सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 640, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 640

[प्रपा० ८ अनु० २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६३५

जीवस्य लोकान्तरगमनरूपः संसारप्रकारस्तृतीयाध्यायस्य प्रथमपादे षड्भिरधि-
करणैर्विचारितः । तत्र *प्रथमाधिकरणमारचयति—
“ अवेष्टितो वेष्टितो वा भूतसूक्ष्मैः पुमान्व्रजेत् ।
भूतानां सुलभत्वेन यात्यवेष्टित एव सः ॥
बीजानां दुर्लभत्वेन निराधारेन्द्रियागतेः ॥
पञ्चमाहुत्युक्तेश्च जीवस्तैर्याति वेष्टितः ॥
पूर्वपादप्रतिपादितः प्राणोपाधिको जीवः शरीरान्तरप्राप्तिकालेऽयामितो निर्गच्छन्भा-
विशरीरबीजैः सूक्ष्मभूतैर्वेष्टितो गच्छति । पञ्चभूतानां सर्वत्र सुलभत्वेनेतो नयनस्य
निरर्थकत्वादिति प्राप्ते ब्रूमः—भूतमात्रस्य सुलभत्वेऽपि देहबीजानि न सर्वत्र सुलभानि ।
तस्मादितो नेतव्यानि । किंच जीवोपाधिभूतेन्द्रियाणां भूताधारत्वमन्तरेण परलोकगमनं
न संभवति । जीवनदशायामदर्शनात् । श्रुतिश्चैवमाह— “ पञ्चम्यामाहुतावापः पुरुषव-
चसो भवन्ति ” इति । अस्यायम