तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
देहादिपञ्चकोशरूपायां गुहायां प्रविष्टमिवाभ्यन्तरे निरुपाधिकरूपेण साक्षात्कार-
योग्यं सदवतिष्ठते । तच्चाखण्डैकरसं परमानन्दस्वरूपमित्ययमुक्तप्रकारः । तेन प्रका-
रेण विदितवत आनन्दप्राप्तौ क्रमोऽभिधीयते । भोक्ता भोग्यं चेति द्विविधं
जगद्ब्रह्मणा सृष्टम् । तत्र प्रत्यक्चैतन्यरूपमात्मानमारभ्य देहपर्यन्तोऽहंप्रत्ययगम्यो
जगद्भागो भोक्ता । देहाद्वहिरिदंप्रत्ययेनावलोक्यमानः पुत्रभार्यादिरूपो जगद्भागो
भोग्यः । तत्र यद्यप्यात्मव्यवहारोऽस्ति तदीयसुखदुःखयोरहं सुखी दुःखीत्येवं
सर्वैरभिगम्यमानत्वात्, तथाऽपि पुत्रादिषु स्वस्माद्भेदस्य विस्पष्टं भासमानत्वादौण-
मेवाऽऽत्मत्वं न तु मुख्यमित्यभिप्रेत्य श्रुतिस्तत्राऽऽत्मत्वबुद्धिं निवारयितुमन्नमया-
त्मानमुपादिशेत् । बुभुत्सुरपि तदेतदवगम्यास्माल्लोकादिदंप्रत्ययेनावलोक्यमानात्पुत्रादेः
प्रेत्य प्रत्यावृत्य तत्र निरपेक्षो भूत्वाऽन्नमयं श्रुतिबोधितमेतमुपसंक्रामति प्राप्नोति ।
पुत्रादिसुखदुःखयोः स्वकीयत्वाभिमानं परित्यज्यान्नमयमात्रे पर्यवस्यतीत्यर्थः । एवं
क्रमेण प्राणमयाद्युपसंक्रमणं द्रष्टव्यम् । आनन्दमयमुपसंक्रम्य तत्रापि प्रियादिचतुष्टयं
क्रमेण परित्यज्य ब्रह्म पुच्छमित्युक्तेऽखण्डैकरसानन्दे पर्यवस्यतीत्यर्थः । नन्वेवंविच्छ-
ब्देन किं परमात्मा विवक्षितः किंवा ततोऽन्यः कश्चित् । नाऽऽद्यः । तस्य वेदित-
व्यत्वेन वेदितृत्वानुपपत्तेः । न द्वितीयः । तत्त्वमस्यादिश्रुतिविरोधात् । नैष दोषः ।
परमात्मन एव देहेन्द्रियाद्युपा²...शिष्ट्वाकारेण वेदितृत्वमखण्डैकरसानन्दरूपत्वेन
वेद्यत्वमित्युभयोपपत्तेः । ननु य ए[तेरानन्दाः ।]³संमतीति श्रूयते । संक्रमणं नाम दृढ-
संयोगरूपप्राप्तिः । जलूका तृणे संक्रामतीत्यादौ तथा दृष्टत्वात् । न हि देहेन्द्रियाद्यु-
पाधिविशिष्टस्य वेदितुरन्नमयादिषु यथोक्तसंक्रमणं संभवतीति चेन्न । संक्रमशब्देनात्र
भ्रान्तिविनाशलक्षणस्य विद्याफलस्य विवक्षितत्वात् । तथा च भाष्यकारैरुक्तम्—
“एतास्मिन्नविद्याविभ्रमनाशे संक्रमशब्द उपचर्यते” इति । न हि मुख्यसंक्रमणस्य वेद-
नमात्रं साधनं भवति । कज्जलमयमित्यादिज्ञानमात्रेण तत्तत्संक्रमणादर्शनात् । अस्मा-
ल्लोकात्प्रेत्येत्यनेनैव वाक्येन प्रथमपर्याये बाह्यपुत्रादिविषयभ्रान्तिनाशोऽभिहित इति
चेदेवं तर्ह्यन्नमयसंक्र⁴मेणोक्त्या पुत्रादिभ्रमस्य पुनरनुत्पत्तिर्विवक्ष्यताम् । अत एवास्माभि-
र्देहमात्रे पर्यवस्यतीति संक्रमणाभिप्रायोऽभिहितः । अनेनैव न्यायेन प्राणमयात्मवेदने
सत्यन्नमयात्मत्वभ्रमस्य विनष्टस्य पुनरनुत्पत्तिः प्राणमयसंक्रमणम् । एवमुत्तरत्रापि
द्रष्टव्यम् । अन्नमयादिषु मुख्यात्मत्वाभावेऽप्यहंप्रत्ययगम्यत्वलक्षणं भ्रान्तिप्रतीतिमा-
त्मत्वमभ्युपेत्यान्नमयमात्मानमित्यात्मशब्दः प्रयुक्तः । आनन्दमयकोशगतस्य प्रियाद्य-
वयवचतुष्टयस्याऽऽनन्दे मुख्यानन्दब्रह्मण्यवाङ्मनसगोचरत्वमभिप्रेत्य विद्यमानमपि तत्तत्सं-
क्रमणं श्रुत्या नोक्तम् ।
१ त्र, स्पष्टं । २ व. °योः स्वीकृतत्वा° । ३ ख °मणज्ञ । ४ म, °मणे त्वया प° ।
वाचो निव॑र्तन्ते । अप्रा॑प्य॒ मन॑सा स॒ह । आन॒न्दंWait, underतोis anudattaयतो॒. Under चोis anudattaवाचो॒. Above वis svaritaनिव॑र्तन्ते. Above प्राis svaritaअप्र्रा॑प्य/अप्रा॑प्य॒. Under प्यis anudattaप्य॒. Above नis svaritaमन॑सा. Under सis anudattaस॒ह. Under नन्is anudattaआन॒न्दं`.
Line 8:
ब्रह्म॑णो वि॒द्वान् । न बि॑भेति कुत॑श्च॒नेति॑, इति ।
Above ह्म is svarita ब्रह्म॑णो.
Under वि is anudatta वि॒द्वान्.
Above बि is svarita बि॑भेति.
Above त is svarita कुत॑.
Under श्च is anudatta श्च॒.
Above ति is svarita नेति॑.
Comma after नेति॑: , इति ।
All text is identified with 100% precision. Transcribe cleanly![प्रपा०८।अनु०९] कृष्णयजुर्वेदी
... द्वितीयेन नकारेण!
Wait, look at footnote 6: ६ क. ख. ग छ. ०केन न० ।
In L21 end: स्यात् । एक-?
Wait, look at the characters: अं? अत?
Wait, let's read L21 end: स्यात् । अत? No, it looks like अतः with the second dot cut off, or अं?
Wait, could it be अत एक-?
No, L22 starts with: नकारेण द्वितीयेन ब्रह्मापि निषिध्यत इति प्राप्ते ब्रूमः—
Wait, if L22 starts with नकारेण, what was before it?
"एकेन नकारेण" / "अत एकेन नकारेण" or "अत एकनकारेण"?
Look at L21 end: स्यात् । अत - wait, the letter is अं? No, it's अत or अतः? Wait, footnote 3 says:
३ क. ग. च. छ. ०क्यात् । अ० ।
That means निरर्थकः स्यात् in some mss is निरर्थक्यात्! And अ० refers to अतः!
So in the main text it is: `स्या
[प्रपा० ८ अनु० २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६५५
त्वात् । किंचाथात आदेश इति महता संरम्भेण ब्रह्मोपदेष्टुं प्रतिज्ञाय तदेव ब्रह्म निषे-
न्ती श्रुतिः कथं न व्याहन्येत । वाक्यशेषश्च न ब्रह्मनिषेधे संगच्छेत । वाक्यशेषे
। सत्यस्य सत्यमित्यादिना विवक्षितस्य ब्रह्मणो लौकिकसत्याद्विरिनदीसमुद्रादेरधिकमा-
३पन्तिकं सत्यत्वं सूचयितुं नाम निर्दिष्टम् । सर्वनिषेधपक्षे सर्वमप्येतत्कदर्थितं स्यात् ।
स्मान्न ब्रह्म निषिध्यते ” ।
ननु न बिभेति कुतश्चनेति यदुक्तं तदसत् । धर्माधर्मजनितसंतापस्य भयहेतोर्विद्यमा-
नत्वादित्याशङ्कयाऽऽह—
एतꣳ॑ ह वाव॑ न तप॑ति । किमहꣳ॑ साधु॑
नाक॒रव॑म् । किमहं पापमकरव॒मिति॑, इति ।
मरणकाले प्रत्यासन्ने सति सर्वेषां प्राणिनां मनस्येतादृशी चिन्ता संतापं जनयति ।
'दृशी चिन्तेति चेत्तत्साऽभिधीयते—पुरा यौवने देहेन्द्रियादिपाटवे सति द्रव्यादिसाध-
नसंपत्तौ च सत्यामहं साधु स्वर्गलोकादिसाधनं यागदानादिकं पुण्यं कर्म किमिति न
कृतवानस्मि । नरकसाधनं परद्रव्यापहारादिकं पापं कर्म किमिति कृतवानस्मीति ।
सा चिन्ता सर्वेषां संतापहेतुरप्येतं ब्रह्मविदमेकमेव पुरुषं न तपति ।
६५६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [प्रपा०८अनु०२]
न्यायः । शास्त्रदृष्ट्या तयोः पुण्यपापयोः परमात्मस्वरूपत्वमेवानुसंदधाति । न तु
मायाकल्पितं पुण्यपापरूपत्वम् । अस्मिन्नर्थे तत्त्ववित्प्रसिद्धिं दर्शयितुं हिशब्दः प्रयुक्तः ।
यदा ब्रह्मविदः स्वात्मव्यतिरेकेण पूर्वमनुष्ठिते पश्चादनुष्ठास्यमाने च पुण्यपापे स्वरूपेणैव
न स्तस्तदा तच्चिन्ताकृतस्तापो नास्तीति किमु वक्तव्यमित्यभिप्रायः ।
पापराहित्यं चतुर्थाध्यायस्य प्रथमपादे*चिन्तितम्—
“ज्ञानिनः पापलेपोऽस्ति नास्ति वाऽनुपभोगतः ।
अनाश इति शास्त्रेषु घोषाल्लेपोऽस्य विद्यते ॥
अकर्त्रात्मधिया वस्तुमहिम्नैव न लिप्यते ।
अश्लेषनाशावप्युक्तावङ्गे घोषस्तु सार्थकः ॥
“नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि” इति भोगमन्तरेण पापविनाशस्य
सर्वशास्त्रप्रसिद्धत्वाद्ब्रह्मज्ञानिनोऽप्यस्ति पापलेप इति प्राप्ते ब्रूमः—तत्र तावनिर्गुणं ब्र-
ह्यात्मतत्त्वविदः पापलेपशङ्काऽपि नोदेति । नाकार्षं न करोमि न करिष्यामीतिकालत्र-
येऽप्यकर्तृब्रह्मस्वरूपेण निश्चितत्वात् । न ह्यकर्तुर्लेपं च मन्दा अपि शङ्कन्ते । नापि
सगुणब्रह्मविदो लेपोऽस्ति । अश्लेषविनाशयोः श्रुतत्वात् । ब्रह्मसाक्षात्कारादूर्ध्वं देहे-
न्द्रियव्यवहारवशात्संभावितस्य पापस्याश्लेषः श्रूयते—“तद्यथा पुष्करपलाश आपो
न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यते” इति । साक्षात्कारात्पूर्वं तस्मिन्
जन्मनि जन्मान्तरेषु च संचितस्य पापसंघस्य विनाशः श्रूयते—“तद्यथेषीकातूलमग्नौ
प्रोतं च प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते” इति । नाभुक्तमित्यादिशास्त्रं तु
सगुणनिर्गुणब्रह्मज्ञानरहितविषयम् । तस्मान्नास्ति ज्ञानिनः पापलेपः” इति ।
पुण्यराहित्यं च तत्रैव ×चिन्तितम्—
“पुण्येन लिप्यते नो वा लिप्यतेऽसौ श्रुतत्वतः ।
न हि श्रौतेन पुण्येन श्रौतं ज्ञानं विरुध्यते ॥
अलेपो वस्तुसामर्थ्यात्समानः पुण्यपापयोः ।
श्रुतं पुण्यं पापत्या तरणं च समं श्रुतम् ॥
मा भूत्पापलेपः पुण्यलेपस्तु विद्यते । पुण्यस्य श्रौतत्वेन श्रौतब्रह्मज्ञानेन सह विरो-
धाभावादिति प्राप्ते ब्रूमः—अकर्ताऽऽत्मा वस्तुसामर्थ्यात्पापवत्पुण्येन।पि न लिप्यते ।
सगुणज्ञानिनस्तूपासनव्यतिरिक्तं काम्यं पुण्यं पापवदधमजन्मदेहहेतुत्वात्पापं सममेवेति
- तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात्—ब्र० सू० अ० ४ पा० १ अ० ९
सू० १३ । × इतरस्याप्येवमसंश्लेषः पाते तु—ब्र० सू० अ० ४ पा० १ अ० १४ सू० १४ ।
१ ग. पापराहितत्वं । २ ग. घ. °ति पा° । ३ ग. °णब्रह्मवि° । ४ घ. °पमे° ।
वा पाप्मत्वेनैव दहरविद्यावाक्यशेषे श्रुतिः परामृशति—“सर्वे पाप्मानोऽतो निव-
र्त्तन्ते” इति । अस्यायमर्थः । सुकृतं दुष्कृतं तत्फलं च पूर्ववाक्ये यद्यदनुक्रान्तं ते
ऽपि पाप्मानोऽस्मादुपासकान्निवर्त्तन्ते । किंच—“उभे ह्येवैष एते तरति” इति श्रुतिः
पुण्यपापयोरुभयोर्ज्ञानिना तरणं सममेव ब्रूते । तस्मात्पापवत्पुण्येनापि न लिप्यते” ।
प्रारब्धयोरविनाशस्तत्रैव* चिन्तितः--
“आरब्धे नश्यतो नो वा संचिते एव नश्यतः ।
उभयत्राप्यकर्तृत्वं तद्बाधः सदृशः खलु ॥
आदेहपातं संसारश्रुतेरनुभवादपि ।
इषुचक्रादिदृष्टान्तान्नैवाऽऽरब्धे विनश्यतः ॥
ज्ञानात्पूर्वं संचिते पुण्यपापे द्विविधे । आरब्धे अनारब्धे च । तयोरकर्तृत्वमात्मनः
ज्ञानं तद्बाधश्च समः । ततोऽनारब्धवदारब्धयोरपि ज्ञानोदयसमय एव विनाश इति
चेत्, ब्रूमः--श्रुत्यनुभवयुक्तिभ्य आरब्धयोरविनाशो गम्यते “तस्य
६५८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० ८ अनु०१]
अनुषक्तफलांशस्य नाशोऽप्यन्यो न नश्यति ।
विद्यायामुपयुक्तत्वाद्वान्यश्लेषस्तु काम्यवत् ॥
ज्ञानात्पूर्वमिह जन्मनि जन्मान्तरे वाऽनुष्ठितं यदग्निहोत्रादि नित्यं कर्म तस्यापि काम्य-
कर्मवदकर्त्रात्मवस्तुबोधमहिम्ना नाशोऽभ्युपेय इति प्राप्ते ब्रूमः —द्वावंशौ नित्यकर्मण
एकोंऽशः प्राधान्येन चित्तशुद्धिप्रदः । अपरोंऽशोऽनुषङ्गेण स्वर्गादिफलप्रदः । तस्य
नाशोऽस्तु नाम । चित्तशुद्धिप्रदस्य तु विद्यायामुपयुक्तत्वान्न नाशो वर्णयितुं शक्यः ।
न हि लोके भोगैनोपक्षीर्णं व्रीह्यादिकं नष्टं मन्यते । यत्तु ज्ञानादूर्ध्वं नित्यं कर्म तस्य
काम्यवदश्लेषः ” ।
अङ्गावबद्धोपास्तिरहितस्यापि नित्यकर्मणो विद्यायामुपयुक्तत्वं तत्रैव*
कीति प्राप्ते ब्रूमः—य एते त्वयोदाहृताः पुरुषास्ते सर्वे जगन्निर्वाहकारिणः । ते च
पूर्वस्मिन्कल्पे महता तपसा परमेश्वरमुपास्यास्मिन्कल्पे नानादेहोपभोग्यमाधिकारपदं
लेभिरे । क्षीणे च प्रारब्धे कर्मणि मोक्ष्यन्ते । तथाऽनारब्धकर्मणां तत्त्वज्ञानेन दाहस्य
निवारयितुमशक्यत्वात्तत्त्वविदो मुक्तिर्नियतैव ” ।
एतस्यार्थस्याऽऽक्षेपसमाधानरूपा चिन्ता चतुर्थाध्यायस्य* प्रथमपादे कृता —
“ बहुजन्मप्रदारब्धयुक्तानां नास्त्युताऽस्ति मुक् ।
विद्यालोपे कृतं कर्म फलदं तेन नास्ति मुक् ॥
आरब्धं भोजयेदेव न तु विद्यां विलोपयेत् ।
सुप्तबुद्धवदश्लेषात्तादवस्थ्यात्कुतो न मुक् ॥
अधिकारिपुरुषाणां मुक्तिर्नास्ति प्रारब्धभोगाय बहुषु जन्मसु स्वीकृतेषु तत्र पूर्वा-
र्जिताविद्यायां लुप्तायां यत्कर्म क्रियते तस्य फलप्रदत्वे सत्युत्तरोत्तर
६६० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा०८अनु०९
पु॒च्छं द्वावि॑ꣳशति॒रस॑न्ने॒वाष्टावि॑ꣳशति॒रस्त॒षोड॑श भी॒षाऽस्मा॑देक-
प॒ञ्चा॒शद्यतः॑ कु॒तश्चैका॑दश * ।
स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै॑ ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ।
हरिः ॐ ।
- इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमोऽध्यायः
समाप्तः ॥ ८ ॥
ब्रह्मविदामोति परमित्यादि य एवं वेदेत्यन्तेन ग्रन्थेन या प्रतिपादिता से-
मितिशब्देन परामृश्यते । सा चोपनिषद्रहस्यविद्या । उपनिषण्णमस्यां परं श्रेय इ-
त्युत्पत्तेः । तादृशी विद्याऽभिहितेति शेषः ॥
इति श्रीमत्सायणाचार्यविरचिते श्रीबुक्कणसाम्राज्यधुरंधरमाधवविद्यारण्यपरमेश्र्व
*अथ तैत्तिरीयारण्यके नवमप्रपाठकस्याऽऽरम्भः ।
तत्र प्रथमोऽनुवाकः ।
हरिः ॐ ।
सह नौ॑ववतु । स॒ह नौ॑ भुनक्तु । सह वी॒र्यं॑ कर-
वावहै । ते॒ज॒स्वि नाव॑धीतमस्तु॒ मा वि॑द्विषा॒वहै॑ ॥
ॐ शान्तिः॒ शान्तिः शान्तिः॑ ।
भृगु॒र्वै वारु॑णिः । वरु॑णं पि॒तर॒मुप॑ससार । अधी॑हि भगवो॒ ब्रह्मेति॑ ।
द्वितीयानुवाके ब्रह्मविद्या निरूपिता । अथ तृतीयानुवाके तत्साधनानि निरू-
प्यन्ते । यद्यपि सांहित्युपनिषदि बहिरङ्गसाधनानि कर्माण्युपासनानि चाभिहितानि
तथाऽपि विचाररूपमन्तरङ्गसाधनं नोक्तमिति तदत्राभिधीयते । तस्मिन्नभिहिते तद-
ङ्गानि मननादीन्यप्यभिहितानि भविष्यन्ति । तत्राऽऽदौ विद्यास्तुत्यर्थमुपाख्यानमाह—
भृगुरित्यादिना । अस्ति कश्चिन्महर्षिर्भृगुर्नाम गोत्रप्रवर्तकः । वैशब्देन मन्त्रब्राह्मणगता
तत्प्रसिद्धिः स्मर्यते । “भृगूणां त्वाऽङ्गिरसां व्रतपते व्रतेनाऽऽदधामि” इति “भृग्वङ्गि-
रसामादध्यात्” इति हि मन्त्रब्राह्मणे आम्नायते । स च भृगुर्वरुणस्य पुत्रः पितरं
वरुणं गुरुत्वेनोपसन्नवान् । गुरूपसत्तिश्च श्रुत्यन्तरेऽभिहिता—“तद्विज्ञानार्थं स
गुरुमेवाभिगच्छेत्” इति । अधीहीत्यादिगुरूपसत्तिमन्त्रः । हे भगवो भगवन्पूज्यस्वरूप
गुरो ब्रह्माधीहि अधिकं स्मर चित्तेन स्मृत्वोपदिशेत्यर्थः ।
ईदृशानामुपाख्यानानां विद्यास्तुत्यर्थत्वं तृतीयाध्यायस्य चतुर्थपादे+ चिन्तितम्—
“पारिप्लवार्थमाख्यानं किंवा विद्यास्तुतिः स्तुतेः ।
ज्यायोऽनुष्ठानशेषत्वं तेन पारिप्लवार्थता ॥
मनुर्वैवस्वतो राजेत्येवं तत्र विशेषणात् ।
अत्र विद्यैकवाक्यत्वर्भावाद्विद्यास्तुतिर्भवेत् ॥
“अथै ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुः” “जनको ह वैदेह आसांचक्रे” इत्या-
- भाष्यकारमतेनायं नवमप्रपाठको नास्ति किं त्वष्टमस्यैवायं तृतीयोऽनुवाक इतीदमप्यूह्यं
पूर्वपृष्ठोलिखितटिप्पणात् । +पारिप्लवार्था इति चेन्न विशेषितत्वात्—ब्र० सू०अ० ३ पा० ४अ० ४सू०
२३ ।
१ क. ख. ङ. °हित्यामुप° । २ क. ख. ङ. °न्यथो॑दामि° । ३ क. ख. ङ. भवन्ति
६६२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा०९अनु०१]
दिकमुपनिषदि श्रूयमाणमाख्यानं पारिप्लवार्थं भवितुमर्हति । अश्वमेधयागे रात्रिषु राजानं
सकुडुम्बमुपवेश्य तस्याग्रे वैदिकान्युपाख्यानान्यन्यानि पुण्यान्यध्वर्युणा वक्तव्यानि ।
तदिदं पारिप्लवाख्यं कर्म “ पारिप्लवमाचक्षीत ” इतिवाक्येन विहितम् । तदर्थत्वे सत्यौ-
पनिषदाख्यानान्यनुष्ठानायोपयुज्येरन् । ज्यायोऽनुष्ठानं विद्यास्तुतेस्तस्मात्पारिप्लवार्थमिति
प्राप्ते ब्रूमः—प्रथमेऽहनि मनुर्वैवस्वतो राजा द्वितीयेऽहनि यमो वैवस्वतो राजेत्येवमा-
द्याख्यानानां पारिप्लवार्थानां विशोषितत्वादौपनिषदानामाख्यानानां तच्छेषत्वं न संभवति ।
संनिहितविद्यास्तावकत्वे तु विद्यावाक्यैरेकवाक्यता लभ्यते । तस्माद्विद्यास्तावकमाख्यानम्” ।
ब्रह्मबोधद्वारोपदेशं दर्शयति—
तस्मा॑ एत॒त्प्रो॑वाच । अन्नं॑ प्रा॒णं
चक्षुः॒ श्रोत्रं॒ मनो॒ वाच॒मिति॑, इति ।
तस्मै समन्त्रकमुपसन्नाय भृगव एतदन्नादिकं बोधद्वारमुक्तवान् । अन्नमयप्राणमयम-
नोमयानां कोशानामुपादानकारणान्यन्नप्राणमनांसि चक्षुःश्रोत्रवाचोऽपि मनोवद्द्वार-
भूताः । इतिशब्दोऽनुक्तानां त्वगादिज्ञानेन्द्रियाणां पाणिपादादिकर्मेन्द्रियाणां च प्रदर्श-
नार्थः । शाखाग्रे चन्द्र इत्यत्र यथा चन्द्रदर्शने समीपवर्तिनी वृक्षशाखा लक्षकत्वेन द्वारं
तथा गुहाहितब्रह्मदर्शने तदुपलक्षणान्यन्नप्राणादीनि द्वाराणि । तद्द्वारत्वं च बृहदार-
ण्यके विस्पष्टमाम्नातम्—“ प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमुतान्नस्यान्नं
मनसो ये मनो विदुः । ते निचिक्युर्ब्रह्म पुराणमग्र्यम् ” इति । प्राणादिकल्पना-
धिष्ठानतया प्राणादिरूपं ब्रह्म प्राणादिद्वारेण वेदितुं सुशकम् । अहंबुद्धिगम्येष्वन्नप्राणा-
दिषु मध्ये ब्रह्मान्वेष्णीयमित्यभिप्रायः ।
तꣳ हो॑वाच । यतो॒ वा इ॒मानि॒ भूता॑नि
जाय॑न्ते । येन॒ जाता॑नि॒ जीव॑न्ति । यत्प्रय॑न्त्य॒-
भि॒संवि॑शन्ति । तद्विजि॑ज्ञासस्व । तद्ब्रह्मेति॑ ।
अथ ब्रह्मलक्षणस्य तद्बोधहेतोर्विचारस्य चोपदेशं दर्शयति—तꣳ हेत्यादिना ।
द्वारं श्रुत्वाँ तदवबोधायात्यन्तमुत्सुकं तं भृगुमवेक्ष्याऽऽसत्त्वातिशयेन तदीयं४ प्रश्नं विना
स्वयमेव वरुणः पुनरप्युवाच । हशब्द औत्सुक्यप्रसिद्धिद्योतनार्थः । इमान्याकाशादीनि
पञ्च महाभूतानि भौतिकदेहोपेता हिरण्यगर्भादिस्तम्बान्ताः सर्वे प्राणिनश्च यतो वस्तुतो
१ ग. घ. ॰वानां २ ग. घ. ॰क्यैक° । ३ क. ख. छ. ॰र० । १७° । ४ क. ख. ग. छ.
॰दीयप्र० ।
[प्रपा०९अनु०१] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६६३
जायन्ते । वैशब्दः “ स इमाँल्लोकानसृजत ” इत्यादिश्रुत्यन्तरप्रसिद्धद्योतनार्थः ।
उत्पन्नानि च भूतानि येन वस्तुना जीवन्ति स्थितिं लभन्ते । प्रयान्ति नाशं प्रतिपद्य-
मानानि भूतानि यद्वस्त्वभिसंविशन्ति साकल्येन प्रविशन्ति, यथा फेनतरङ्गबुद्बुदादी-
नामुत्पत्तिस्थितिलयाः समुद्रे भवन्ति तद्वत्, जगदुत्पत्तिस्थितिलयकारणं वस्तु विचारय,
तदेव वस्तु त्वया पृष्टं ब्रह्म । इतिशब्द उत्तरसमाप्त्यर्थः ।
विचारकर्तव्यता च प्रथमाध्यायस्य प्रथमपादे* चिन्तिता—
“ अविचार्यं विचार्यं वा ब्रह्माध्यासानिरूपणात् ।
असंदेहाफलत्वाभ्यां न विचारं तदर्हति ॥
असाध्योऽहंबुद्धिसिद्धोऽसङ्गं ब्रह्म श्रुतीरितम् ।
संदेहान्मुक्तिभावाच्च विचार्यं ब्रह्म वेदतः ” ॥ इति ।
“ आत्मा वा अरे द्रष्टव्यः श्रोतव्यः ” [बृह० २ । ४ । ५] इत्यत्राऽऽत्मदर्शनं
फलमुद्दिश्य तत्साधनत्वेन श्रवणं विधीयते । श्रवणं नाम वेदान्तवाक्यानां ब्रह्मणि
तात्पर्यं निर्णतुमनुकूलो न्यायविचारः । तदेतद्विचाराविधायकं वाक्यं विषयः । न चायं
विषयः श्लोकेन संगृहीतः । संदेहसंग्रहेणैवार्थात्तत्संग्रहप्रतीतेः । ब्रह्मविचारात्मकन्या-
यनिर्णायकं शास्त्रमनारभ्यमारभ्यं वेति संदेहः । पूर्वोत्तरपक्षयुक्तिद्वयं सर्वत्र संदेहे
बीजमुन्नेयम् । तत्रानारम्भ्यमिति तावत्प्राप्तम् । विषयप्रयोजनयोरभावात् । संदिग्धं
हि विचारस्य विषयो भवति । ब्रह्म त्वसंदिग्धम् । तथा हि तत्किं ब्रह्माकारेण संदि-
ग्धं आत्माकारेण वा । नाऽऽद्यः । “ सत्यं ज्ञानमनन्तं ब्रह्म ” [तैत्ति० २ । १ । १ ]
त्यादिवाक्येन ब्रह्माकारस्य निश्चयात् । न द्वितीयः । अहंप्रत्ययेनाऽऽकारस्यापि
निश्चयात् । अध्यस्तात्मविषयत्वेन भ्रान्तोऽहंप्रत्यय इति चेन्न, अध्यासानिरूपणात् ।
तमःप्रकाशवद्विरुद्धस्वभावयोर्जडाजडयोर्देहात्मनोः शुक्तिकारजतवदन्योन्यतादात्म्या-
ध्यासो न निरूपयितुं शक्यते । तस्माद्भ्रान्ताभ्यां श्रुत्यहंप्रत्ययाभ्यां निश्चितस्यासंदि-
ग्धत्वान्न विचारस्य विषयोऽस्ति । नापि प्रयोजनं पश्यामः । उक्तप्रकारेण ब्रह्मा-
त्मनि निश्चितेऽपि मुक्त्यदर्शनात् । तस्माद्ब्रह्म न विचारमर्हतीति शास्त्रमनारम्भणीय-
मिति पूर्वपक्षः । अत्रोच्यते—शास्त्रमारम्भणीयं विषयप्रयोजनसद्भावात् । श्रुत्यहंप्र-
त्ययोर्विप्रतिपत्त्या संदिग्धं ब्रह्मात्मवस्तु । “ अयमात्मा ब्रह्म ” [बृह० २ । ५ ।
१९ ] इति श्रुतिरस्सङ्गं ब्रह्माऽऽत्मत्वेनोपदिशति । अहं मनुष्य इत्याद्यहंबुद्धिर्देहा-
दितादात्म्याध्यासेनाऽऽत्मानं गृह्णाति । अध्यासस्य च दुर्निरूपत्वमलंकाराय ।
- अथातो ब्रह्मजिज्ञासा—ब्र० सू० अ० १ पा० १ अ० १ सू० १ ।
६६४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् [प्रपा०९अनु०१]
तस्मात्संदिग्धं वस्तु विषयः । तन्निश्चयेन च मुक्तिलक्षणं प्रयोजनं श्रुत्या विद्वदनुभवेन
च प्रसिद्धम् । तस्माद्वेदान्तवाक्यविचारमुखेन(ण) ब्रह्मणो विचारार्हत्वाच्छास्त्रमारम्भणीय-
मिति सिद्धान्तः ।
विचारो हि लक्षणप्रमाणाभ्यां वस्तुतत्त्वनिर्णयावधिकः । लक्षणं च तत्रैव*
चिन्तितम्—
“लक्षणं ब्रह्मणो नास्ति किंवाऽस्ति नहि विद्यते ।
जन्मादेरन्यनिष्ठत्वात्सत्यादेश्चाप्रसिद्धितः ॥
ब्रह्मनिष्ठं कारणत्वं स्याल्लक्ष्म स्रग्भुजंगवत् ।
लौकिकान्येव सत्यादीन्यखण्डं लक्षयन्ति हि ॥
“यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंवि-
शन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेति” [ तैत्ति० ३ । १ । १ ] इति । “सत्यं ज्ञानम-
नन्तं ब्रह्म” [ तैत्ति० २ । १ । १ ] इति च वाक्यद्वयं विषयः । प्रयन्ति म्रियमा-
णानीत्यर्थः । अत्र श्रूयमाणं ब्रह्मलक्षणं घटते न घटते वेति संशये न घटते । तथा
हि किं जन्मादिकं ब्रह्मलक्षणमुत सत्यादिकम् । नाऽऽद्यः । तस्य जगन्निष्ठत्वेन ब्रह्म-
संबन्धाभावात् । द्वितीयेऽपि लोकप्रसिद्धसत्यज्ञानादिस्वीकारे भिन्नार्थत्वादखण्डं ब्रह्म-
न सिध्येत् । अप्रसिद्धार्थे तु सत्यादेर्लक्षणत्वमयुक्तम् । तस्मात्तटस्थलक्षणं स्वरूपल-
क्षणं च न विद्यते । अत्रोच्यते—जन्मादेरन्यनिष्ठत्वेऽपि तत्कारणत्वं ब्रह्मणि कल्प-
नया संबद्धं तटस्थलक्षणं भविष्यति । यो भुजंगः सा स्रगितिवत् । यज्जगत्का-
रणं तद्ब्रह्मेति कल्पितेनापि वस्तुना लक्षयितुं शक्यत्वात् । भिन्नार्थानामपि पितृसुत-
भ्रातृजामात्रादिशब्दानामेकदेवदत्तपर्यवसायित्वे यथा न विरोधः, तथा लोकसिद्धभि-
न्नार्थवाचिसत्यादिशब्दानामखण्डब्रह्मपर्यवसायित्वे स्वरूपलक्षणसिद्धिरित्युभयमुपपन्नम्”।
तल्लक्षणोपपादनाय वेदकर्तृत्वं तत्रैव+चिन्तितम्—
“न कर्तृ ब्रह्म वेदस्य किंवा कर्तृ न कर्तृ तत् ।
विरूप नित्यया वाचेत्येवं नित्यत्ववर्णनात् ॥
कर्तुर्निःश्वसिताद्युक्तैर्नित्यत्वं पूर्वसाम्यतः ।
सर्वावभासिवेदस्य कर्तृत्वात्सर्वविद्भवेत् ॥
- जन्माद्यस्य यतः—ब्र० सू० अ० १ पा० १ अ० २ सू० २ । + शास्त्रयोनित्वात्—ब्र०
सू० अ० १ पा० १ अ० ३ सू० ३ वर्णकम् १ ।
१ क. ख. ड. स्सिद्धम् । २ घ. ङ. ति वा० । ३ ख ॰शयो न । ४ क. ग. घ. ड.
॰स्य तं ।
उपनिषद्वेद्यत्वं (upaniṣad-vedyatvaṁ) vs उपनिषदेकवेद्यत्वं vs उपनिषद्ध्येयत्वं:
Look at line 19: "तं त्वौपनिषदित्यादौ प्रोक्ता वेदैकमेयता ॥"
Line 21: "पुरुषस्योपनिषद्वेद्यत्वं प्रतीयते" - wait, could the letters be:
उ - प - नि - ष - द्ध्ये - य - त्वं?
Wait, look at the letter:
It's द् (da) combined with ध (dha) = द्ध (ddha), with े (e) = द्धे, then य (ya), then त्वं (tvaṁ).
Wait, द्ध्येयत्वं? Yes, double d: d-dhye-ya-tvaṁ!
Wait, or is it:
द् (d) + घे (ghe)?
Wait, let's look at the letter again:
It has:
ष (ṣa)
then a consonant: it has a round top (द), a bottom loop with a horizontal bar... wait, that's 'द्ये' (dye)!
Wait, if it's 'द्ये' (dye), what is next?
Next is 'य' (ya) with an anusvara? No, next is 'त्वं'!
Wait! Is it "उपनिषद्द्येयत्वं" or "उपनिषद्ध्येयत्व
६६६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा० ९ अनु०१
वेदस्य तु ब्रह्मप्रमाणत्वं तत्रैव* चिन्तितम्-
"वेदान्ताः कर्तृदेवादिपरा ब्रह्मपरा उत ।
अनुष्ठानोपयोगित्वात्कर्त्रादिप्रतिपादकाः ॥
भिन्नप्रकरणालिङ्गषट्काच्च ब्रह्मबोधकाः ।
सति प्रयोजनेऽनर्थहानेऽनुष्ठानतोऽत्र किम् ॥
स्पष्टौ विषयसंदेहौ । जीवप्रकाशकवाक्यानि कर्तृपराणि ब्रह्मप्रकाशकवाक्यानि दे-
तापराणि सृष्टिप्रकाशकवाक्यानि साधनपराणि । तथा सति वेदान्तानामनुष्ठानोपयोगि
भविष्यति । ब्रह्मपरत्वे त्वनुष्ठानासंभवान्निष्प्रयोजनत्वं स्यात् । तस्माद्वेदान्ताः कर्तृदेव-
साधनप्रतिपादकाः । अत्रोच्यते—ब्रह्मपरा वेदान्ताः । कुतः । भिन्नप्रकरणपठितानां ते
कर्त्रादिप्रतिपादकतया कर्मशेषत्वासंभवात्तात्पर्यनिर्णयहेतुलिङ्गषट्केन ब्रह्मपरत्वसंभवाच्च
लिङ्गषट्कं च पूर्वाचार्यैर्निरूपितम्-
"उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् ।
अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये " ॥ इति ।
" सदेव सोम्येदमग्र आसीत् " इत्युपक्रमः । " ऐतदात्म्यमिदं सर्वं तत्सत्यं
आत्मा तत्त्वमसि " इत्युपसंहारः । तयोर्ब्रह्मविषयत्वेनैकरूप्यमेकं लिङ्गम् । असकृ-
त्त्वमसीत्युक्तिरभ्यासः । मानान्तरानवगम्यत्वमपूर्वत्वम् । एकविज्ञानेन सर्ववि-
फलम् । सृष्टिस्थितिमलयप्रवेशनियमनानि पञ्चार्थावादाः । मृदादिदृष्टान्ता उपपत्तय
एतैर्लिङ्गैर्ब्रह्मपरत्त्वं निश्चेयम् ३ । न चानुष्ठानमन्तरेण प्रयोजनाभावः । नायं सर्प इ-
दाविव बोधादनर्थनिवृत्तेः संभवात् ।
वेदान्तानां विधिपरत्वाभावस्तत्रैव + चिन्तितः-
"प्रतिपत्तिं विधित्सन्ति ब्रह्मण्यवसिता उत ।
शास्त्रत्वात्ते विधातारो मननादेश्च कीर्तनात् ॥
नाकर्तृ तन्त्रेऽस्ति विधिः शास्त्रत्वं शंसनादपि ४ ।
मननाँदिः ५ पुरा बोधाद्ब्रह्मण्यवसितास्ततः ।
एकदेशी मन्यते—ब्रह्मपरत्वेऽपि वेदान्ता न ब्रह्मण्येव पर्यवस्यन्ति । किं
- तत्तु समन्वयात्—ब्र० सू० अ० १ पा० १ अ० ४ सू० ४ प्रथमं वर्णकम् १ । + अ०
पा० १ अ० ४ सू० ४ द्वितीयं वर्णकम् ।
१ व. °र्येहे° । २ ग. घ. °राग° । ३ ख. निर्णयम् । ४ घ. शासनादपि । ५ ख. °नादिः !
[प्रपा०९अनु०१] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६६७
पारोक्ष्येण ब्रह्मतत्त्वं प्रतिपाद्य पश्चादपरोक्षप्रतिपत्तिं विदधति । तथा सति वेदान्तानां
शासनाच्छास्त्रत्वमुपपद्यते । किंच “श्रोतव्यः” इति श्रवणं शाब्दज्ञानात्मकं विधाय
“मन्तव्यो निदिध्यासितव्यः” इत्यनुभवात्मकं मननादिकं स्पष्टमेव विधीयते ।
तस्मात्प्रतिपत्तेर्विधातारो वेदान्ता इति प्राप्ते ब्रूमः—न प्रतिपत्तेर्विधिः संभवति । कर्तु-
मकर्तुमन्यथा कर्तुमशक्यत्वेनापुरुषतन्त्रत्वात् । शास्त्रत्वं तु नानुष्ठेयशासनादेव निय-
तम् । सिद्धवस्तुशंसनेनापि तदुपपत्तेः । न चै शाब्दज्ञाने जाते पश्चादनुभवात्मकं मन-
नादिकं विधीयत इति वक्तुं युक्तम् । दशमस्त्वमसीतिवच्छब्दस्यैवापरोक्षानुभवजनक-
त्वेन शाब्दबोधात्पुरैवासंभावनाविपरीतभावनानिवृत्तये व्यापाररूपस्य कर्तृतन्त्रस्य मन-
नादेर्विधानात् । तस्मात्तत्त्वमसीत्यादयो वेदान्ता ब्रह्मण्यवसिताः” इति ।
योऽयं वेदान्तमुखेन ब्रह्मतत्त्वनिर्णयफलको विचारः सोऽयं तद्विजिज्ञासस्वेत्यनेन
वाक्येन विहितः । शाखान्तरेऽप्ययं विधिः श्रूयते—“श्रोतव्यो मन्तव्यो निदिध्या-
सितव्यः” इति । तदर्थ एवं स्मर्यते—
“श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः ।
मत्वा च सततं ध्येय एते दर्शनहेतवः” ॥ इति ।
पुराणेऽपि पठ्यते—
“तत्र तावन्मुनिश्रेष्ठाः श्रवणं नाम केवलम् ।
उपक्रमादिभिर्लिङ्गैः शक्तितात्पर्यनिर्णयः ॥
सर्ववेदान्तवाक्यानामाचार्यमुखतः प्रियात् ।
वाक्यानुग्राहकन्यायशीलनं मननं भवेत् ॥
निदिध्यासनमैकाग्र्यं श्रवणे मननेऽपि च ।
उत्पत्तावन्तरङ्गं हि ज्ञानस्य श्रवणं बुधाः ॥
तटस्थमन्यद्व्यावृत्त्या मननं चिन्तनं तथा ।
इतिकर्तव्यकोटिस्थाः शान्तिदान्त्यादयस्तथा” ॥ इति ।
एतान्येव श्रवणमनननिदिध्यासनानि कहोलब्राह्मणे पाण्डित्यबाल्यमौनशब्दैर्व्यव-
हृत्य विहितानि—“ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् । बाल्यं च पाण्डित्यं
च निर्विद्याथ मुनिर्मौनं च मौनं च निर्विद्याथ ब्राह्मणः” इति । निर्विद्य निःशेषेण
संपाद्यार्थं त्रितयानुष्ठानादूर्ध्वं ब्रह्मस्वरूपत्वाविर्भावान्मुख्यब्राह्मणो भवतीत्यर्थः । अत्र
मननोपयुक्तधीशुद्धिपरेण बाल्यशब्देन मननमुपलक्ष्यते ।
१ ग. 'णं शब्द्' । २ क. तु । ३ क. घ. ङ. शब्दज्ञाने । ४ ख. ॰थ तृतीया॰ ।
६६८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा०९अनु०१]
धीशुद्धिपरत्वं च तृतीयाध्यायस्य चतुर्थपादे* चिन्तितम्—
“बाल्यं वयः कामचारो धीशुद्धिर्वा प्रसिद्धितः ।
वयस्तस्याविधेयत्वात्कामचारोऽस्तु नेतरत् ॥
मननस्योपयुक्तत्वाद्भावशुद्धिर्विवक्षिता ।
अत्यन्तानुपयोगित्वाद्विरुद्धत्वाच्च न द्वयम् ॥
“ बाल्येन तिष्ठासेत् ” इत्यत्र बालस्य भावो बाल्यमिति प्रसिद्ध्या वयो भवेत् ।
अथ तस्य विध्यनर्हत्वम् । तर्हि बालस्य कर्मेति व्युत्पत्त्या कामचारवादादिकमस्तु ।
सर्वथाऽपि न धीशुद्धिर्बाल्यमिति प्राप्ते ब्रूमः—पाण्डित्यमौनाख्ययोः श्रवणनिदिध्या-
सनयोर्मध्ये मननं विधेयत्वेन श्रुत्या विवक्षितम् । तस्य च भावशुद्धिरुपयुक्ता । रागद्वे-
षमानावमानादिदोषग्रस्तत्वेन बहिष्प्रवृत्ति मपरित्यज्य मन्तुमशक्यत्वात् । बालस्य कर्मेति
व्युत्पत्तिस्तु बालेच्छाचारे भावशुद्धौ च समाना । वयःकामचारौ तु मननस्यात्यन्तम-
नुपयुक्तौ प्रत्युत विरोधिनौ मूढस्य बहिष्प्रवृत्तस्य वा मनसो मननविनाशकत्वात् ।
तस्माद्भावशुद्धिरेव बाल्यं नेतरदुभयम् ” ।
मुनित्वस्य विधिकल्पनं तत्रैव+ चिन्तितम्—
“अविधेयं विधेयं वा मौनं किं न विधीयते ।
प्राप्तं पाण्डित्यतो मौनं ज्ञानवाच्युभयं यतः ॥
निरन्तरज्ञाननिष्ठा मौनं पाण्डित्यतः पृथक् ।
विधेयं तद्भेददृष्टिप्राबल्ये तन्निवृत्तये ॥
कहोलब्राह्मणे श्रूयते—“तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्।
बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः ” इति । अस्यायमर्थः । यस्माद्ब्रह्मभावः परमः
पुरुषार्थस्तस्माद्ब्रह्म बुभूषुरुपनिषत्तात्पर्यनिर्णयरूपं पाण्डित्यं निःशेषेण संपाद्य बालव-
त्त्रीरागद्वेषत्वेन युक्तोऽसंभावनानिराकरणाय युक्तीरनुचिन्तयन्नवस्थातुमिच्छेत् । ततः
पाण्डित्यबाल्ये निःशेषेण संपाद्याथ मुनिरिति । तत्र भवेदिति विध्यश्रवणान्मुनित्वं न
विधेयम् । न च विधिः कल्पयितुं शक्यः । पाण्डित्यशब्देन प्राप्तस्य मौनस्यापूर्वार्थ-
त्वाभात् । पण्डितस्य विदुषो भावः । पाण्डित्यमिति ज्ञानवाचकोऽयं शब्दः । तथा
मुनिशब्दोऽपि मन ज्ञान इत्यस्माद्धातोस्तन्निष्पत्तेः । तस्मात्प्राप्तस्य मौनस्य न विधि-
- अनाविष्कुर्वन्नन्वयात्—ब्र०सू० अ० ३ पा० ४ अ० १५ सू० ५० । + सहकार्यन्तरविधिः
पक्षेण तृतीयं तद्वतो विद्यादिवत्—ब्र० सू० अ० ३ पा० ४ अ० १४ सू० ४७ ।
१ ग. ˚त्त्वं तृ॑ । २ ग. ˚ध्याये च॑ । ३ ख. ˚था न॑ । ४ ख. ˚योर्मन॑ । ५ ग. घ.
˚वृत्तिं प॑ । ६ ग. घ ˚स्तु भा॑ । ७ ख तन्न । ८ ग. घ. बःह्येष्वं ।
[प्रपा० ९ अनु० १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६६९
ल्पनमिति प्राप्ते ब्रूमः-पूर्वोक्तस्य पाण्डित्यस्य पुनर्मु्निशब्देनाभिधाने प्रयोजनाभा-
वन्निरन्तरज्ञानानिष्ठापूर्वीर्थो मुनिशब्देन विवक्षितः । ततस्तिष्ठासेदितिपदानुवृत्त्या विधि-
र्गम्यते । अस्ति च ज्ञाननैरन्तर्येण प्रयोजनम् । प्रबलभेदवासनावासितस्य तन्निवृत्त्यर्थ-
वात् । तस्मान्निदिध्यासनात्मकं मौनं विधेयम् ”।
यथोक्तश्रवणाद्यावृत्तिश्चतुर्थाध्यायस्य प्रथमपादे* चिन्तिता-
“श्रवणाद्याः सकृत्कार्या आवृत्त्या वा सकृद्यतः ।
शास्त्रार्थस्तावता सिध्येत्प्रयाजादौ सकृत्कृते ॥
आवृत्त्या दर्शनान्तास्ते तण्डुलान्तावघातवत् ।
दृष्टेऽत्र संभवत्यर्थे नादृष्टं कल्प्यते बुधैः ॥
“सकृत्कृते कृतः शास्त्रार्थः” इतिन्यायेन श्रवणादीनां प्रयाजादिवत्सकृदेवा-
नुष्ठानमिति प्राप्ते ब्रूमः-उक्तन्यायस्यादृष्टफलविषयत्वादत्र ब्रह्मसाक्षात्कारलक्षणस्य
दृष्टफलस्य संभवात् । “दृष्टे संभवत्यदृष्टं न कल्पनीयम्” इतिन्यायेनावघातवत्फल-
सिद्धिपर्यन्तं श्रवणाद्या आवर्तनीयाः” ।
आवृत्तेन विचारादिना यतो वा इत्यादि लक्षणलक्षितं ब्रह्म साक्षात्क्रियते । तस्मिंश्च
लक्षणवाक्ये यत इत्येतस्मिन्पदे यदिध्येततत्प्रातिपदिकं सर्वनामत्वेऽपि जन्मादिसंनिधि-
बलात्तदपेक्षितं कारणत्वं ब्रूते । तत्र पञ्चम्यौ उपादानार्थत्वे निमित्तं ब्रह्मव्यतिरिक्तम-
पेक्षेत । तन्निमित्तार्थत्वे चोपादानापेक्षेति चेन्न । उपादानार्थत्वात् “जनिकर्तुः प्रकृतिः”
“x हेतौ च” इति सूत्रद्वयेनोभयत्र पञ्चमीविधानात् । ननु यतो जायन्ते तद्ब्रह्मेत्येतावत्तैव
लक्षणसिद्धौ स्थितिप्रलयश्रवणं व्यर्थमिति चेन्मैवम् । =कुविन्दवत्केवलं निमित्तत्वं
व्युदासितुं स्थितिहेतुत्वम् । तन्तुसंयोगवत्केवलमसमवायित्वं व्युदासितुं लयहेतुत्वम् ।
ततो जन्मस्थितिलयैर्निमित्तासमवाय्युपादानत्वानि सिध्यन्ति । ननु भूतानामुत्पत्त्यदर्श-
नाद्भौतिकानां भूतकार्यत्वान्न ब्रह्मोपादानमिति चेन्न । भूतोत्पत्तेरागमसिद्धत्वात् ।
अस्ति पृथिवी सन्त्याप इत्येवं भूतानां सदनुरक्तत्वेन प्रतिभासात्सद्वस्तु भूतोपादानम् ।
तच्च वस्तु ब्रह्म । भौतिकोत्पत्तौ भूतानि मृदः पिण्ड इव सतोऽवान्तरावस्थारूपाणि ।
उपादानं तु मृदिव सद्वस्त्वेव । सन्घटः सच्छरीरमित्येवं सदनुरक्तत्वेनैव भौतिकानां
प्रतिभासात् । यथा प्राकृतानां पामराणां दग्भतन्तवनुरक्तस्य पटस्य तन्तव उपादानं
तद्वत् । आकाशाकालादय उत्पद्यन्ते विभक्तत्वादघटशरावादिवत् । इत्येवं तन्नित्यत्व-
- आवृत्तिरसकृदुपदेशात्- ब्र० सू० अ० ४ पा० १ अ० १ सू० १ । × इदं चिन्त्यम् ।
ष्टाध्याय्यां हेतौ चेतिसूत्राद्यनुपलब्धेः । अथवा हेतौ चेतिशब्देन हेतावितिसप्तम्यन्तपदानुवृत्तिमुक्तं
विभाषा गुणेऽस्त्रियामितिसूत्रमुपलक्षणीयम् । = पटकारवत् ।
१ ख. ॰नं दबलम् । भे॰ । २ ग. घ. ॰म्यौ अयो । ३ ग. घ. ॰पेक्षेते ।
६७० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा०९अनु०१]
वादिनं प्रति प्रयोक्तव्यम् । सृज्यस्य सर्वजगतो विचित्रत्वात् । तदन्यथानुपपत्त्या
स्रष्टुर्ब्रह्मणः सर्वज्ञत्वं सर्वशक्तित्वं च सिध्यति । न हि विचित्रप्रासादादिविषयज्ञानश-
क्तिभ्यां विना तन्निर्मातृत्वं कस्यचिदृष्टम् । यद्यपि निरिन्द्रियब्रह्मणः सर्ववस्तुज्ञानका-
रणानि प्रत्यक्षप्रमाणानि न सन्ति तथाऽपि श्रुतियुक्तिभ्यां सर्वज्ञत्वमभ्युपेयम् । “ यः
सर्वज्ञः सर्ववित् ” इति श्रुतिः । युक्तिश्चैवं द्रष्टव्या- सर्वविषयाकारधारिषु मायाप-
रिणामेषु प्रतिबिम्बितं चैतन्यं सर्वानुभव इत्युच्यते । तस्य च विषयैरध्यासिकसंबन्धा-
द्वर्तमानसर्वज्ञानं तावत्सिद्धम् । अतीताविषयाणां तदवच्छिन्नमायावृत्तीनां च निवृत्तौ
तत्संस्कारा अस्मदादिवदतीतविषयाः स्मृतिरूपा मायापरिणामा भवन्ति । तत्प्र-
तिबिम्बितानुभवेनातीतसर्वज्ञानमपि सिध्यति । तथा सृष्टेः प्रागपि स्रक्ष्यमाणपदार्थविष-
रगस्य कुलालादिषु दृष्टत्वादागामि सर्वज्ञानमपि स्वमायापरिणामवशात्सिध्यति । तस्मा-
युक्तं सर्वज्ञत्वम् । सर्वशक्तयश्च श्रुतिस्मृतिप्रसिद्धाः । “ पराऽस्य शक्तिर्विविधा ”
इति श्रुतिः ।
“शक्तयः सर्वभावानामचिन्त्यज्ञानगोचराः ।
यतो हि ब्रह्मणस्तास्तु सर्गाद्या भावशक्तयः ” ॥ इति स्मृतिः।
ईदृशस्य सर्वशक्तेर्ब्रह्मणे जगज्जन्मादिकारणत्वं लक्षणम् । जन्मादेर्जगन्निष्ठत्वेऽपि
तत्प्रतियोगिकस्य कारणत्वस्य ब्रह्मणि वर्तमानतया लक्षणत्वं संभवति । न च
क्रियावेशात्मकत्वरूपस्य कारणतया लक्षणतया प्रकृष्टप्रकाशश्चन्द्र इत्यादाविव लक्ष्य-
स्वरूपान्तर्भावे ब्रह्मणः कूटस्थत्वस्य हीयेतेति वाच्यम् । काकाश्रयत्ववदौपाधिकत्वेन तट-
स्थत्वात् । काकवन्तो देवदत्तस्य गृहा इत्यत्र काकाधिकरणत्वं न गृहेऽन्तर्भवति ।
काकाविगमेऽपि गृहैकदेशभङ्गबुद्ध्यभावात् । अतो गृहस्य काकावस्थानौपाधिकधर्मत्वा-
त्काकाधिकरणत्वं यथा तटस्थलक्षणं तथा जन्माद्युपाधिकधर्मकारणत्वं तटस्थलक्ष-
णम् । तस्य च लक्षणस्य मिथ्यात्वान्नाद्वैतहानिः । यः सर्पः स रज्जुर्र्दददं रजतं सा
शुक्तिरित्यत्र मिथ्याभूतोऽपि सर्पो रजतं चाऽऽध्यासिकसंबन्धवशाद्यथा रज्जोलर्क्षणं तथा
कारणत्वमपि लक्षणं भविष्यति । कारणत्वेऽपि ब्रह्मणोऽधिष्ठानमात्रत्वाद्विकारांशे मायाया
एव प्रयोजकत्वान्नासङ्गत्वहानिः । सर्वस्मिञ्जगति सत्तास्फूर्त्याकारे ब्रह्मणोऽनुगत-
त्वाद्विक्रियमाणत्वाकारेण मायाया अप्यनुगतत्वादुभयं मिलित्वोपादानम् । तत्र
गुणप्राधान्यविवेके विवक्षानुसारण द्विसूत्रन्यायो वा शक्तिशक्तिमन्न्यायो वाऽधिष्ठा-
नारोप्यन्यायो वा योजनीयः । यथा सूत्रद्वयनिर्मितरज्जुवा संयुक्तं सूत्रद्वयं समप्रधा-
नभावेनोपादानं तथा जगतो ब्रह्म माया चेत्युभयप्राधान्यं केचिदाहुः । अन्ये त्वेवं
मन्यन्ते--यथा शक्तिमानग्निर्दहतीत्यत्र शक्तेर्दाहनिर्वाहकत्वेऽपि शक्तिमत्पारतन्त्र्या-
१ ख. श्रुतेः । २ ख. ॰धारिषु । ३ ग ॰क्तिम' । ४ ख. 'मत. स्वातं' ।
[प्रपा०९अनु०१] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६७१
द्वयोः प्राधान्यं तथा मायायाः शक्तित्वेनोपसर्जनत्वाच्छक्तिमतो ब्रह्मण एव प्राधान्य-
मिति । अपरे त्वेवमाहुः—यथा रज्जुव्यतिरेकेण सर्पस्य शरीराभावेऽपि भ्रान्तिकाल
रज्जुतिरस्कारेण व्यवह्रियमाणतया सर्पप्राधान्यं तथा मायायाः प्राधान्यमिति ।
स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके नवमप्रपाठके
प्रथमोऽनुवाकः ॥ १ ॥
अथ द्वितीयोऽनुवाकः ।
अन्नं॒ ब्रह्मेति॒ व्य॑जानात् । अन्ना॒द्ध्ये॑व खल्वि॒-
मानि॑ भू॒तानि॒ जाय॑न्ते । अन्ने॑न जा॒तानि॑
जीव॑न्ति । अन्नं॒ प्रय॑न्त्य॒भिसंवि॑शन्तीति॑ ।
सर्वथाऽपि श्रूयमाणं जगत्कारणत्वं मायाविशिष्टस्य ब्रह्मण उपपन्नम् । जगत्का-
रणत्वरूपेण तटस्थलक्षणेनोपलक्षितस्य ब्रह्मणो विज्ञाने विचारः साधनमित्येवं श्रुतवतो
भृगोः प्रथमपर्याये संपन्नं निश्चयं दर्शयति—स तप इत्यादिना । तपःशब्देनाऽऽ-
श्रमचतुष्टयधर्मो विवक्षितः । तस्य ब्रह्मज्ञानहेतुत्वात् । अनाश्रमिधर्मस्य जपादेरपि
तद्धेतुत्वं यद्यपि निर्णीतं तथाऽप्याश्रमिणां धर्मोऽतिप्रशस्तः । तथा च बादरायणेन
सूत्रितम्--“ अतस्त्वितरज्ज्यायो लिङ्गाच्च ” ( ब्र० सू० अ० ३ पा० ४ सू० ३९)
इति । आश्रमधर्मेऽपि तपःशब्दः श्रुतिस्मृत्योः प्रयुज्यते । “ तपो हि स्वाध्यायः ”
इति ब्रह्मचारिधर्मः । “ एतत्खलु वाव तप इत्याहुर्यः स्वं ददाति ” इति गृहस्थधर्मः ।
“ तपो नानशनात्परम् ” इति वानस्थधर्मः ।
“मनसश्चेन्द्रियाणां च ह्येकाग्र्यं परमं तपः ।
तज्ज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्यते” ॥ इति यतिधर्मः ।
तत्र स्वाध्यायेन ब्रह्मावबोधे प्रमाणं संपादितं भवति । दानेन विविदिषोत्पद्यते ।
“विविदिषन्ति यज्ञेन दानेन ” इति श्रुतेः । अनशनस्येन्द्रियदर्पनिवारकत्वं प्रसि-
द्धम् । एकाग्र्यस्य साक्षादेव ज्ञानहेतुत्वं “ दृश्यते त्वग्र्यया बुद्ध्या ” इत्याम्नातम् ।
अतः स भृगुः स्वाध्यायपूर्वकमेकाग्र्यरूपं तपः कृतवान् । तेनैकाग्र्येण युक्तो विचार्य
जगज्जन्मस्थितिलयहेतुत्वलक्षणयोजनेनान्नस्य ब्रह्मत्वं निश्चितवान् । भूतशब्देन स्थूल-
देहा विवक्षिताः । तेषामन्नादुत्पत्तौ लोकप्रसिद्ध्योतनाय हिशब्दः । गर्भाशयस्थिता-
न्नरसात्मकत्वेन शुक्रशोणितव्यतिरिक्तं कारणं व्यावर्तयितुमेवकारः । “ अन्नात्पुरुषः ”
इत्यादिश्रौतप्रसिद्धयर्थः खलुशब्दः । यद्यप्याकाशादिभूतानि स्वरूपेणान्नान्नोत्पद्यन्ते
१