तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 730, कुल 914 में से
संदर्भ में पढ़ें[प्रपा० १० अनु० १०] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७३५
परे॑ण॒ नाकं॒ निहि॑तं॒ गुहा॑यां वि॒भ्राज॑ते॒ यद्यत॑यो वि॒शन्ति॑, इति ॥
यथोक्तब्रह्मतत्त्वानुस्मरणस्यान्तरङ्गं सर्वत्यागरूपं साधनमत्रोच्यते । अग्निहोत्रादिकं
सहस्रसंवत्सरसत्रान्तं यत्कर्म तेन कर्मणा तदमृतत्वं न लभ्यते । “प्रजया पितृभ्यः”
इति श्रुतेः पितृविषयादृणाद्विमोचनहेतुर्या पुत्रादिरूपा प्रजा तयाऽप्यमृतत्वं न लभ्यते ।
“दाने सर्वं प्रतिष्ठितं तस्माद्दानं परमं वदन्ति” इति श्रुतेर्धनदानस्य बहुविधफलसाध-
नत्वावगमात्तस्य दानस्य निष्पादकं यद्धनमस्ति तेन धनेनाप्यमृतत्वं न लभ्यते । किं
तर्हि कर्मप्रजादीनां सर्वेषां लौकिकवैदिकव्यापाराणां त्यागेनैके केचिदेवान्तर्मुखा अमृ-
तत्त्वमानशुः प्राप्नु