तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 734, कुल 914 में से
संदर्भ में पढ़ें[प्रपा० १० अनु० ११] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७२९
पुराणेषु नारायणशब्देन व्यवह्रियमाणो यः परमेश्वरः स एव परमुत्कृष्टं सत्यज्ञा-
नानन्दादिवाक्यैः प्रतिपाद्यस्य ब्रह्मणस्तत्त्वम् । अतो नारायणः पर एवाऽऽत्मा न
त्वपरो मूर्तिविशेषः । तथा परो ज्योतिर्यदेतदुत्कृष्टं ज्योतिश्छन्दोगैः—" परं ज्योति-
रूपसंपद्य " इत्याम्नातं तदपि नारायण एव । तस्मान्नारायणः परमात्मा ।
पञ्चमीमृचमाह—
यच्च॑ किंचिज्ज*गत्सर्वं दृ॒श्यते॑ श्रूय॒तेऽपि॑ वा ।
अन्त॑र्बहि॒श्च तत्सर्वंꣳ व्याप्य॑ ना॒राय॑णः स्थि॒तः, इति ।
अस्मिन्वर्तमाने जगति यत्किंचित्समीपवर्ति वस्तुजातं दृश्यते । अपि वा दूरस्थं
श्रूयते । तत्सर्वं वस्तुजातमयं नारायणोऽन्तर्बहिश्च व्याप्यावस्थितः । यथा कटक-
मुकुटाद्याभरणस्योपादानकारणं सुवर्णमन्तर्बहिर्व्याप्यावतिष्ठते तद्वत् ।
षष्ठीमृचमाह—
अन॑न्त॒मव्य॑यं क॒विꣳ समु॒द्रेऽन्तं॑ वि॒श्वश॑म्भुवम् ।
प॒द्म॒को॒शप्र॑तीका॒शꣳ हृद॑यं चाप्यधोमु॑खम् , इति ।
अत्र पूर्वार्धेन नारायणस्य वास्तवस्वरूपं संक्षिप्योपन्यस्यते । अनन्तं देशपरिच्छे-
दरहितम् । अव्ययं विनाशरहितम् । कविं चिद्रूपेण सर्वज्ञम् । समुद्रेऽतिबहुलत्वेन
समुद्रसदृशे संसारेऽन्तमवसानरूपम् । यदा नारायणस्य स्वरूपं जानाति तदा संसारः
क्षीयत इत्यर्थः । विश्वशंभुवं सर्वस्य संसारसुखस्योत्पत्तिकारणरूपम् । "एतस्यैवाऽऽ-
नन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति " इति श्रुत्यन्तरात् । ईदृशं नारायणस्वरूपमुपा-
सीतेति शेषः । उत्तरार्धेनोपासनस्थानमुच्यते—पद्मकोशप्रतीकाशं यथा लोकेऽष्टदल-
कमलस्य कोशो मध्यच्छिद्रं तत्सदृशं तच्च हृदयशब्दवाच्यम् । लौकिकं पद्ममूर्ध्वाभिमुखं
हृदयपद्मं त्वधोमुखमिति विशेषः ।
सप्तमीमृचमाह—
अधो॑ नि॒ष्ट्या वि॑त॒स्त्यान्ते॑ नाभ्या॑मुप॑रि तिष्ठ॑तिँ ।
- हृद॑यं तद्वि॑जानीयाद्वि॒श्वस्या॑ऽऽय॒तनं म॒हत्, इति ।
- जगत्यस्मिन्निति पाठो भाष्यानुरोधी, स च वर्तते क्वचिदिति ग. पुस्तकटिप्पणीतो ज्ञायते ।
- पदत्रयमेतन्निधित्वस्वरकम् ।
१ ख. ॰मादि॰ । २ ख. ॰वाक्यप॰ । ३ ख. ॰पमस्तीति शे॰ । ४ ख. झ. ॰नमु॰ ।
५ ग. लोके शतद॰ । ६ ग. ॰त्यावन्तेन ना॰ । ७ ग. ॰ति । जालमालाकुलं भाति विश्व॰ ।