सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 642, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 642

*चतुर्थाधिकरणमारचयति—
“वियदादिस्वरूपत्वं तत्साम्यं वाऽवरोहिणः ।
वायुभूत्वेत्यादिवाक्यात्तत्तद्भावं प्रपद्यते ॥
खवत्सौक्ष्म्ये वायुवशो युक्तो धूमादिभिर्भवेत् ।
अन्यस्यान्यस्वरूपत्वं न मुख्यमुपपद्यते ॥
स्वर्गादवरोहप्रकार एवं श्रूयते—“अथैतमेवाध्वानं पुनर्निवर्तन्ते । यथेतमाकाशमा-
काशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽभ्रं भवति । अभ्रं भूत्वा मेघो भवति मेघो
भूत्वा प्रवर्षति” इति । यथेतं यथा गतं तथेत्यर्थः । तत्र स्वर्गादवरोहतो जीवस्याऽऽ-
काशादिस्वरूपत्वं भवति । वायुर्भूत्वेत्यादिना तत्तद्भावप्रतिपत्तेः श्रुतत्वादिति प्राप्ते
ब्रूमः—अन्यस्यान्यरूपत्वासंभवादाकाशप्राप्तिर्नामाऽऽकाशवत्सौक्ष्म्यं विवक्षितम् । वायु-
भावो वायुवशता । धूमादिभावो धूमादिभिः संपर्क इति निर्णयः” ।
+पञ्चमाधिकरणमारचयति—
“व्रीह्यादेः प्राग्विलम्बेन त्वरया वाऽवरोहति ।
तत्रानियम एव स्यान्नियामकविवर्जनात् ॥
दुःखं व्रीह्यादिनिर्गममिति तत्र विशेषितम् ।
विलम्बस्तेन पूर्वत्र त्वराऽर्थादवसीयते ॥
प्रवर्षणादनन्तरं व्रीह्यादिभाव आम्नायते—“त इह व्रीहियवा ओषधिवनस्पतय-
स्तिलमाषा जायन्ते” इति । प्रागेतस्माद्व्रीह्यादिभावादाकाशादौ विलम्बत्वरयोर्निया-
मकत्वाभावादनियम इति प्राप्ते ब्रूमः—व्रीह्यादिभावमभिधायानन्तरम्—“अतो वै
खलु दुर्निष्प्रपतरम्” इति व्रीह्यादिभावान्निर्गमनं दुःखमिति ब्रुवती श्रुतिर्व्रीह्यादौ विलम्बं
विशेषयति । ततोऽर्थात्पूर्वत्र त्वरेत्यवसीयते” ।
*षष्ठाधिकरणमारचयति--
“व्रीह्यादौ जन्म तेषां स्यात्संश्लेषो वा जनिर्भवेत् ।
जायन्त इति मुख्यत्वात्पशुहिंसादिपापतः ॥
वैधान्न पापसंश्लेषः कर्मव्यापृत्यनुक्तितः ।
श्वविप्रादौ मुख्यजनौ चरणव्यापृतिः श्रुता ॥

  • साभाव्यापत्तिरुपपत्तेः—ब्र० सू० अ० ३ पा० १ अ० ४ सू० २२ । + नातिचिरेण विशे-
    षात्—ब्र० सू० अ० ३ पा० १ अ० ५ सू० ६ । *अन्याधिष्ठिते पूर्ववदभिलापात्—ब्र० सू० अ० ३
    पा० १ अ० ६ सू० २४ ।
    १ ग. ˚ह ए' । २ ग. अत्र । ३ ग. ˚न्यस्वरू' । ४ घ. ˚यतिरिति । ५ घ. दुःखकमि˚ ।
    ६ घ. विनिष्क्रमनं । ७ घ. ˚त्पूर्व त्व˚ ।