तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 724, कुल 914 में से
संदर्भ में पढ़ें[प्रपा० १० अनु० १०] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७१९
जगन्निवासहेतुत्वात् । वसुर्वायुः, तद्रूपः सन्नन्तरिक्षे सीदतीत्यन्तरिक्षसत् । होमनि-
ष्पादक आहवनीयाद्यग्निर्होता तद्रूपेण सोमयागाद्यङ्गभूतायां वेद्यां सीदतीति वेदिषत् ।
अमावास्यादितिथिविशेषमनपेक्ष्य भोजनयाच्ञार्थं तत्र तत्र गच्छन्पुरुषो वैदेशिकोऽतिथिः,
तद्रूपेण दुरोणेषु गृहेषु परकीयेषु सीदतीति दुरोणसत् । नृषु मनुष्येषु कर्माधिकारिजी-
वरूपेण सीदतीति नृषत् । वरे श्रेष्ठे क्षेत्रे काशीद्वारावत्यादौ पूजनीयदेवरूपेण सीदतीति
वरसत् । ऋते सत्ये वैदिके कर्मणि फलरूपेण सीदतीति ऋतसत् । व्योम्न्याकाशे
नक्षत्रादिरूपेण सीदतीति व्योमसत् । अद्भ्यो नदीसमुद्रादिगताभ्यः शङ्खमकरा-
दिरूपेण जायत इत्यब्जाः । गोभ्यः क्षीरादिरूपेण जायत इति गोजाः । ऋतं
सत्यवचनं तस्मात्कीर्तिरूपेण जायत इति ऋतजाः । अद्रिभ्यः पर्वतेभ्यो वृक्षादिरूपेण
जायत इत्याद्रिजाः । हंस इत्यारभ्याद्रिजा इत्यन्तेनोक्तं यज्जगदस्ति तज्जगद्गतं सत्यं
बृहद्ब्रह्म, अज्ञानिदृष्ट्या जगद्रूपेण भासमानं सर्वं ज्ञानिदृष्ट्या ब्रह्मैवेत्यर्थः ।
सप्तमीमृचमाह—
*यस्मा॒ज्जाता न परा॒ नैव किंच॒नाऽऽस॒ य आ॑वि॒वेश॒ भुव॑नानि॒ विश्वा॑ ।
प्र॒जाप॑तिः प्र॒जया॑ संविदा॒नस्त्रीणि॒ ज्योतीं॑षि सचते॒ स षो॒डशी, इति ॥
हंसादेः सर्वस्य जगतो ब्रह्मरूपत्वं यदुक्तं तदत्र प्रतिपाद्यते । ब्रह्मव्यतिरिक्तं वस्तु
किंचिदस्तीति वदन्वादी प्रष्टव्यः । किमचेतनं जगद्ब्रह्मव्यतिरिक्तमाहोस्विच्चेतनो जीवः ।
अचेतनत्वपक्षेऽपि किं सृष्टेरूर्ध्वभावि वस्तु ब्रह्मव्यतिरिक्तमुत पूर्वभावि । न तावदू-
र्ध्वभाविनो व्यतिरिक्तत्वमित्युच्यते । जाता सृष्टेरूर्ध्वमुत्पन्ना प्रजा यस्मात्परमेश्व-
रात्परा व्यतिरिक्ता न भवति । नापि पूर्वभाविनो व्यतिरिक्तत्वमित्युच्यते सृष्टेः पूर्वं
किंचन किमपि ब्रह्मव्यतिरिक्तं वस्तु नैवाऽऽस । “एकमेवाद्वितीयम्” इति श्रुत्य-
न्तरात् । नापि चेतनस्य जीवस्य ब्रह्मव्यतिरिक्तत्वमित्युच्यते । यः परमेश्वरो
विश्वा भुवनानि सर्वलोकवर्तीनि शरीराण्याविवेश जीवरूपेण प्राविशत् । “अनेन
जीवेनाऽऽत्मनाऽनुप्रविश्य” इति श्रुत्यन्तरात् । स प्रजापतिः प्रजापालकः परमे-
श्वरः प्रजया स्वस्मादुत्पन्नया देवातिर्यगादिरूपया संविदानः संसर्गं तादात्म्यं लभ-
मानो वर्तते । स परमेश्वरस्त्रीणि ज्योतींष्यग्न्यादित्यचन्द्ररूपाणि सचते सम-
वैति तादात्म्यसंबन्धं प्राप्नोति । कीदृशः परमेश्वरः । षोडशी प्रश्नोपनिषत्प्रोक्तषो-
डशकलॉपेतः । तत्र हि प्राणश्रद्धादिकं कृत्स्नमपि जगत्षोडशावयवरूपं परमात्मा
- एतदर्धमनिश्चितस्वरकम् ।
१ ख. ग. ॰द्वारव॰ । २ ख. ॰संगता॰ ।