तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
DevanagariSanskritpublished914 पृष्ठ
पृष्ठ 641, कुल 914 में से
संदर्भ में पढ़ेंपृष्ठ 641६३६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [प्रपा०८अनु०१]
६३६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [प्रपा०८अनु०१]
कर्मसमूहः संपातमतिक्रम्य यावत्संपातं निःशेषं कर्मफलं भोक्तुं तत्रोषित्वेत्यर्थः ।
तस्मात्कर्मशेषरहितोऽवरोहतीति प्राप्ते ब्रूमः—स्वर्गार्थमनुष्ठितस्य कर्मणः साकल्येनोप-
भोगेऽप्यनुपभुक्तानि संचितानि पुण्यपापानि बहून्यस्य विद्यन्ते । अन्यथा सद्यःसमुत्प-
न्नस्य बालस्येह जन्मन्सननुष्ठितयोर्धर्माधर्मयोरभावात्सुखदुःखोपभोगो न स्यात् । यदत्र
कैश्चिदुच्यते—एकस्मिन्जन्मन्सनुष्ठितः कर्मसमूह उत्तरस्मिन्नेकस्मिन्नेव जन्मन्युपभोगेन
क्षीयत इति । तदसत् । इन्द्रादिपदप्रापकाणामश्वमेधादीनां विडूवराहादिदेहप्रापकाणां
पापानां च युगपदुपभोगासंभवेनैकभाविकः कर्मानुशय इतिमतस्य विरुद्धत्वात् । ततश्चै-
कस्मिन्जन्मन्सनुष्ठितानां मध्ये ज्योतिष्टोमादिकर्मणि भुक्तेऽपि कुतो न कर्मान्तराण्यव-
शिष्येरन् । यावत्संपातशब्दश्च स्वर्गप्रदकर्मविषयो न त्वितरकर्मविषयः । श्रुतिश्च
स्वर्गादवरुह्य पञ्चम्यामाहुतौ शरीरं गृह्णतां पुरुषाणां च तद्धेत्वोः पुण्यपापयोः सद्भावं
दर्शयति—“य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन्ब्राह्म-
णयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वा । अथ य इह कपूयचरणा अभ्याशो ह
यत्ते कपूयां योनिमापद्येरञ्श्वयोनिं वा सूकरयोनिं वा चाण्डालयोनिं वा ” इति । रम-
णीयचरणाः सुकृतकर्माणः कपूयचरणाः पापकर्माणः । अभ्याशो ह यदित्यव्ययसमुदा-
यस्य क्षिप्रत्वमर्थः । तदेवं सानुशया अवरोहन्तीति स्थितम्” ।
✽तृतीयाधिकरणमारचयति—
“चन्द्रं याति न वा पापी ते सर्व इति वाक्यतः ।
पञ्चमाहुतिलाभार्थे भोगाभावेऽपि यात्यसौ ॥
भोगार्थमेव गमनमाहुतिर्व्यभिचारिणी ।
सर्वश्रुतिः सुकृतिनां याम्ये पापिगतिः श्रुता ॥
“ये १ वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति” इति श्रवणाच्चान्द्र-
मसारूख्ये स्वर्गे पापिनोऽपि गतिरस्ति। यद्यपि पापिनस्तत्र भोगो न संभवति तथाऽपि
पुनरागत्य शरीरग्रहणे पञ्चमाहुतिलाभाय स्वर्गगतिरभ्युपेयेति प्राप्ते ब्रूमः—भोगार्थमेव
स्वर्गगमनं न पञ्चमाहुतिलाभार्थं पञ्चमाहुतेर्व्यभिचारित्वाद्द्रोणादीनां योषिदाहुतेरभावा-
त्सीतादीनां पुरुषाहुतेरप्यभावात् । “ते सर्वे” इति श्रुतिस्तु सुकृतिविषया । पापिनां तु
यमलोके गतिः श्रुता—“वैवस्वतꣳ संगमनं जनानां यमꣳ राजानꣳ हविषा दुवस्यत”
इति । पा²पिजनैर्गन्तव्यं यमं प्रीणयतेत्यर्थः । तस्मान्न पापिनां स्वर्गे गतिः ”।
✽ अनिष्टादिकारिणामपि च श्रुतम्—ब्र ० सू० अ० ३ पा० १ अ० ३ सू० १२ ।
१ व. ये के । २ क. ग. °दापज° ।