सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 651, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 651

तदुक्तं वार्तिककारैः—" नियम्यकार्यमापेक्ष्य नियन्तैष तमोवधिः ” इति । श्रुत्यन्तरं
च—“ यो वायुमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः । एतस्य वा अक्षरस्य
प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः ” इत्यादिकमुदाहार्यम् ।
अस्य च भयहेतोर्नियामकस्यान्तर्यामिणो ब्रह्मत्वं प्रथमाध्यायस्य द्वितीयपादे*
चिन्तितम्—
“ प्रधानं जीव ईशो वा कोऽन्तर्यामी जगत्प्रति ।
कारणत्वात्प्रधानं स्याज्जीवो वा कर्मणो मुखात् ॥
जीवैकत्वामृतत्वादेरन्तर्यामी परमेश्वरः ।
द्रष्टृत्वादेर्न प्रधानं न जीवोऽपि नियम्यतः ॥
बृहदारण्यके पञ्चमाध्याये याज्ञवल्क्य उद्दालकं प्रत्याह —“ यः पृथिव्यां
तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त
आत्माऽन्तर्याम्यमृतः ” इति । तत्र पृथिव्यादिजगत्प्रति योऽन्तर्यामी श्रूयते तस्मिन्विशेष
संशये सति प्रधानमिति प्राप्तम् । तस्य सकलजगदुपादानत्वेन स्वकार्यं प्रति नियामक-
त्वसंभवात् । अथवा जीवोऽन्तर्यामी । स हि धर्माधर्मरूपं कर्मानुष्ठितवान् । तच्च कर्म
स्वफलदानायं फलभोगसाधनं जगदुत्पादयति । अतः कर्मद्वारा जगदुत्पादकत्वाज्जीवोऽ-
न्तर्यामीति प्राप्ते ब्रूमः— “ एष त आत्माऽन्तर्याम्यमृतः ” इत्यन्तर्यामिणो जीवतादा-
त्म्यममृतत्वं च श्रूयते । तथा पृथिव्यन्तरिक्षादिषु सर्ववस्तुष्वन्तर्यामित्वोपदेशेन सर्वव्या-
पित्वं प्रतीयते । तेभ्यो हेतुभ्योऽन्तर्यामी परमेश्वरः । न च प्रधानस्यान्तर्यामित्वं संभ-
वति, “ अदृष्टो द्रष्टाऽश्रुतः श्रोता ” इति द्रष्टृत्वश्रोतृत्वाद्यवगमात् । अचेतनस्य प्रधा-
नस्य तदसंभवात् । नापि जीवोऽन्तर्यामी “ य आत्मानमन्तरो यमयति ” इति जीवस्य
नियम्यत्वश्रवणात् । तस्मादन्तर्यामी परमेश्वरः । एतस्माद्द्वयमज्ञानिन एव । न ।
तत्त्वविदः ” ।
तदेवं सर्वेषां प्रश्नानामुत्तरं संपन्नम् । पूर्वत्र यदुक्तं “ सोऽश्नुते सर्वान्कामान्सह
इति, यदपि “रसो वै सः” इत्यानन्दरूपत्वं सूत्रितं तदुभयं निर्णैतुं विचारमवतारयति-
सै॒षाऽऽनन्द॑स्य मी॒मा॑ᳵसा भवति, इति ।
तच्छब्देन मीमांसायाः श्रुत्यन्तरप्रसिद्धिः प्रदर्श्यते । बृहदारण्यके हि—“।
यो मनुष्याणां राद्धः समृद्धो भवत्यन्येषामधिपतिः सर्वैर्मानुष्यकैर्भोगैः संपन्नतमः
मनुष्याणां परम आनन्दः ” इत्या॑दिनाऽऽनन्दनिर्णयः प्रपञ्चितः । राद्धो देहेन्द्रिया-


  • अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात्—ब्र० सू० अ० १ पा० २ अ० ५ सू० १८।
    १ ग. तस्य । २ ख. ॰रमरत्वं चेति । घ. ॰रय° । ३ ख. ॰त्यान° ।