तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
DevanagariSanskritpublished914 पृष्ठ
पृष्ठ 644, कुल 914 में से
संदर्भ में पढ़ेंपृष्ठ 644
[प्रपा०८/अनु०२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । · ६३९
- द्वितीयाधिकरणमारचयति—
“ नाडीपुरीतद्ब्रह्माणि विकल्पन्ते सुषुप्तये ।
समुच्चितानि वैकार्थ्याद्विकल्पन्ते यवादिवत् ।
समुच्चितानि नाडीभिरुपसृप्य पुरीतति ।
हृत्स्थब्रह्मणि यात्यैक्यं विकल्पे त्वष्टदोषता ।
“ आसु तदा नाडीषु सृप्तो भवति ” इति श्रुतौ सुषुप्तिकाले नाडीप्रवेशो गम्यते ।
“ ताभिः प्रत्यवसृप्य पुरीतति शेते ” इति श्रुतौ पुरीतदाश्रितत्वं प्रतीयते । “ य
एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते ” इति श्रुत्यन्तरेौदाकाश,व्दवाच्यब्रह्माश्रितत्वं
प्रतीयते । तान्येतानि नाड्यादिस्थानानि विकल्पितानि भवितुमर्हन्ति । एकप्रयोजन-
त्वात् । यथा व्रीहिभिर्यजेत यवैर्वा यजेतेत्यत्र पुरोडाशनिष्