि॑ वा ।
अन्त॑र्बहि॒श्च तत्सर्वंꣳ व्याप्य॑ ना॒राय॑णः स्थि॒तः, इति ।
अस्मिन्वर्तमाने जगति यत्किंचित्समीपवर्ति वस्तुजातं दृश्यते । अपि वा दूरस्थं
श्रूयते । तत्सर्वं वस्तुजातमयं नारायणोऽन्तर्बहिश्च व्याप्यावस्थितः । यथा कटक-
मुकुटाद्याभरणस्योपादानकारणं सुवर्णमन्तर्बहिर्व्याप्यावतिष्ठते तद्वत् ।
षष्ठीमृचमाह—
अन॑न्त॒मव्य॑यं क॒विꣳ समु॒द्रेऽन्तं॑ वि॒श्वश॑म्भुवम् ।
प॒द्म॒को॒शप्र॑तीका॒शꣳ हृद॑यं चाप्यधोमु॑खम् , इति ।
अत्र पूर्वार्धेन नारायणस्य वास्तवस्वरूपं संक्षिप्योपन्यस्यते । अनन्तं देशपरिच्छे-
दरहितम् । अव्ययं विनाशरहितम् । कविं चिद्रूपेण सर्वज्ञम् । समुद्रेऽतिबहुलत्वेन
समुद्रसदृशे संसारेऽन्तमवसानरूपम् । यदा नारायणस्य स्वरूपं जानाति तदा संसारः
क्षीयत इत्यर्थः । विश्वशंभुवं सर्वस्य संसारसुखस्योत्पत्तिकारणरूपम् । "एतस्यैवाऽऽ-
नन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति " इति श्रुत्यन्तरात् । ईदृशं नारायणस्वरूपमुपा-
सीतेति शेषः । उत्तरार्धेनोपासनस्थानमुच्यते—पद्मकोशप्रतीकाशं यथा लोकेऽष्टदल-
कमलस्य कोशो मध्यच्छिद्रं तत्सदृशं तच्च हृदयशब्दवाच्यम् । लौकिकं पद्ममूर्ध्वाभिमुखं
हृदयपद्मं त्वधोमुखमिति विशेषः ।
सप्तमीमृचमाह—
अधो॑ नि॒ष्ट्या वि॑त॒स्त्यान्ते॑ नाभ्या॑मुप॑रि तिष्ठ॑तिँ ।
- हृद॑यं तद्वि॑जानीयाद्वि॒श्वस्या॑ऽऽय॒तनं म॒हत्, इति ।
- जगत्यस्मिन्निति पाठो भाष्यानुरोधी, स च वर्तते क्वचिदिति ग. पुस्तकटिप्पणीतो ज्ञायते ।
- पदत्रयमेतन्निधित्वस्वरकम् ।
१ ख. ॰मादि॰ । २ ख. ॰वाक्यप॰ । ३ ख. ॰पमस्तीति शे॰ । ४ ख. झ. ॰नमु॰ ।
५ ग. लोके शतद॰ । ६ ग. ॰त्यावन्तेन ना॰ । ७ ग. ॰ति । जालमालाकुलं भाति विश्व॰ ।
लाभि॑स्तु"?
Wait, let's check:
"संत॑ꣳ शि॒िलाभि॑स्तु" - wait, why संत॑ꣳ?
Because in Taittiriya Aranyaka 10.11:
"संत॑ꣳ शि॒राभि॑स्तु" (often read संततं or संतꣳ). Here it is printed संत॑ꣳ!
Wait, is there a त missing, or is it संत॑ꣳ?
It is printed: सं त॑ ꣳ->संत॑ꣳ`!
Now look at what follows:
शि then a small sign: wait, is it ४ or ॒?
Wait! Look at the footnote at the bottom:
४ ग. शिराभि॰ ।
Yes! Footnote 4 is ग. शिराभि॰ ।. So there MUST be a footnote marker 4 near शिराभिस्तु / शिलाभिस्तु!
And indeed, that small sign is ४!
Wait, let's check where the other footnote markers are:
१ ग. ॰र्ध्वदेशभा॰ । -> in L2: near नाभिदेशस्योर्ध्वभागे.
२ ग. ॰तस्त्यां दा॰ । -> in L3: near वितस्तिस्तस्यामतीतायामुपरि.
`३ ख. ॰श्या
[प्रपा० १० अनु० ११] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७३१
दशमीमृचमाह—
सं॒ता॒पय॑ति स्वं दे॒हमापा॑दतल॒मस्त॑कम् ।
तस्य॒ मध्ये॒ वह्निशिखा अणीयो॑र्ध्वा व्य॒वस्थि॑ता, इति ।
पादतलमारेभ्य मस्तकपर्यन्तं कृत्स्नमपि स्वकीयं देहं सर्वदा संतापयति । सोऽयं
शरीरगतः संतापोऽग्निसद्भावे लिङ्गम् । तस्य ज्वालाविशेषैः कृत्स्नदेहव्यापिनोऽग्ने-
र्मध्ये वह्निशिखा काचिज्ज्वालाऽणीयाऽत्यन्तसूक्ष्मोर्ध्वा सुषुम्नानाडीनालेनोर्ध्वं ब्रह्मर-
न्ध्रपर्यन्तं प्रसृत्य व्यवस्थिता विशेषेणावस्थिता ।
एकादशीमृचमाह—
नी॒लतो॑यद॒मध्य॑स्था वि॒द्युल्ले॒खेव॒ भास्व॑रा ।
नी॒वार॒शूक॑वत्त॒न्वी पी॒ता भा॑स्वत्य॒णूप॑मा, इति ।
तोयमुदकं ददातीति तोयदो मेघः, स च वर्षितुं जलपूर्णत्वान्नीलवर्णः । तादृशस्य
मेघस्य मध्ये स्थिता विद्युल्लेखेव । सेयं पूर्वोक्ताऽग्निशिखा भास्वरा प्रभावती नीवारबी-
जस्य शूकं दीर्घं पुच्छं यथा तनु भवति तद्वदियं शिखा तन्वी बाह्यवह्निशिखेव पीता
भास्वती पीतवर्णा दीप्तियुक्ता भवेत् । सा चाणूपमा लौकिकानां तनूनां सूक्ष्मवस्तू-
नामुपमा भवितुं योग्या ।
द्वादशीमृचमाह—
तस्याः॑ शि॒खाया॒ मध्ये॑ प॒रमा॑त्मा व्य॒वस्थि॑तः ।
स ब्रह्मा॒ स शिवः॒ सेन्द्रः॒ सोऽक्ष॑रः पर॒मः स्व॒राट्, इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषद्ये-
कादशोऽनुवाकः ॥ ११ ॥
तस्याः पूर्वोक्ताया वह्निशिखाया मध्ये जगत्कारणभूतः परमात्मा विशेषेणाव-
स्थितः । तस्योपासनार्थमल्पस्थानत्वेऽपि न स्वयमल्पः, किंतु सर्वदेवात्मकः । ब्रह्मा
चतुर्मुखः, शिवो गौरीपतिः, इन्द्रः स्वर्गाधिपतिः, अक्षरो जगद्धेतुर्मायाविशिष्टोऽन्त-
र्यामीश्वरः “क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते” इति भगवतोक्तत्वात् ।
परमो मायारहितः शुद्धश्चिद्रूपः । अत एव पारतन्त्र्याभावात्स्वराट्स्वयमेव राजा ।
१ झ. ॰स्तकः । तं° । २ ख. ॰द्भावो लि° । ३ ख. ॰र्मध्येऽपि व° । ४ ग. ॰षुम्गाना° ।
ग. ॰ह्निज्वालेव । ६ ग. ॰किकीनां । ७ ख. झ. बह्मा । ८ ग. झ. ॰वः स हरिः से° । ९ झ.
इचिद्रू° ।
७३२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० १० अनु० १२-१३]
सहस्रशीर्षमित्यादिवाक्यप्रतिपाद्यं तत्त्वं पद्मकोशप्रतीकाशमित्यादिवाक्योक्तप्रकारेण
ध्यायेदिति तात्पर्यार्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषद्येकादशोऽनुवाकः ॥ ११ ॥
अथ द्वादशोऽनुवाकः ।
पूर्वोक्तप्रकारेणोपासीनस्य पुरुषस्योपास्यदेवतानमस्कारार्थमेकामृचमाह—
ऋ॒तꣳ स॒त्यं परं॒ ब्रह्म॒ पुरु॑षं कृष्णपि॒ङ्गल॑म् ।
ऊ॒र्ध्वरे॑तं वि॑रू॒पाक्षं॑ वि॒श्वरू॑पाय॒ वै नमः॑१, इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
द्वादशोऽनुवाकः ॥ १२ ॥
यदेतत्परं ब्रह्म तत्सत्यमबाध्यम् । सत्यं२ च द्विविधम्, व्यावहारिकं पारमार्थिकं३
च । हिरण्यगर्भादिकं रूपं व्यावहारिकं सत्यं तन्निवारणेन परमार्थिकसत्यं प्रदर्श-
यितुमृतं सत्यमिति विशेष्यते । अत्यन्तसत्यमित्यर्थः । तादृशं ब्रह्म स्वभक्तानुग्रहायो-
मामहेश्वरात्मकं पुरुषरूपं भवति । तत्र दक्षिणे महेश्वरभागे कृष्णवर्णः । उमाभागे
वामे पिङ्गलवर्णः । स च योगेन स्वकीयं रेतो ब्रह्मरन्ध्रे धृत्वोर्ध्वरेता भवति । त्रिनेत्र-
त्वाद्विरूपाक्षः । तादृशं परमेश्वरमनु॑मन्येति शेषः । विश्वरूपाय जगत्कारणत्वेन सर्व-
जगदात्मकाय विरूपाक्षाय पुरुषायैव नमस्कारोऽस्तु ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञि-
क्यामुपनिषदि द्वादशोऽनुवाकः ॥ १२ ॥
अथ त्रयोदशोऽनुवाकः ।
―――――
इदानीमादित्यमण्डले परब्रह्मोपासनमाह—
आ॒दि॒त्यो वा ए॒ष ए॒तन्म॒ण्डलं॒ तप॑ति॒ तत्र॒ ता ऋच॒स्तदृचा
१ ग. झ. वै नमो न° । २ ख झ. सत्यत्वं च । ३ ख. झ. °र्थिकं सत्यत्वं प्र° । ४ ग.
॰— आ° ।
[प्रपा० १० अनु० १३] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७२३
मं॒ण्डलं॑५ स ऋ॒चां लो॒कोऽथ॑ य ए॒ष ए॒तस्मि॑न्मण्ड॒लेऽर्चिर्दी-
प्यते॒ तानि॒ सामा॑नि॒ स साम्नां॑ लो॒कोऽथ॑ य ए॒ष ए॒त-
स्मिन्मण्डलेऽर्चिषि॒ पुरु॑षस्तानि॒ यजूं॑षि॒ स यजु॑षा
मण्डल५ स यजु॑षां लो॒कः सैषा त्रय्येव॑ वि॒द्या तप॑ति॒
य ए॒षोऽन्त॑रादि॒त्ये हिर॑ण्मयः॒ पुरु॑षः, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
त्रयोदशोऽनुवाकः ॥ १३ ॥
नारायणशब्दवाच्यो यः परमेश्वरः पूर्वानुवाकेऽभिहितः स एष आदित्यो वै
सोपाधिकः सन्नादित्यरूपेणैव वर्तते । तस्य चाऽऽदित्यस्यैतदस्माभिर्दृश्यमानं मण्डलं
वर्तुलाकारमुष्णं तेजस्तपति संतापं करोति । तत्र तस्मिन्मण्डले ता अध्यापकप्रसिद्धा
“अग्निमीळे” इत्यादिका ऋचो वर्तन्ते । तत्तस्मात्कारणान्मण्डलमृचा निष्पादितमिति
शेषः२ । स मण्डलभाग ऋग्भिर्निष्पादित ऋचामृगभिमानिदेवतानां लोको निवास-
स्थानम् । एवमृगात्मकत्वं मण्डलस्य ध्यात्वाऽथानन्तरं सामात्मकत्वं तत्र ध्यातव्यम् ।
कथमिति तदुच्यते—एतस्मिन्मण्डले य एष यदेतदर्चिर्दीप्यते भास्वरं तेजः प्रका-
शते तान्यर्चिःस्वरूपाणि बृहद्रथंतरादिसामानीति ध्यायेत् । सोऽर्चिर्भागः साम्नां
सामाभिमानिदेवतानां लोको निवासस्थानम् । अथ सामध्यानानन्तरं यजुरात्मकं
ध्यातव्यम् । कथमिति तदुच्यते—य एष शास्त्रप्रसिद्ध एतस्मिन्दृश्यमाने मण्डले
तदीयेऽर्चिषि३ च पुरुषो देवतात्मा वर्तते । तानि देवतास्वरूपाणि यजूंषि “इषे त्वोर्जे
त्वा” इत्यादीनि ध्यायेत् । स यजुरात्मकः पुरुषो यजुषा निष्पादितं मण्डलमिति
ध्यायेत् । स यजुर्भागो यजुषां यजुरभिमानिदेवतानां लोको निवासस्थानम् । सैषा
मण्डलतदर्चिस्तद्गत्यपुरुषरूपा ऋय्येवर्ऋग्यजुःसामात्मिकैव विद्या तपति प्रकाशते ।
यः पुरुषोऽत्राभिहित एषोऽन्तरादित्य आदित्यमण्डलमध्ये हिरण्मयो वर्तते । हिर-
ण्मयत्वं चं शाखान्तरे प्रपञ्चितम्—४“अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते
हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्व एव सुवर्णः” ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषदि त्रयोदशोऽनुवाकः ॥ १३ ॥
१ झ. ॰रमूतं ते° । २ ग. म. ॰षः । म । ३ ग. ॰वि पुं । ४ ग. झ. घ श्रुत्यन्त° ।
५ ख. घ ॰ण्डलम्ना° ।
or a sign?
No, it's just the Vedic accent or text: तत्स॒त्यमन्न॑मायु॑रमृ॒तो जी॒वो विश्वः॑
Wait, let's look at विश्वः॑:
In line 6: जी॒वो विश्वः॑ -> under जी is anudatta जी॒.
Over विश्वः: svarita over श्वः (विश्वः॑).
Line 7:
क॒तमः स्व॑य॒म्भूः *प्र॒जाप॑तिरिति संवत्स॒रोऽसा॑वादि॒त्यो
Wait, look at स्व॑य॒म्भूः:
स्व॑: svarita over स्व.
य॒: anudatta under य.
म्भूः: nothing.
Then *प्र॒जाप॑तिरिति:
*: asterisk.
प्र॒: anudatta under प्र.
जा: nothing.
प॑: svarita over प.
तिरिति: nothing.
संवत्स॒रोऽसा॑वादि॒त्यो:
संवत्स॒रो: anudatta underत्स (त्स॒).
ऽसा॑: svarita over सा (सा॑).
वा: nothing.
दि॒: anudatta under दि (दि॒).
त्यो: nothing.
Line 8:
य ए॒ष पुरु
[प्रपा० १० अनु० १५] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७३५
भावनामान्द्ये सलोकतां हिरण्यगर्भेण सहैकलोकनिवासं प्राप्नोति । देवतोपास्तावपि
भावनाधिक्ये सत्येतासामेवेन्द्रादीनां देवतानां सायुज्यं प्राप्नोति । भावनाया मध्यमत्वे
सति सार्ष्टितां समानैश्वर्यतां प्राप्नोति । मान्द्ये तु समानलोकतां प्राप्नोति ।
उत्तरमन्त्रजपविवक्षयोपास्तिप्रकारमुपसंहरति—
इत्युप॒निष॑त् , इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
चतुर्दशोऽनुवाकः ॥ १४ ॥
इत्येवं पूर्वोक्तैरनुवाकैरूक्तोपनिषद्रहस्यभूता विद्या समाप्तेति शेषः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-
निषदि चतुर्दशोऽनुवाकः ॥ १४ ॥
अथ पञ्चदशोऽनुवाकः
उपासनायामसमर्थस्याऽऽदित्यदेवताविषयं जप्यं मन्त्रमाह—
घृणि॒ः सूर्य॑ आदि॒त्यो(त्यस्त?)मर्चयन्ति *तप॒ः
सत्यं॒ मधु॑ क्षरन्ति॒ तद्ब्रह्म॒ तदाप॒ आपो॒ ज्योती॒
रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुव॒ः सुव॒रोम् , इति॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
पञ्चदशोऽनुवाकः ॥ १५ ॥
घृणिर्दीप्तिमान्सूर्य एतन्नामक आदित्योऽदितिदेवतायाः पुत्रः । एतादृशोऽ-
हमस्मि । ईदृशमादित्यं फलार्थिनः सर्वेऽप्यर्चयन्ति । तथा तमादित्यमुद्दिश्यं तपः
क्षरन्तीति शेषः । सत्यमनृतवर्जनम् । अनुतिष्ठन्तीति शेषः । मधु क्षरन्ति मधुरं
क्षीरादिकं नैवेद्यरूपेण समर्पयन्ति । तदादित्यरूपं ब्रह्म वेदात्मकं परं ब्रह्म वा ।
तथा तदादित्यरूपमपः, आपो जलरूपं वृष्टिनिष्पादकत्वात् । तथा समुद्रादिगता या
- एतदादि तदाप इत्यन्तमन्विश्चितस्वरकम् ।
१ झ. °मेव दे° । २ ग. °त्यो न प्रभांवात्यक्षरम् । मधु क्षरन्ति तद्रसम् ।
सत्यं वै तद्ब्रह्मापो ।
७३६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[प्रपा० १० अनु० १५-१७]
आपो यच्चाग्न्यादिकं ज्योतिर्योऽपि मधुरादिरसो यच्च देवैः पातव्यममृतं यदपि ब्रह्म
मन्त्रजातं ये च भूर्भुवः सुवस्त्रयो लोकास्तत्सर्वमोमादित्यरूपं भवतीत्यर्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या-
मुपनिषदि पञ्चदशोऽनुवाकः ॥ १५ ॥
अथ षोडशोऽनुवाकः ।
───
रुद्रदेवताकं मन्त्रमाह—
सर्वो॒ वै रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु । पुरु॑षो॒ वै रु॒द्रः
सन्म॒हो नमो॒ नमः॑ । विश्वं॑ भू॒तं भुव॑नं चि॒त्रं ब॑हु॒धा जा॒तं जाय॑-
मानं च॒ यत् । सर्वो॒ ह्येष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
षोडशोऽनुवाकः ॥ १६ ॥
यो रुद्रः पार्वतीपतिः पुराणेषु प्रसिद्धः स एव सर्वो जीवरूपेण सर्वशरीरेषु प्रवि-
ष्टत्वात्तस्मै सर्वात्मकाय रुद्राय नमोऽस्तु । प्रकृतिपुरुषयोर्मध्ये जडात्मिकां प्रकृतिम-
पोह्य चिदात्मकः पुरुषो यो विद्यते स एव भक्तानुग्रहाय रुद्रमूर्त्तिरूपेणावभासते ।
तस्मादुक्तः स रुद्रः सन्महः “ सदेव सोम्येदमग्र आसीत् ” इत्यादिप्रतिपाद्यमवा-
धितं सद्रूपं तेजः । तादृशाय रुद्राय पुनः पुनर्नमस्कारोऽस्तु । यज्जडं विश्वमस्ति यच्च
भूतं चेतनं प्राणिजातमस्ति, इत्थं चेतनाचेतनरूपेण विचित्रं यद्भुवनं जगत्तत्रापि यज्ज-
गज्जातं पूर्वमेवोत्पन्नं यच्चेदानीं जायमानं स सर्वोऽपि प्रपञ्च एष रुद्रो हि तद्व्यति-
रेकेण वास्तवस्य जगतो निरूपयितुमशक्यत्वात् । तादृशाय सर्वात्मकाय रुद्राय नम-
स्कारोऽस्तु ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि षोडशोऽनुवाकः ॥ १६ ॥
अथ सप्तदशोऽनुवाकः ।
───
रुद्रदेवताकं द्वितीयं मन्त्रमाह—
कद्रु॒द्राय॒ प्रचे॑तसे मी॒ळ्हुष्ट॑माय॒ तव्य॑से । वोचे॑म॒ शंत॑मं*