सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

रिति चेदद्वैतलोपादिति ब्रूमः । तथा च श्रुतिः- " यद्वै तन्न पश्यति पश्यन्वै तन
पश्यति न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात्न तु तद्वितीयमस्ति ततोऽन्य-
द्विभक्तं यत्पश्येत् " इति । अस्यायमर्थः-तत्र सुषुप्तौ जीवः किमपि न पश्यतीति
यल्लौकिकैरुच्यते तदसत् । पश्यन्नेव जीवस्तदानीं न पश्यतीति भ्रान्त्या केवलं
व्यपदिश्यते । कथं तद्दर्शनमित्यत्र हेतुरुच्यते-द्रष्टुरात्मनः स्वरूपभूताया दृष्टेर्लोपो
नहि विद्यते विनाशरहितस्वभावत्वात् । अन्यथा लोपवादिनोऽपि निःसाक्षिकस्य
लोपस्य वक्तुमशक्यत्वात् । कथं तर्हि लौकिकानां न पश्यतीतिभ्रम इत्यत्र हेतुरु-
च्यते-यद्ब्रह्मचैतन्यादन्यैत्क्रियाकारकफलरूपेण विभक्तं जगदाख्यं द्वितीयं वस्तु
तन्नास्ति तस्य स्वकारणे लीनत्वात् । अतो जागरण इव द्रष्टृदृश्यदर्शनव्यवहाराणा-
मभावान्न पश्यतीति लौकिकानां भ्रम इति । तस्माच्चिद्रूपो जीवः " ।
*त्रयोदशाधिकरणमारचयति-
" जीवोऽणुः सर्वगो वा स्यादेषोऽणुरितिवाक्यतः ।
उत्क्रान्तिगत्यागमनश्रवणाच्चाणुरेव सः ॥
साभासबुद्धेरणुत्वेन तदुपाधित्वतोऽणुता ।
जीवस्य सर्वगत्वं तु स्वतो ब्रह्मत्वतः श्रुतम् ॥
" एषोऽणुरात्मा चेतसा वेदितव्यः " इत्यणुत्वं श्रुतम् । " अस्माच्छरीरादुत्क्रा-
मति " इत्युत्क्रान्तिः । " चन्द्रमसमेव ते सर्वे गच्छन्ति " इति गतिः । " तस्माल्लो-
कात्पुनरे(रै)ति " इत्यागमनम् । न ह्युत्क्रान्त्यादयः सर्वगतस्योपपद्यन्ते । मध्यमपरि-
माणस्य तदुपपत्तावप्यणुत्वश्रुतिर्विरुध्यते । अनित्यत्वं च दुर्वारम् । तस्मादणुर्जीव
इति प्राप्ते ब्रूमः-चैतन्यप्रतिबिम्बसहिता बुद्धिरसर्वगता तदुपाधिकत्वाज्जीवस्याप्युत्क्रो-
त्क्रान्त्यादय उपपन्नाः । स्वतस्तु जीवस्य ब्रह्मरूपत्वात्सर्वगतत्वम् । " स वा एष
महानज आत्मा "" सर्वव्यापी सर्वभूतान्तरात्मा " इत्यादौ सर्वगतत्वं श्रुतम् । तस्मा-
त्सर्वगतो जीवः " ।
=चतुर्दशाधिकरणमारचयति-
" जीवोऽकर्ताऽथवा कर्ता धियः कर्तृत्वसंभवात् ।
जीवकर्तृतया किं स्यादित्याहुः सांख्यमानिनः ॥

  • उत्क्रान्तिगत्यागतीनाम्-ब्र ०सू ०अ० २ पा० ३ अ० १३ सू० १९ । = कर्ता शास्त्रार्थ-
    वत्त्वात्-ब्र० सू० अ० २ पा० ३ अ० १४ सू० ३३ ।
    १ ग 'इत्यचेत' । २ व. 'थं दर्श' । ३ घ. ॰तथा' । ४ घ. 'ते ब्रह्म' । ५ घ.
    'दन्यात्क्रि' । ६ व. 'स्यं यद्विी' । ७ क. ख. ङ. 'तो मर' ।

[प्रपा०८ अनु०२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६३३

करणत्वान्न धीः कर्त्री यागश्रवणलौकिकाः ।
व्यापारा न विना कर्त्रा कस्माज्जीवस्य कर्तृता ॥
बुद्धेः परिणामित्वेन क्रियावेशात्मकं कर्तृत्वं संभवति न त्वसङ्गस्याऽऽत्मन इति
यत्सांख्यैरुक्तं तदसङ्गतम् । करणत्वेन क्लृप्तशक्तिकाया बुद्धेः कर्तृता कल्पयितुं न
शक्या । कुठारादावदर्शनात् । बुद्धेः कर्तृत्वेन करणान्तरस्य कल्पनीयत्वाच्च । न च
मा भूत्कर्तृतेति वाच्यम् । पूर्वकाण्डोक्तयागादिव्यापाराणामुत्तरकाण्डोक्तश्रवणादि-
व्यापाराणां लौकिककृष्यादिव्यापाराणां च कर्तृसापेक्षत्वात् । तस्माज्जीवः कर्ता ” ।
*पञ्चदशाधिकरणमारचयति—
“कर्तृत्वं वास्तवं किंवा कल्पितं वास्तवं भवेत् ।
यजेतेत्यादिशास्त्रेण सिद्धस्याबाधितत्वतः ॥
असङ्गो हीति तद्बाधात्स्फटिके रक्ततैव तत् ।
अध्यस्तं धीचक्षुरादिकरणोपाधिसंनिधेः ॥
पूर्वाधिकरणे प्रतिपादितस्य कर्तृत्वस्य बाधाभावाद्वास्तवं तदिति प्राप्ते ब्रूमः—
“ असङ्गो ह्ययं पुरुषः ” इति श्रुत्या कर्तृत्वसङ्गो बाध्यते । यथा जपाकुसुमसांनिधि-
वशात्स्फटिके रक्तत्वमध्यस्तं तथाऽन्तःकरणसंनिधिवशात्कर्तृत्वमात्मन्यध्यस्यते ” ।
✕षोडशाधिकरणमारचयति—
“प्रवर्तकोऽस्य रागादिरीशो वा रागतः कृषौ ।
दृष्टा प्रवृत्तिर्वैषम्यमीशस्य प्रेरणे भवेत् ॥
सस्येषु वृष्टिवज्जीवेष्वीशस्तथाविषमत्वतः ।
रागोऽन्तर्याम्यधीनोऽत ईश्वरोऽस्य प्रवर्तकः ॥
लोके कृषीवलादीनां रागद्वेषावेव प्रवर्तकौ दृष्टौ । तदनुसाराद्धर्माधर्मकर्तुर्जीवस्यापि
तावेव प्रवर्तकावभ्युपेयौ । ईश्वरस्य प्रवर्तकत्वे कांश्चिज्जीवान्धर्मे प्रवर्तयति कांश्चिदधर्म
इति वैषम्यं दुर्वारम् । तस्मान्नेश्वरः प्रवर्तक इति प्राप्ते ब्रूमः—न तावदीश्वरे वैषम्य-
दोषप्रसङ्गः । वृष्टिवत्साधारणनिमित्तत्वात् । यथा वृष्टेः सस्याभिवृद्धिहेतुत्वेऽपि व्रीहि-
यवादिवैषम्ये बीजानामेव निमित्तत्वम् । तथेश्वरस्य यथायथं जीवाः प्रवर्तन्तामित्यनु-

  • यथा च तक्षोभयथा—ब्र० सू० अ० २ पा० ३ अ० १५ सू० ४० । ✕ परात्तु तच्छ्रुतेः—
    ० सू० अ० २ पा० ३ अ० १६ सू० ४१ ।
    १ घ. कर्तृशक्तिर्न कल्पयितुं श । २ घ. ॰तेतिवत् । ३ घ. ॰णप॰ । ४ घ. ॰स्तष-
    ङ्गोति । ५ व. ॰त्वसंयोगो वा॰ । ६ व. ॰स्य जी॰ ।
    ८०

ज्ञया साधारणप्रवर्तकत्वेऽपि न वैषम्यम् । पूर्वकृतकर्मणां वासनानां च वैषम्यहेतुत्वात् ।
कर्मणां फलहेतुत्वमेव न कर्मान्तरहेतुत्वमिति चेत् । सत्यम् । सुखदुःखरूपस्य फलस्य
प्रदानाय जीवं व्यापारयत्कर्मार्थात्कर्मान्तरमपि निष्पादयतीति दुर्वारं हेतुत्वम् । वास-
नानां तु साक्षादेव कर्महेतुत्वम् । तथा चेश्वरस्य कुतो वैषम्यप्रसङ्गः । यत्तु रागस्य प्रव-
र्तकत्वदर्शनमुदाहृतं तत्तथैवास्तु नैतावतेश्वरस्य प्रवर्तकत्वहानिः । सर्वान्तर्यामिणेश्वरेण
रागस्यापि नियम्यमानत्वात् । तस्मादीश्वरो जीवस्य प्रवर्तकः ” ।

  • सप्तदशाधिकरणमारचयति—
    “किं जीवेश्वरसांकर्यं व्यवस्था वा श्रुतिद्वयात् ।
    अभेदभेदविषयात्सांकर्यं न निवार्यते ॥
    अंशोऽवच्छिन्न आभास इत्यौपाधिककल्पनैः ।
    जीवेशयोर्व्यवस्था स्याज्जीवानां च परस्परम् ॥

तत्त्वमस्यादिश्रुतिर्जीवेशयोरभेदं प्रतिपादयति । आत्मा द्रष्टव्य इत्यादिना द्रष्टृद्रष्टव्य-
रूपेण भेदः प्रतीयते । तथा च सति भेदश्रुतिबलात्तावज्जीवो नास्तीत्यपलपितुमशक्यम् ।
अभेदश्रुत्या चेश्वरात्पृथक्त्वेन व्यवस्थापयितुं न शक्यते । तस्माद्विद्यमानस्य जीवस्ये-
श्वरेण सांकर्यं दुर्वारम् । परस्परं च जीवानामीश्वराभेदद्वारा सांकर्यमानुषङ्गिकम् । तस्मा-
द्ब्रह्मवादिनो न जीवेश्वरव्यवस्थेति प्राप्ते ब्रूमः-- यद्यपि गोमहिषवज्जीवेश्वरयोरत्यन्तं भेदो
वास्तवो नास्ति तथाऽपि व्यवहारदशायामुपाधिकल्पितं भेदमाश्रित्य शास्त्राणि त्रेधा
जीवं निरूपयन्ति । “ममैवांशो जीवलोके जीवभूतः सनातनः” इत्यंशत्वमवगम्यते ।
“स समानः सन्नुभौ लोकावनुसंचरति” इति श्रुतौ विज्ञानमयस्य जीवस्य विज्ञानशब्द-
वाच्यया बुद्ध्या समानपरिमाणनिर्देशाद्घटाकाशवदवच्छिन्नत्वं प्रतीयते ।
“ एक एव तु भूतात्मा भूते भूते व्यवस्थितः ।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ” ॥
इत्याभासत्वमवगम्यते । तस्मात्सुलभैव ब्रह्मवादिनो जीवेश्वरव्यवस्था । जीवानां
च परस्परमनेकजलपात्रस्थबहुसूर्यप्रतिबिम्बवद्व्यवहारव्यवस्था सुतरामुपपद्यते । तस्मान्न
कोऽपि दोष इति सिद्धम् ” ।

  • अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके—ब्र० सू० अ० २ पा०३
    अ० १७ सू० ४३ ।
    १ घ. 'रं तद्धेतु' । २ ख. 'द्य हे' । ३ क. ग. ङ. 'त्तथाऽस्तु' ४ घ. 'स्तु न तां' ।
    ५ क. ग. ङ. 'त्यन्तभे' । ६ घ. इत्येवमंशं ।

[प्रपा० ८ अनु० २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६३५

जीवस्य लोकान्तरगमनरूपः संसारप्रकारस्तृतीयाध्यायस्य प्रथमपादे षड्भिरधि-
करणैर्विचारितः । तत्र *प्रथमाधिकरणमारचयति—
“ अवेष्टितो वेष्टितो वा भूतसूक्ष्मैः पुमान्व्रजेत् ।
भूतानां सुलभत्वेन यात्यवेष्टित एव सः ॥
बीजानां दुर्लभत्वेन निराधारेन्द्रियागतेः ॥
पञ्चमाहुत्युक्तेश्च जीवस्तैर्याति वेष्टितः ॥
पूर्वपादप्रतिपादितः प्राणोपाधिको जीवः शरीरान्तरप्राप्तिकालेऽयामितो निर्गच्छन्भा-
विशरीरबीजैः सूक्ष्मभूतैर्वेष्टितो गच्छति । पञ्चभूतानां सर्वत्र सुलभत्वेनेतो नयनस्य
निरर्थकत्वादिति प्राप्ते ब्रूमः—भूतमात्रस्य सुलभत्वेऽपि देहबीजानि न सर्वत्र सुलभानि ।
तस्मादितो नेतव्यानि । किंच जीवोपाधिभूतेन्द्रियाणां भूताधारत्वमन्तरेण परलोकगमनं
न संभवति । जीवनदशायामदर्शनात् । श्रुतिश्चैवमाह— “ पञ्चम्यामाहुतावापः पुरुषव-
चसो भवन्ति ” इति । अस्यायम

६३६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [प्रपा०८अनु०१]
कर्मसमूहः संपातमतिक्रम्य यावत्संपातं निःशेषं कर्मफलं भोक्तुं तत्रोषित्वेत्यर्थः ।
तस्मात्कर्मशेषरहितोऽवरोहतीति प्राप्ते ब्रूमः—स्वर्गार्थमनुष्ठितस्य कर्मणः साकल्येनोप-
भोगेऽप्यनुपभुक्तानि संचितानि पुण्यपापानि बहून्यस्य विद्यन्ते । अन्यथा सद्यःसमुत्प-
न्नस्य बालस्येह जन्मन्सननुष्ठितयोर्धर्माधर्मयोरभावात्सुखदुःखोपभोगो न स्यात् । यदत्र
कैश्चिदुच्यते—एकस्मिन्जन्मन्सनुष्ठितः कर्मसमूह उत्तरस्मिन्नेकस्मिन्नेव जन्मन्युपभोगेन
क्षीयत इति । तदसत् । इन्द्रादिपदप्रापकाणामश्वमेधादीनां विडूवराहादिदेहप्रापकाणां
पापानां च युगपदुपभोगासंभवेनैकभाविकः कर्मानुशय इतिमतस्य विरुद्धत्वात् । ततश्चै-
कस्मिन्जन्मन्सनुष्ठितानां मध्ये ज्योतिष्टोमादिकर्मणि भुक्तेऽपि कुतो न कर्मान्तराण्यव-
शिष्येरन् । यावत्संपातशब्दश्च स्वर्गप्रदकर्मविषयो न त्वितरकर्मविषयः । श्रुतिश्च
स्वर्गादवरुह्य पञ्चम्यामाहुतौ शरीरं गृह्णतां पुरुषाणां च तद्धेत्वोः पुण्यपापयोः सद्भावं
दर्शयति—“य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन्ब्राह्म-
णयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वा । अथ य इह कपूयचरणा अभ्याशो ह
यत्ते कपूयां योनिमापद्येरञ्श्वयोनिं वा सूकरयोनिं वा चाण्डालयोनिं वा ” इति । रम-
णीयचरणाः सुकृतकर्माणः कपूयचरणाः पापकर्माणः । अभ्याशो ह यदित्यव्ययसमुदा-
यस्य क्षिप्रत्वमर्थः । तदेवं सानुशया अवरोहन्तीति स्थितम्” ।
✽तृतीयाधिकरणमारचयति—
“चन्द्रं याति न वा पापी ते सर्व इति वाक्यतः ।
पञ्चमाहुतिलाभार्थे भोगाभावेऽपि यात्यसौ ॥
भोगार्थमेव गमनमाहुतिर्व्यभिचारिणी ।
सर्वश्रुतिः सुकृतिनां याम्ये पापिगतिः श्रुता ॥
“ये १ वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति” इति श्रवणाच्चान्द्र-
मसारूख्ये स्वर्गे पापिनोऽपि गतिरस्ति। यद्यपि पापिनस्तत्र भोगो न संभवति तथाऽपि
पुनरागत्य शरीरग्रहणे पञ्चमाहुतिलाभाय स्वर्गगतिरभ्युपेयेति प्राप्ते ब्रूमः—भोगार्थमेव
स्वर्गगमनं न पञ्चमाहुतिलाभार्थं पञ्चमाहुतेर्व्यभिचारित्वाद्द्रोणादीनां योषिदाहुतेरभावा-
त्सीतादीनां पुरुषाहुतेरप्यभावात् । “ते सर्वे” इति श्रुतिस्तु सुकृतिविषया । पापिनां तु
यमलोके गतिः श्रुता—“वैवस्वतꣳ संगमनं जनानां यमꣳ राजानꣳ हविषा दुवस्यत”
इति । पा²पिजनैर्गन्तव्यं यमं प्रीणयतेत्यर्थः । तस्मान्न पापिनां स्वर्गे गतिः ”।

✽ अनिष्टादिकारिणामपि च श्रुतम्—ब्र ० सू० अ० ३ पा० १ अ० ३ सू० १२ ।
१ व. ये के । २ क. ग. °दापज° ।

*चतुर्थाधिकरणमारचयति—
“वियदादिस्वरूपत्वं तत्साम्यं वाऽवरोहिणः ।
वायुभूत्वेत्यादिवाक्यात्तत्तद्भावं प्रपद्यते ॥
खवत्सौक्ष्म्ये वायुवशो युक्तो धूमादिभिर्भवेत् ।
अन्यस्यान्यस्वरूपत्वं न मुख्यमुपपद्यते ॥
स्वर्गादवरोहप्रकार एवं श्रूयते—“अथैतमेवाध्वानं पुनर्निवर्तन्ते । यथेतमाकाशमा-
काशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽभ्रं भवति । अभ्रं भूत्वा मेघो भवति मेघो
भूत्वा प्रवर्षति” इति । यथेतं यथा गतं तथेत्यर्थः । तत्र स्वर्गादवरोहतो जीवस्याऽऽ-
काशादिस्वरूपत्वं भवति । वायुर्भूत्वेत्यादिना तत्तद्भावप्रतिपत्तेः श्रुतत्वादिति प्राप्ते
ब्रूमः—अन्यस्यान्यरूपत्वासंभवादाकाशप्राप्तिर्नामाऽऽकाशवत्सौक्ष्म्यं विवक्षितम् । वायु-
भावो वायुवशता । धूमादिभावो धूमादिभिः संपर्क इति निर्णयः” ।
+पञ्चमाधिकरणमारचयति—
“व्रीह्यादेः प्राग्विलम्बेन त्वरया वाऽवरोहति ।
तत्रानियम एव स्यान्नियामकविवर्जनात् ॥
दुःखं व्रीह्यादिनिर्गममिति तत्र विशेषितम् ।
विलम्बस्तेन पूर्वत्र त्वराऽर्थादवसीयते ॥
प्रवर्षणादनन्तरं व्रीह्यादिभाव आम्नायते—“त इह व्रीहियवा ओषधिवनस्पतय-
स्तिलमाषा जायन्ते” इति । प्रागेतस्माद्व्रीह्यादिभावादाकाशादौ विलम्बत्वरयोर्निया-
मकत्वाभावादनियम इति प्राप्ते ब्रूमः—व्रीह्यादिभावमभिधायानन्तरम्—“अतो वै
खलु दुर्निष्प्रपतरम्” इति व्रीह्यादिभावान्निर्गमनं दुःखमिति ब्रुवती श्रुतिर्व्रीह्यादौ विलम्बं
विशेषयति । ततोऽर्थात्पूर्वत्र त्वरेत्यवसीयते” ।
*षष्ठाधिकरणमारचयति--
“व्रीह्यादौ जन्म तेषां स्यात्संश्लेषो वा जनिर्भवेत् ।
जायन्त इति मुख्यत्वात्पशुहिंसादिपापतः ॥
वैधान्न पापसंश्लेषः कर्मव्यापृत्यनुक्तितः ।
श्वविप्रादौ मुख्यजनौ चरणव्यापृतिः श्रुता ॥

  • साभाव्यापत्तिरुपपत्तेः—ब्र० सू० अ० ३ पा० १ अ० ४ सू० २२ । + नातिचिरेण विशे-
    षात्—ब्र० सू० अ० ३ पा० १ अ० ५ सू० ६ । *अन्याधिष्ठिते पूर्ववदभिलापात्—ब्र० सू० अ० ३
    पा० १ अ० ६ सू० २४ ।
    १ ग. ˚ह ए' । २ ग. अत्र । ३ ग. ˚न्यस्वरू' । ४ घ. ˚यतिरिति । ५ घ. दुःखकमि˚ ।
    ६ घ. विनिष्क्रमनं । ७ घ. ˚त्पूर्व त्व˚ ।

आकाशादाविव तिलव्रीह्यादौ न संश्लेषमात्रं किंतु व्रीह्यादिरूपेण मुख्यं जन्म विव-
क्षितम् । जायन्त इति श्रवणात् । न च स्वर्गे सुकृतफलमनुभूयावरोहतः पापफल-
पैस्य स्थावरजन्मनोऽसंभवः । तद्धेतोः पशुहिंसादेर्विद्यमानत्वात् । तस्मान्मुख्यं जन्मेति
प्राप्ते ब्रूमः — वैधत्वान्न पशुहिंसादिपापमतो जायन्त इति श्रुत्या संश्लेषमात्रं विवक्षि-
तम् । न तु मुख्यं जन्म कर्मव्यापारानभिधानात् । यत्र तु मुख्यं जन्म विवक्षितं तत्र
कर्मव्यापारमभिधत्ते— “रमणीयचरणाः कपूयचरणाः ” इति । तस्मात्स्वर्गादवरोहतां
व्रीह्यादौ संश्लेषमात्रमिति स्थितम् ” ।
तत्रैव द्वितीयपादे चतुर्भिराधिकरौः स्वप्नाद्यवस्था विचारिताः । तत्र * प्रथमा-
धिकरणमारचयति —
“ सत्या मिथ्याऽथवा स्वप्नसृष्टिः सत्या श्रुतीरणात् ।
जाग्रद्देशाविशिष्टत्वादीश्वरेणैव निर्मिता ।
देशकालाद्यनौचित्याद्बाधितत्वाच्च सा मृषा ।
अभावोक्तैर्द्वैतमात्रसाम्याज्जीवानुवादतः ॥
“ अथ रथान्रथयोगान्पथः सृजते ” इति श्रुत्या स्वप्ने रथादीनां सृष्टिरीरिता ।
अतो वियदादिसृष्टिवद्व्यवहारदशायां सत्या भवितुमर्हति । न च जाग्रद्देशस्य स्वप्न-
देशस्य च कंचिद्विशेषं पश्यामः । तत्काले भोजनादीनां तृप्त्याद्यर्थक्रियाकारित्वात् ।
अतो विमता सृष्टिः सत्येश्वरकर्तृकत्वाद्वियदादिसृष्टिवदिति प्राप्ते ब्रूमः — स्वप्नसृष्टिर्मृषा ।
कुतः । उचितदेशकालाद्यसंभवात् । न हि केशसहस्रांशपरिमित नाडीमध्ये गिरिनदीस-
मुद्रादीनामुचितो देशोऽस्ति । न हि निशीथे शयानस्य सूर्यग्रहणोचितः कालोऽस्ति ।
नाप्यनुपनीतस्य बालस्य पुत्रोत्सवादिहर्षनिमित्तान्युचितानि । किंच स्वप्नोपलब्धानां
पदार्थानां स्वप्न एव बाधो दृश्यते । कदाचित्तरुत्वेनावसीयमानः पदार्थस्तदैव गिरित्वेना-
वँसितो भवति । यदुक्तं स्वप्नसृष्टिं श्रुतिर्ब्रूत इति तत्रापि सा श्रुतिरभावपूर्विका मेव
सृष्टिमाह— “ न तत्र रथा रथयोगा न पन्थानो भवन्ति । अथ रथान्रथयोगान्पथः
सृजते ” इति वस्तुतोऽसन्तो रथाद्याः शुक्तिकारजतवद्वैभासन्त इति श्रुतेरभिप्रायः
यदपि जाग्रत्साम्यमुक्तं तदप्यप्रयोजकम् । अनुचितदेशकालादेर्भूयसो वैलक्षण्यस्योक्त-
त्वात् । यदपीश्वरनिर्मितत्वमुक्तं तदप्यसत् । “ एष सुप्तेषु जागर्ति कामं कामं पुरुषो
निर्मिमाणः ” इति जीवस्यैव स्वप्नभोगनिर्मातृत्वेन श्रुत्याऽप्युच्यमानत्वात् । तस्मात्स्व-
प्तसृष्टिर्मृषा ” ।


  • संध्ये सृष्टिराह हि—ब्र० सू० अ० ३ पा० २ अ० १ सू० १ ।
    १ घ. 'व व्री' । २ ख. मुख्यन । ३ ग. पन्था' । ४ घ. 'वसीयने । य' । ५ ख.
    'बदेव भा' । ६ घ. 'व स्वाप्न' ।

[प्रपा०८/अनु०२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । · ६३९

  • द्वितीयाधिकरणमारचयति—
    “ नाडीपुरीतद्ब्रह्माणि विकल्पन्ते सुषुप्तये ।
    समुच्चितानि वैकार्थ्याद्विकल्पन्ते यवादिवत् ।
    समुच्चितानि नाडीभिरुपसृप्य पुरीतति ।
    हृत्स्थब्रह्मणि यात्यैक्यं विकल्पे त्वष्टदोषता ।
    “ आसु तदा नाडीषु सृप्तो भवति ” इति श्रुतौ सुषुप्तिकाले नाडीप्रवेशो गम्यते ।
    “ ताभिः प्रत्यवसृप्य पुरीतति शेते ” इति श्रुतौ पुरीतदाश्रितत्वं प्रतीयते । “ य
    एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते ” इति श्रुत्यन्तरेौदाकाश,व्दवाच्यब्रह्माश्रितत्वं
    प्रतीयते । तान्येतानि नाड्यादिस्थानानि विकल्पितानि भवितुमर्हन्ति । एकप्रयोजन-
    त्वात् । यथा व्रीहिभिर्यजेत यवैर्वा यजेतेत्यत्र पुरोडाशनिष्

"?
Wait, look at the letters in line 31:
"°द्भवस्तं ° ।" -> there is 'स' with 'त' conjunct: 'स्तं' with anusvara: 'स्तं'!
Yes, "°द्भवस्तं ° ।"

Let's check line 1:
"तपरित्यागश्चेतिदोषचतुष्टयं पुरोक्तद्वैधवाक्यकोटौ । तथा भावीवाक्यकोट्यामपि दोषच-"
Wait, "भावीवाक्यकोट्यामपि"? Or "भाविवाक्यकोट्यामपि"?
Look at the text: 'भ', 'ा', 'व', 'ी'? There is an ee-kar: "भावीवाक्यकोट्यामपि" (or "भावि-")? It has an ee-kar: "भावीवाक्यकोट्यामपि".

Let's check line 2:
"तुष्टये योजिते सत्यष्टौ दोषाः संपद्यन्ते । तस्मात्समुच्चय एव ग्राह्यो न तु विकल्पः ॥"

Line 3:
"*तृतीयाधिकरणमारचयति—"
Wait, does it have an asterisk? Yes, "*".

Line 4:
" “ यः कोऽप्यनियमेनात्र बुध्यते सुप्त एव वा ।"

Line 5:
"उद्बिन्दोरिवाशक्तेर्नियन्तुं कोऽपि बुध्यते ॥"
Wait, is it "उद्बिन्दोरि

[प्रपा०८/अनु०२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६४१

दादिवद्दैनंदिनत्वाभावाच्च मूर्च्छया बालकादिषु प्रसिद्धिरस्ति तथाऽपि कादाचित्की
मूर्च्छावस्थां विज्ञाय वृद्धाश्चिकित्सन्ते । तस्मादन्येयमवस्था । तदेवमधिकरणचतुष्टये-
न त्वंपदार्थः शोधितः । तत्र स्वप्नसृष्टेर्मिथ्यात्वेन सुखदुःखकर्तृत्वोद्यवभासेऽपि जीवोऽसङ्ग
एवेति शोधितः । सुषुप्तौ ब्रह्मैक्येन तदेवासङ्गत्वमनुभावितम् । तस्यैव पुनः प्रतिबोधेनानि-
त्यत्वशङ्का निराकृता । मूर्च्छाविचारेण श्वासादि सर्वव्यवहारलोपेऽपि मरणे जीवविनाशो
न शकनीय इति दर्शितम्” ।
तद॑नु॒प्रवि॑श्य॑ । सच॒ त्यच्चा॑भवत् । नि॒रुक्तं॒ चानि॑-
रुक्तं च । नि॒लय॑नं॒ चानि॑लयनं च । वि॒ज्ञानं॑
चावि॑ज्ञानं च । स॒त्यं चानृ॑तं च स॒त्यम॑भवत् ।
परमात्मनो देहे भोक्तृजीवरूपेण प्रवेशमुपजीव्य सद्भावं साधयित्वा भोग्यद्रव्याका-
रेणाप्येतत्साधयितुं तदाकारपरिणामं प्रदर्शयति—तदनुप्रविश्येत्यादिना । तत्सृष्टं
देहजातं भोक्तृरूपेणानुप्रविश्यानन्तरं सदादिभोग्यवस्त्वाकारेण ब्रह्म परिणतमभूत् ।
सच्छब्देन प्रत्यक्षगम्यं पृथिव्यप्तेजोरूपं भूतत्रयमुच्यते । त्यच्छब्देन परोक्षं वाय्वाकाश-
रूपं भूतद्वयम् । बृहदारण्यके मूर्तामूर्तब्राह्मणे—“तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्च”
इति वाय्वाकाशव्यतिरिक्तस्य पृथिव्यादिभूतत्रयस्य मूर्तत्वमभिधाय “एतत्सत्” इति सच्छ-
ब्दवाच्यत्वं तस्योक्तम् । अथामूर्ते—“वायुश्चान्तरिक्षं च” इत्यभिधाय “एतत्तत्” इति
त्यच्छब्दस्तत्र प्रयुक्तः । अतश्चाक्षुषत्वपरोक्षत्वाभ्यां विभक्तं यज्जगदस्ति तत्सर्वमत्र
शब्दद्वयेनोपलक्ष्यते । चकारद्वयेन तयोरुभयोरभावौ समुच्चीयेते । एतच्चतुष्टयरूपेण ब्रह्म
परिणतमभूत् । निःशेषेण वक्तुं शक्यं निरुक्तम् । घटोऽयं पुरोदेशवर्ती पृथुबुध्नो-
दराकारो मृन्मयः स्थूलो जलाधारक्षम इत्यादिना निःशेषेण वक्तुं शक्यते। तद्विपरीतम-
निरुक्तम् । इक्षुक्षीरादिमाधुर्यावान्तरभेदः केतकीचम्पकादिगन्धावान्तरभेद इत्यादिकं
सामान्याकारेणोच्यते । न तु निःशेषण वक्तुं शक्यते । चकारौ पूर्ववत् । निलयनं
नीडमाधारः पुष्पगुडादिः । तद्विपरीतमनिलयनम् । आधेयो गन्धरसादः । विज्ञानं
चेतनं गवाश्वादि । तद्विपरीतमविज्ञानमचेतनं काष्ठकुड्यपाषाणादि । सत्यं लोकव्यव-
हारे बाधरहितं शुक्तिरज्जुस्थाण्वादि । अनृतं तु व्यवहारदशायामारोपितं रजतसर्प-
चोरादि । एतैरूदाहरणैः शीतोष्णसुखदुःखमानापमानादिकः सर्वोऽपि जगद्विभाग उपल-
क्ष्यते । उपरितनसत्यशब्देन ब्रह्मोच्यते । सत्यं ज्ञानमित्यादिवाक्ये ब्रह्मणः सत्यश-

१ ख. च. °हसन्ति । त° । २ ख. °हृत्वाद्याभा° । ३ ख °त्यत्वाशं° । ४ ख °शो-
काऽऽश° । ५ ग. °गद्विदं त° । ६ ख. °चादिः । त° । ७ ख. °णादिः । स° । ८ स. °रादिः ।
९ । ९ व. जगद्व्यवहार । १० व. ड. ष्यते ।
८१

/ँ, and a figure '५' (or pluta/anunāsika mark) or is it 'रसग्ँ'?
Wait, in Krishna Yajurveda / Taittiriya:
"रसँ॑" or "रसो वै सः । रसꣳ ह्येवायं" / "रसँ ह्येवायं"?
Look at the glyph:
'र' 'स' then a symbol that looks like:
a superscript candrabindu, and a '५' or 'x' or 'ꣳ'?
Wait! Look at line 14:
In line 14: "तदात्मानं स्वयमकुरुत" - wait, look at "तदात्मानं":
In line 13: "तदा-"
In line 14: "त्मानं॒" - wait, between "त्मान" and "स्वयमकुरुत":
There is "त्मान" with an anusvara? No, there is a character: "त्मानꣳ" or "त्मानं" with a '५'?
Wait! Look at line 14: "त्मान" then a symbol: looks like a small '५' or 'x' or 'ꣳ'?
Wait, look at line 14:
"त्मान" followed by a symbol: it looks like ५ (the sign for avagraha/ardhakar/gum/anunasika in some south/grantha/maharashtra Vedic prints)!
Wait,

[प्रपा०८ अनु०२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६४३
तुमानन्दरूपतामाह—यद्वैतदित्यादिना । यदेतत्पूर्वोक्तं सुकृतशब्दवाच्यं ब्रह्मास्ति स
ब्रह्मपदार्थो रस एव । लोकेऽपि तृप्तिलक्षणस्याऽऽनन्दस्य हेतुर्मधुरादिपदार्थो रस इत्यु-
च्यते । ब्रह्मापि कृतकृत्यत्वादिलक्षणस्य तत्त्वविदामानन्दस्य हेतुत्वाद्रसो भवति । रस-
नी¹यवेदान्तवाक्यजनितमनोवृत्तिसंभवेनाऽऽस्वादनीयमिति ब्रह्मणो रसत्वम् । प्रीतिपुरःसरं
रसग्रहणमास्वादनम् । ब्रह्म च जिज्ञासुभिः प्रीतिपूर्वकमेव गृह्यते । प्रीतिश्चाऽऽनन्दमन्त-
रेण न संभवति । तस्माद्रसशब्देन ब्रह्मण आनन्दरूपत्वमुच्यते । नन्वानन्दरूपत्वाभा-
वेऽपि धर्मो जिज्ञासुभिः प्रीतिपूर्वकमेव गृह्यते । मैवम् । धर्मे मुख्यप्रीत्यभावात् । स्वर्ग-
लक्षणसुखसाधनत्वोपाधिनैव हि धर्मे प्रीतिः । ब्रह्म तु स्वस्मादुत्तमस्य कस्यचित्सुखस्य
साधनं न भवति । ततो मुख्यप्रीतिविषयत्वादानन्दरूपं ब्रह्म । तदेतदानन्दत्वं रसं
हीत्यादिनोपपाद्यते । अयं तत्त्ववित्पुरुषो रसं लब्ध्वा साक्षात्कृत्य धन्योऽस्मी²त्येवमा-
नन्दवान्भवति । तत्त्वविदो लौकिकः परितोषहेतुः स्रक्चन्दनवनितादिलाभो न भवति ।
किं त्वात्मलाभ एव । विरक्तस्य स्रगादौ लाभबुद्ध्यभावात् । “ आत्मलाभान्न परं
विद्यते ” इत्यादिशास्त्रात् । तस्माद्विद्वत्परितोषहेतुत्वादानन्दरूपत्वाद्वापि ब्रह्मणः सत्त्वमभ्यु-
पेयम् । हिशब्देन विद्वत्प्रसिद्धिरेव प्रदर्शिता ।
को ह्ये॒वान्या॒त्कः प्रा॒ण्यात्॑ । यदे॒ष आ॒काश॒
आ॒नन्दो॒ न स्यात्॑ । ए॒ष ह्ये॒वाऽऽन॑न्दयति ।
किंच देहादिचेष्टावैषयिकानन्दहेतुत्वादपि ब्रह्मास्तीत्यभिप्रेत्य तदुभयहेतुत्वं दर्श-
यति—को ह्येवान्यादित्यादिना । आकाश इति सप्तम्यन्तः प्रथमान्तो वा । सप्तमीपक्षे
गुहायां परमे व्योम्नित्यत्राभिहितो योऽर्थः स एवात्रापि द्रष्टव्यः । प्रथमान्तत्वपक्षे
त्वा समन्तात्काशते स्वप्रकाशत्वेनावभासते इत्याकाशः । तथाविध एष पूर्ववाक्ये रस-
त्वेनोक्त आत्मरूप आनन्दो यदि न स्यात्तदानीं को ह्येव को नाम कर्ता देहस्या-
न्तरङ्गाद्वाङ्गादीन्द्रियैश्चेष्टेत । अन चेष्टायामिति धातुः । को वा प्राण्यात्प्राणनकर्म श्वासं
कुर्यात् । चक्षुरादीन्द्रियसाधनक्रियाकर्तृत्वमात्मन आथर्वणिका आमनन्ति—“ एष हि
द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः ” इति । लोके
प्राणसदसद्भावयोर्जन्ममरणदर्शनात्प्राण एवाऽऽत्मेति मूढप्रसिद्धिस्तामेवोपजीव्य बृहदा-
रण्यके प्राणात्मत्ववादी बालाकिर्ब्रह्मात्म³वादिनाऽजातशत्रुणा सह संवादं चकार ।
ततोऽत्र दर्शनादिक्रियाणां कर्ता प्राण इति भ्रमं वारयितुं कः प्राण्यादिति पृथगुक्तिः ।
आनन्दात्मनोऽसत्त्वे प्राणेन साधनेन श्वासक्रियां कः कुर्यात् । प्राणस्य श्वासक्रियां प्रति
करणत्वमेव कर्तृत्वं त्वात्मन इत्ययमर्थ उपस्तिब्राह्मणेऽपि स्पष्टमाम्नातः—“ यः
१ घ. ॰नीयं वे° । २ ग्व. ॰स्मीत्याव° । ३ घ. ॰त्वत्ववा° ।

or स्? It looks like "श्चि"?
Wait, why would it be "श्चि"?
Could it be "अदृश्यत्वादिभिस्त्रिभिर्विशेषणैः"?
Yes, in Sanskrit: "अदृश्यत्वादिभिः त्रिभिः विशेषणैः" -> "अदृश्यत्वादिभिस्त्रिभिर्विशेषणैः"!
Wait, look at the typesetters: often 'स्त्रि' is set as स् + त्रि. Here it looks like 'स्त्रि'.
Wait, look at the letter: is it 'श्चि'? Sometimes in Anandashrama font, 'स्त्रि' looks like 'स्त्रि' with a flourish.
Wait, let's look at the next word:
"प्रत्यक्षानुमानागमगम्यत्वं निराकृतम् ।"
YES!
प्रत्यक्ष (1. अदृश्यत्वात्)
अनुमान (2. अनात्म्यत्वात्)
आगम (3. अनिरुक्तत्वात्)
So "अदृश्यत्वादिभिस्त्रिभिर्विशेषणैः प्रत्यक्षानुमानागमगम्यत्वं निराकृतम् ।"
Three adjectives negate the three pramāṇas (pratyakṣa, anumāna, āgama)!
That is brilliant and 100% mathematically and philosophically certain!
"अदृश्यत्वादिभिस्त्रिभिर्विशेषणैः प्रत्यक्षानुमानागमगम्यत्वं निराकृतम् ।"
Wait, let's re-read the exact letters in print:
Is it "अदृश्यत्वा

[प्रपा०८।अनु०२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६४५
य॒दा ह्ये॑वै॒ष ए॒तस्मि॑न्नुद॒रम॒न्तरं॑
कु॒रु॒ते । अथ॒ तस्य॑ भ॒यं भ॑वति ।
विदुषो ब्रह्मप्राप्तिनिश्चयेन यथा संशयो निराकृत एवमविदुषो ब्रह्मप्राप्त्यभावनि-
श्चयेन संशयमपाकरोति—यदा ह्येवैष इत्यादिना । उच्छब्दोऽपिशब्दार्थे वर्तते ।
अरशब्दोऽल्पवाची । अन्तरशब्दो भेदवाची । एष लौकिकः पुमानेतस्मिन्ब्रह्मण्यल्प-
मपि भेदं स्वातिरिक्तत्वं यदा कुरुते । स्वस्माद्भेदेन ब्रह्म पश्यति तदैव तस्य जन्ममर-
णादिसंसारभयं भवति । जीवब्रह्मभेदस्य, वास्तवत्वाभावाभिप्रायेणाल्पमित्युक्तम् । भेद-
दर्शिनः संसारप्राप्तौ श्रुत्यन्तरसिद्धिं हिशब्देन दर्शयति । “ मृत्योः स मृत्युमाप्नोति
य इह नानेव पश्यति ” “ ब्रह्म त

तदुक्तं वार्तिककारैः—" नियम्यकार्यमापेक्ष्य नियन्तैष तमोवधिः ” इति । श्रुत्यन्तरं
च—“ यो वायुमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः । एतस्य वा अक्षरस्य
प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः ” इत्यादिकमुदाहार्यम् ।
अस्य च भयहेतोर्नियामकस्यान्तर्यामिणो ब्रह्मत्वं प्रथमाध्यायस्य द्वितीयपादे*
चिन्तितम्—
“ प्रधानं जीव ईशो वा कोऽन्तर्यामी जगत्प्रति ।
कारणत्वात्प्रधानं स्याज्जीवो वा कर्मणो मुखात् ॥
जीवैकत्वामृतत्वादेरन्तर्यामी परमेश्वरः ।
द्रष्टृत्वादेर्न प्रधानं न जीवोऽपि नियम्यतः ॥
बृहदारण्यके पञ्चमाध्याये याज्ञवल्क्य उद्दालकं प्रत्याह —“ यः पृथिव्यां
तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त
आत्माऽन्तर्याम्यमृतः ” इति । तत्र पृथिव्यादिजगत्प्रति योऽन्तर्यामी श्रूयते तस्मिन्विशेष
संशये सति प्रधानमिति प्राप्तम् । तस्य सकलजगदुपादानत्वेन स्वकार्यं प्रति नियामक-
त्वसंभवात् । अथवा जीवोऽन्तर्यामी । स हि धर्माधर्मरूपं कर्मानुष्ठितवान् । तच्च कर्म
स्वफलदानायं फलभोगसाधनं जगदुत्पादयति । अतः कर्मद्वारा जगदुत्पादकत्वाज्जीवोऽ-
न्तर्यामीति प्राप्ते ब्रूमः— “ एष त आत्माऽन्तर्याम्यमृतः ” इत्यन्तर्यामिणो जीवतादा-
त्म्यममृतत्वं च श्रूयते । तथा पृथिव्यन्तरिक्षादिषु सर्ववस्तुष्वन्तर्यामित्वोपदेशेन सर्वव्या-
पित्वं प्रतीयते । तेभ्यो हेतुभ्योऽन्तर्यामी परमेश्वरः । न च प्रधानस्यान्तर्यामित्वं संभ-
वति, “ अदृष्टो द्रष्टाऽश्रुतः श्रोता ” इति द्रष्टृत्वश्रोतृत्वाद्यवगमात् । अचेतनस्य प्रधा-
नस्य तदसंभवात् । नापि जीवोऽन्तर्यामी “ य आत्मानमन्तरो यमयति ” इति जीवस्य
नियम्यत्वश्रवणात् । तस्मादन्तर्यामी परमेश्वरः । एतस्माद्द्वयमज्ञानिन एव । न ।
तत्त्वविदः ” ।
तदेवं सर्वेषां प्रश्नानामुत्तरं संपन्नम् । पूर्वत्र यदुक्तं “ सोऽश्नुते सर्वान्कामान्सह
इति, यदपि “रसो वै सः” इत्यानन्दरूपत्वं सूत्रितं तदुभयं निर्णैतुं विचारमवतारयति-
सै॒षाऽऽनन्द॑स्य मी॒मा॑ᳵसा भवति, इति ।
तच्छब्देन मीमांसायाः श्रुत्यन्तरप्रसिद्धिः प्रदर्श्यते । बृहदारण्यके हि—“।
यो मनुष्याणां राद्धः समृद्धो भवत्यन्येषामधिपतिः सर्वैर्मानुष्यकैर्भोगैः संपन्नतमः
मनुष्याणां परम आनन्दः ” इत्या॑दिनाऽऽनन्दनिर्णयः प्रपञ्चितः । राद्धो देहेन्द्रिया-


  • अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात्—ब्र० सू० अ० १ पा० २ अ० ५ सू० १८।
    १ ग. तस्य । २ ख. ॰रमरत्वं चेति । घ. ॰रय° । ३ ख. ॰त्यान° ।

[प्रपा० ८ अनु० २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६६७

[..]पाटवलक्षणसिद्धयुपेतः । समृद्धो विद्यादिगुणसंपन्नः । एतच्छब्देनानन्तरग्रन्थे वक्ष्य-
माणतां दर्शयति । किमयं ब्रह्मानन्दो लौकिकानन्दवद्विषयविषयिसंबन्धेन जन्यत आहो-
स्वित्स्वाभाविक इत्येषा मीमांसा प्रवर्तते ।
तत्र स्वाभाविकं ब्रह्मानन्दं विवेक्तुं द्वारभूता अन्ये विषयानन्दाः क्रमेणोपन्यस्यन्ते ।
एतेषां ब्रह्मानन्दलेशात्त्वान्निश्चयद्वारत्वमुपपन्नम् । तल्लेशत्वं चैवं द्रष्टव्यम् । अविद्यया
विवेके तिरस्क्रियमाणे सत्युत्कृष्यमाणायां चाविद्यायां हिरण्यगर्भमारभ्य मनुष्यपर्यन्तेषु
जीवेषु ब्रह्मानन्दस्तत्तत्कर्मवशाद्विषयादिसाधनसंबन्धवशाच्च यथाविज्ञानं भाव्यमानतयाऽ-
पचीयमाणश्चञ्चलो व्यवस्थितो लौकिकः संपद्यते । स एव पुनरविद्याकामकर्मप्रक्षयेण
मनुष्यगन्धर्वादिषु हिरण्यगर्भपर्यन्तमुत्तरोत्तरभूमिषु शतगुणोत्कर्षयुक्तोऽकामहतविद्वच्छ्रो-
त्रियप्रत्यक्षो विभाव्यते । विद्यया त्वाविद्याकृते विषयविषयिविभागे निवृत्ते सति स्वाभा-
विकः परिपूर्ण एक एवाऽऽत्मानन्दोऽवतिष्ठते । तस्य द्वारभूतेषु विषयानन्देष्वस्मत्प्रसिद्ध-
मानन्दमादौ तावद्दर्शयति—
यु॒वा स्या॑त्साधुयु॑वाऽध्या॒यकः॑ । आशि॑ष्ठो द्रढि॑ष्ठो ब॒लिष्ठः॑ । तस्ये॒यं
पृथि॒वी सर्वा॑ वि॒त्तस्य॑ पू॒र्णा स्यात्॑ । स एको॒ मानु॑ष आ॒नन्दः॑, इति ।
मनुष्यस्य बाल्ये विषयगुणानभिज्ञत्वात्स्वक्चन्दनवनितादिविषयानन्दो नास्ति ।
वार्धके तदभिज्ञत्वेऽपि भोक्तुमसमर्थत्वादसौ नास्ति । अतो यौवनमेव परिशिष्यत इत्य-
भिप्रेत्य युवा स्यादित्युक्तम् । यौवनेऽपि कुरूपत्वक्रोधादिग्रस्तस्य दुःखबाहुल्यात्तद्वा-
रणाय साधुयुवेत्युच्यते । तादृशस्यापि चतुःषष्टिकलासु चतुर्दशविद्यास्वेकस्या अप्यभावे
दुःखं भवेदिति तद्व्यावृत्त्यर्थमध्यायक इत्युक्तम् । विद्यावतोऽपि कार्येषु मन्दप्रवृत्तेरग्निमा-
न्द्यादिना भोजनादौ रुचिहीनस्य वा सुखं न भवतीति तन्निवृत्त्यर्थमाशिष्ठ इत्युक्तम् ।
आशुतमः सर्वकार्येषु शीघ्रं प्रवर्तत इत्यर्थः । यद्वा सर्वेषु भोज्यद्रव्येषु रुचिबाहुल्ये-
नाऽऽशितुतमः । ईदृशस्यापि मनोदार्ढ्याभावे सति न युद्धादौ धृतिः स्यादिति तद्वा-
रणाय द्रढिष्ठ इत्युक्तम् । धैर्ययुक्तोऽपि शारीरबलहीनोऽश्वारोहणादावक्षमः स्यादिति
निवारयितुं बलिष्ठ इत्युक्तम् । एतावत्ता भोक्तृत्वसंपत्तिरुक्ता । तस्येयमिति भोग्यसंपत्ति-
रुच्यते । चतुर्दिक्षु समुद्रवेष्टिता या पृथिवी सा सर्वाऽपि वित्तस्य पूर्णा भोग्यद्रव्य-
त्वेन पूरिता । एतच्चान्येषामधिपतिरित्यादिकस्य श्रुत्यन्तरोक्तस्योपलक्षणम् । यदि
कश्चित्सार्वभौमस्यैतत्सर्वं संभवेत्तदानीमयं मानुष आनन्दो भवति । इतोऽर्वाची-
नास्तु दुःखमिश्रत्वादानन्दा एव न संभवन्ति । न खलु कश्चिदपि मनुष्यो यथोक्तसा-
१ घ. ॰ह्वत्तन्नि॰ । २ क. ङ 'लोऽप' । ३ ख. 'पक्रो' । ४ ख. 'यासु चैक॰ ।
५. तद्धारणाय ।

६४८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा० ८अनु०२]

र्वभौमादन्यः कश्चिदपि सर्वतस्तृप्तिमानुपलभ्यते । आनन्दो नाम तृप्तिः । तस्याः कश्चि-
द्विषयाभिलाषो विरोधी । स चालब्धे विषये कस्यचित्कस्मिंश्चिद्वश्यं संभवत्येव ।
सार्वभौमस्य तु सर्वविषयाणां मनुष्यलोकवर्तिनां लब्धत्वेन विरोध्यभावान्निर्विघ्ना तृप्ति-
रभिव्यज्यते ।
एवं च सति यावद्यावदभिलाषनिवृत्तिरुत्कृष्टा भवति तावत्तावदानन्दोऽप्युत्कृष्यते ।
एतदेवाभिप्रेत्य पूर्वोक्तादानन्दादधिकमुदाहरति—
ते ये श॒तं मानु॑षा आ॒नन्दाः॑ ( १ ) । स एको॑ मनुष्य-
गन्ध॒र्वाणा॑मा॒नन्दः॑ । श्रोत्रि॑यस्य॒ चाका॑महतस्य, इति ।
ते पूर्वोक्ताः सार्वभौमनिष्ठा मानुषा आनन्दाः शतसंख्याका ये सन्ति सोऽयमा-
नन्दसंघो मनुष्यगन्धर्वाणामेक आनन्दो भवति । शतसंख्याकेषु सार्वभौमेषु यावती
तृप्तिस्तावती मनुष्यगन्धर्वस्यैकस्य विद्यते । अस्मिन्कल्पे मनुष्याः सन्तो विद्याकर्मवि-
शेषानुष्ठानेन गन्धर्वत्वं प्राप्ता मनुष्यगन्धर्वाः । ते ह्यन्तर्धानादिशक्तियोगेन मनुष्येभ्य
उत्कृष्टाः ।
स चोत्कर्षो वार्तिके दर्शितः—
“ सुगन्धिनः कामरूपा अन्तर्धानादिशक्तयः ।
नृत्य¹गीतादिकुशला गन्धर्वाः स्युर्नृलौकिकाः ” ॥ इति ।
ततस्तेषां मनुष्यवदानन्दप्रतिघातः प्रायेण नास्ति । कदाचित्प्रसक्तस्यापि परिहाराय
साधनसंपत्तिरस्ति । तथा सति चित्तप्रसादविशेषात्सुखविशेषाभिव्यक्तिरुपपद्यते । सार्व-
भौमस्य मनुष्यत्वेन तदीयस्याऽऽनन्दस्यास्माभिरपेक्षितुं शक्यत्वान्न तत्र श्रोत्रिय उदा-
हृतः । मनुष्यगन्धर्वास्त्वन्तरिक्षलोकवासिनः “ यक्षगन्धर्वाप्सरोगणसेवितमन्तरि-
क्षम् ” इति श्रुत्यन्तरात् । अतस्तदीयस्याऽऽनन्दस्याप्रसिद्धत्वात्तत्प्रसिद्धिं मनुष्यलोके
दर्शयितुं श्रोत्रिय उदाह्रियते । “ श्रोत्रियश्छन्दोऽधीते ” इति पाणिनिना सूत्रित-
त्वात् । स हि सर्वेषु लोकेषु वर्तमानस्याऽऽनन्दहेतोर्विषयस्य भोगे प्रयाससाध्यत्वसा-
तिशयत्वानित्यत्वदोषाञ्छास्त्रानुभवाभ्यां निश्चित्य तत्र निष्कामो भवति । तथा सति
मनुष्यगन्धर्वलोकगतान्विषयानभुञ्जानस्य यावानानन्दस्तावानकामहतवेदविच्छ्रोत्रिय-
स्यापि विद्यते । अकामहतत्वं तु गन्धर्वलोकानभिज्ञस्य मूढस्येदानीं विद्यमानमपि
कालान्तरेण शास्त्रादभिजानानस्य तल्लोकभोगेच्छायामुत्पन्नायां निवर्तते । श्रोत्रियस्य
तु तद्दोषदर्शिनः कदाचिदपि कामानुत्पत्तेरकामहतत्वं सुस्थितम् । ननु गन्धर्वस्य
नृत्य²गीतादिभिस्तदा कदाचित्तद्वृत्त्युल्लासलक्षणो हर्षशब्दाभिधेय आनन्द उपप-


¹ ग. व. नृत्तगी० । ² ग. व. नृत्तगी० ।

[प्रपा० ८ अनु० २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६४९

द्यते । न त्वसावकामहतस्य श्रोत्रियस्य विद्यत इति चेन्मा भूदयं हर्षः । तस्य क्षणिक-
त्वेन चित्तविकारत्वेन च मुख्यानन्दत्वाभावाद्विषयप्राप्त्या तदिच्छायां निवृत्तायां हर्षा-
दिविकारेषु च शान्तेषु या तृप्तिर्भङ्गिरनुगच्छत्यसौ च मुख्यानन्दः ।
तथा च स्मर्यते—
“यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्” ॥ इति ।
तृप्तिरूपश्चाऽऽनन्दो गन्धर्वेण समानोऽकामहतस्य श्रोत्रियस्य विद्यते । यथोक्तपर्याय-
द्वयमुत्तरेष्वपि पर्यायेषु चित्तस्य प्रसादातिशयमनुसृत्य तृप्तिलक्षणस्याऽऽनन्दस्याऽऽविर्भा-
वातिशयो व्याख्येयः ।
तत्र तृतीयपर्यायमाह—
ते ये श॒तं म॑नुष्यगन्ध॒र्वाणा॑मा॒नन्दा॑ः । स एको॑ देवग-
न्ध॒र्वाणा॑मा॒नन्द॑ः । श्रोत्रि॑यस्य चाका॑महतस्य, इति ।
सृष्टिकाल एव देवलोके समुत्पन्ना गायका देवगन्धर्वाः ।
चतुर्थं पर्यायमाह—
ते ये श॒तं दे॑वगन्ध॒र्वाणा॑मा॒नन्दा॑ः । स एकः॑ पितॄणां॑ चिरलो-
कलोका॑ना॒मानन्द॑ः । श्रोत्रि॑यस्य चाका॑महतस्य, इति ।
चिरकालस्थायी यो लोकस्तमालोकयन्त इति चिरलोकलोकाः ।
पञ्चमं पर्यायमाह—
ते ये श॒तं पि॑तॄणां चि॑रलोकलोका॑ना॒मानन्दा॑ः ।
स एक॑ आजा॒नजा॑नां दे॒वाना॑मा॒नन्द॑ः ।
(२) । श्रोत्रि॑यस्य चाका॑महतस्य, इति ।
पितृलोकादूर्ध्वभावी कश्चिदाजानाख्यो देवलोकविशेषस्तत्रोत्पन्ना आजानजाः ।
षष्ठं पर्यायमाह—
ते ये शतमाजानजानां देवाना॑ना॒नन्दा॑ः। स एकः॑
कर्मदे॒वानां॑ दे॒वाना॑मा॒नन्द॑ः । ये कर्म॑णा दे॒वा-
नपि॑यन्ति । श्रोत्रि॑यस्य चाका॑म॑हत॒स्य, इति ।
१ ख. ॰भङ्ग्यनु॰ । २ ग. घ. ॰च्छति सैव मु॰ । ३ ख. घ. ॰श्चमप॰ ।
८२

आजानजदेवभोगादप्युत्तमं भोगं प्राप्तुं ये वैदिकं कर्मविशेषमनुष्ठाय देवान्प्राप्नुवन्ति
ते कर्मदेवाख्या देवाः ।
सप्तमं पर्यायमाह—
ते ये श॒तं क॑र्मदे॒वानां॑ दे॒वाना॑मान॒न्दाः । स एको॑
दे॒वाना॑मान॒न्दः । श्रोत्रि॒यस्य॑ चाका॑महतस्य॒, इति ।
त्रयस्त्रिंशद्धविर्भुजोऽत्र देवशब्देन विवक्षिताः ।
अष्टमं पर्यायमाह—
ते ये श॒तं दे॒वाना॑मान॒न्दाः । स एक इन्द्र॑स्याऽऽ-
नन्दः॑ ( ३ ) । श्रोत्रि॒यस्य॑ चाका॑महतस्य॒, इति ।
इन्द्रो हविर्भुजां स्वामी ।
नवमं पर्यायमाह—
ते ये श॒तमिन्द्र॑स्याऽऽन॒न्दाः । स एको॒ बृहस्पते॑रा-
नन्दः॑ । श्रोत्रि॒यस्य॑ चाका॑महतस्य॒, इति ।
बृहस्पतिरिन्द्रस्याऽऽचार्यः ।
दशमं पर्यायमाह—
ते ये श॒तं बृहस्पते॑रान॒न्दाः । स एकः॑ प्रजा-
पते॑रान॒न्दः । श्रोत्रि॒यस्य॑ चाका॑महतस्य॒, इति ।
प्रजापतिर्विराट्पुरुषः ।
एकादशं पर्यायमाह—
ते ये श॒तं प्र॒जाप॑तेरान॒न्दाः । स एको॒ ब्रह्मण॑
आनन्दः । श्रोत्रि॒यस्य॑ चाका॑महतस्य (४), इति ।
ब्रह्मा हिरण्यगर्भः कृत्स्नसंसारमण्डलव्यापी समष्टिव्यष्टिरूपः सूत्रात्मा । स च
शरीरिणां मध्ये प्रथमः “ हिरण्यगर्भः समवर्तताग्रे ” इति श्रुतेः ।
“ स वै शरीरी प्रथमः स वै पुरुष उच्यते ।
आदिकर्त्ता स भूतानां ब्रह्माऽग्रे समवर्तत ” ॥ इति स्मृतेश्च ।
²तेन सांसारिक आनन्दोत्कर्षस्तत्र विश्राम्यति । उक्तरीत्या श्रोत्रिये सर्वेषामानन्दानां
सद्भावेन सोऽश्नुते सर्वान्कामान्सहेत्ययमर्थ उपपादितो भवति ।
१ क. ख. घ. ङ. °नन्दे° । २ ख. अतः।

[प्रपा० ८ अनु० २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६५१
तदेवं परमानन्दद्वारभूतः सांसारिक आनन्दोत्कर्ष आगमेन श्रोत्रियप्रत्यक्षेण चोदा-
हृतः । अथ बोधनीयं ब्रह्मानन्दं दर्शयति—
स यश्चायं पुरु॑षे । यश्चासा॑वादित्ये । स एक॑ः, इति ।
पुरुषशब्देन बुभुत्सुर्मनुष्यो विवक्षितः । तस्मिन्कश्चिदानन्दो विद्यते । तत्सद्भावे
यौक्तिकप्रसिद्धििरनुभवप्रसिद्धिश्च सोऽयमित्येताभ्यां पदाभ्यां क्रमेण निर्दिश्यते । तत्र
यौक्तिकप्रसिद्धिः श्रुत्यन्तरे प्रपञ्चिता—" आत्मनस्तु कामाय सर्वं प्रियं भवति "
इति प्रतिज्ञाय पुत्रवित्तादिरूपस्य सर्वस्य भोग्यजातस्याऽऽत्मशेषतया प्रियत्वे सत्या-
त्मनः परप्रीतिविषयत्वेनाऽऽनन्दरूपत्वमुपपादितं भवति । तथा सर्वदाऽहं भूयासं
कदाचिदपि ममासत्त्वं मा भूदित्येवमा