तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
DevanagariSanskritpublished914 पृष्ठ
पृष्ठ 741, कुल 914 में से
संदर्भ में पढ़ेंपृष्ठ 741७३६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[प्रपा० १० अनु० १५-१७]
अथ षोडशोऽनुवाकः ।
७३६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[प्रपा० १० अनु० १५-१७]
आपो यच्चाग्न्यादिकं ज्योतिर्योऽपि मधुरादिरसो यच्च देवैः पातव्यममृतं यदपि ब्रह्म
मन्त्रजातं ये च भूर्भुवः सुवस्त्रयो लोकास्तत्सर्वमोमादित्यरूपं भवतीत्यर्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या-
मुपनिषदि पञ्चदशोऽनुवाकः ॥ १५ ॥
अथ षोडशोऽनुवाकः ।
───
रुद्रदेवताकं मन्त्रमाह—
सर्वो॒ वै रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु । पुरु॑षो॒ वै रु॒द्रः
सन्म॒हो नमो॒ नमः॑ । विश्वं॑ भू॒तं भुव॑नं चि॒त्रं ब॑हु॒धा जा॒तं जाय॑-
मानं च॒ यत् । सर्वो॒ ह्येष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु, इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि
षोडशोऽनुवाकः ॥ १६ ॥
यो रुद्रः पार्वतीपतिः पुराणेषु प्रसिद्धः स एव सर्वो जीवरूपेण सर्वशरीरेषु प्रवि-
ष्टत्वात्तस्मै सर्वात्मकाय रुद्राय नमोऽस्तु । प्रकृतिपुरुषयोर्मध्ये जडात्मिकां प्रकृतिम-
पोह्य चिदात्मकः पुरुषो यो विद्यते स एव भक्तानुग्रहाय रुद्रमूर्त्तिरूपेणावभासते ।
तस्मादुक्तः स रुद्रः सन्महः “ सदेव सोम्येदमग्र आसीत् ” इत्यादिप्रतिपाद्यमवा-
धितं सद्रूपं तेजः । तादृशाय रुद्राय पुनः पुनर्नमस्कारोऽस्तु । यज्जडं विश्वमस्ति यच्च
भूतं चेतनं प्राणिजातमस्ति, इत्थं चेतनाचेतनरूपेण विचित्रं यद्भुवनं जगत्तत्रापि यज्ज-
गज्जातं पूर्वमेवोत्पन्नं यच्चेदानीं जायमानं स सर्वोऽपि प्रपञ्च एष रुद्रो हि तद्व्यति-
रेकेण वास्तवस्य जगतो निरूपयितुमशक्यत्वात् । तादृशाय सर्वात्मकाय रुद्राय नम-
स्कारोऽस्तु ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयारण्यकभाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि षोडशोऽनुवाकः ॥ १६ ॥
अथ सप्तदशोऽनुवाकः ।
───
रुद्रदेवताकं द्वितीयं मन्त्रमाह—
कद्रु॒द्राय॒ प्रचे॑तसे मी॒ळ्हुष्ट॑माय॒ तव्य॑से । वोचे॑म॒ शंत॑मं*