सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 723, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 723

७१८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० १० अनु० १०]
तन्नल्यात्मकः सोमो भूत्वा रेभःमन्त्रशब्दयुक्तः सन्पवित्रं शुद्धिकारणं गङ्गाजलकुशद-
र्भादिद्रव्यजातं सर्वमत्येति ।
पञ्चमीमृचमाह—
अ॒जामेकां लोहि॑तशुक्लकृष्णां ब॒ह्वीं प्र॒जां ज॒नय॑न्तीꣳ सरू॑पाम् ।
अ॒जो ह्येको॑ जु॒षमा॑णोऽनु॒शेते॒ जहा॑त्येनां भु॒क्तभो॑गाम॒जोऽन्यः॑, इति ॥
व्यवहारदशायां परमेश्वरस्य चतुर्मुखब्रह्मादिशरीरेषु विशेषेणावस्थानमभिधाय यथो-
क्तजगत्सृष्टेर्मूलकारणभूतां मायाशक्तिमुपजीव्य बुद्धमुक्तपुरुषव्यवस्था प्रदर्श्यते । न
जायत इत्यजा मूलप्रकृतिरूपा माया । न ह्यनादेस्तस्या जन्म संभवति । सा च मायैका,
इतरस्य सर्वस्य जगतस्तत्कार्यत्वात् । यदाऽसौ तेजोबन्नानि त्रीणि॑ भूतान्युत्पाद्य तद्रू-
पाऽवतिष्ठते तदानीं लोहितशुक्लकृष्णवर्णरूपेता भवति । तथा च च्छन्दोगा आमनन्ति-
“यदग्ने रोहितꣳ रूपं तेजस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य” इति । अन्नश-
ब्देनात्र पृथिव्युपलक्ष्यते । रजःसत्त्वतमोगुणा वा लोहितादिशब्दैरुपलक्ष्यन्ते । गुणत्रया-
त्मिका मायेत्युक्तं भवति । सा च देवतिर्यङ्मनुष्यादिरूपां गुणत्रयात्मकत्वेन सरूपां
बहुविधां प्रजां जनयति । न जायत इत्यजो जीवः, तस्यापि मायावदनादित्वादुत्पत्ति-
र्नास्ति। तादृशो जीवो द्विविधः—आसक्तो विरक्तश्चेति। तयोर्मध्य एक आसक्तो योऽजो
जीवः पूर्वोक्तामजां मायां जुषमाणः प्रीतिपूर्वकं सेवमानोऽनुशेते तदनुसार्येव वर्तते ।
विषयानेव भुञ्जानो विवेकरहितो जन्ममरणप्रवाहरूपेण संचरतीत्यर्थः । अन्योऽजो
विरक्तो जीवो भुक्तभोगामेनां मायां जहाति परित्यजति । विरक्तेः प्रागेव भोगाननु-
भूत्वा(गा भुक्ता) न तूपरिष्टाद्भोगैर्बाध्यन्ते तादृशैर्भोगैर्युक्ता माया भुक्तभोगा तां मायां
तत्त्वविवेकेन बाधत इत्यर्थः ।
षष्ठीमृचमाह—
हꣳसः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् ।
नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत्, इति ॥
यः पुमान्विवेकेन मायां परित्यजति तस्य सर्वमपि जगद्ब्रह्मरूपेणावभासत इत्य-
यमन्त्रो(त्रा)र्थः प्रदर्श्यते । तदर्थमादौ जगदनूद्यते हन्ति सर्वदा गच्छतीति हंस
आदित्यः । स च शुचौ शुद्धे मण्डले ज्योतिर्मये सीदतीति शुचिषत्, सूत्रात्मरूपेण
१ ख झ. णि रूपाण्युल्या° । २ झ. ॰न्ते । सा गु° । ३ ग. ॰यात्मिकं । ४ ख. ग.
जनयन्ती । ५ ग. ॰रणं प्र° । ६ झ. संसर° । ७ झ. ॰क्ष्यन्ते ता° । ८ झ. बाधितामित्य° ।
--------------------------------------------- । १० ख. प्रविश्यते ।