तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 652, कुल 914 में से
संदर्भ में पढ़ें[प्रपा० ८ अनु० २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६६७
[..]पाटवलक्षणसिद्धयुपेतः । समृद्धो विद्यादिगुणसंपन्नः । एतच्छब्देनानन्तरग्रन्थे वक्ष्य-
माणतां दर्शयति । किमयं ब्रह्मानन्दो लौकिकानन्दवद्विषयविषयिसंबन्धेन जन्यत आहो-
स्वित्स्वाभाविक इत्येषा मीमांसा प्रवर्तते ।
तत्र स्वाभाविकं ब्रह्मानन्दं विवेक्तुं द्वारभूता अन्ये विषयानन्दाः क्रमेणोपन्यस्यन्ते ।
एतेषां ब्रह्मानन्दलेशात्त्वान्निश्चयद्वारत्वमुपपन्नम् । तल्लेशत्वं चैवं द्रष्टव्यम् । अविद्यया
विवेके तिरस्क्रियमाणे सत्युत्कृष्यमाणायां चाविद्यायां हिरण्यगर्भमारभ्य मनुष्यपर्यन्तेषु
जीवेषु ब्रह्मानन्दस्तत्तत्कर्मवशाद्विषयादिसाधनसंबन्धवशाच्च यथाविज्ञानं भाव्यमानतयाऽ-
पचीयमाणश्चञ्चलो व्यवस्थितो लौकिकः संपद्यते । स एव पुनरविद्याकामकर्मप्रक्षयेण
मनुष्यगन्धर्वादिषु हिरण्यगर्भपर्यन्तमुत्तरोत्तरभूमिषु शतगुणोत्कर्षयुक्तोऽकामहतविद्वच्छ्रो-
त्रियप्रत्यक्षो विभाव्यते । विद्यया त्वाविद्याकृते विषयविषयिविभागे निवृत्ते सति स्वाभा-
विकः परिपूर्ण एक एवाऽऽत्मानन्दोऽवतिष्ठते । तस्य द्वारभूतेषु विषयानन्देष्वस्मत्प्रसिद्ध-
मानन्दमादौ तावद्दर्शयति—
यु॒वा स्या॑त्साधुयु॑वाऽध्या॒यकः॑ । आशि॑ष्ठो द्रढि॑ष्ठो ब॒लिष्ठः॑ । तस्ये॒यं
पृथि॒वी सर्वा॑ वि॒त्तस्य॑ पू॒र्णा स्यात्॑ । स एको॒ मानु॑ष आ॒नन्दः॑, इति ।
मनुष्यस्य बाल्ये विषयगुणानभिज्ञत्वात्स्वक्चन्दनवनितादिविषयानन्दो नास्ति ।
वार्धके तदभिज्ञत्वेऽपि भोक्तुमसमर्थत्वादसौ नास्ति । अतो यौवनमेव परिशिष्यत इत्य-
भिप्रेत्य युवा स्यादित्युक्तम् । यौवनेऽपि कुरूपत्वक्रोधादिग्रस्तस्य दुःखबाहुल्यात्तद्वा-
रणाय साधुयुवेत्युच्यते । तादृशस्यापि चतुःषष्टिकलासु चतुर्दशविद्यास्वेकस्या अप्यभावे
दुःखं भवेदिति तद्व्यावृत्त्यर्थमध्यायक इत्युक्तम् । विद्यावतोऽपि कार्येषु मन्दप्रवृत्तेरग्निमा-
न्द्यादिना भोजनादौ रुचिहीनस्य वा सुखं न भवतीति तन्निवृत्त्यर्थमाशिष्ठ इत्युक्तम् ।
आशुतमः सर्वकार्येषु शीघ्रं प्रवर्तत इत्यर्थः । यद्वा सर्वेषु भोज्यद्रव्येषु रुचिबाहुल्ये-
नाऽऽशितुतमः । ईदृशस्यापि मनोदार्ढ्याभावे सति न युद्धादौ धृतिः स्यादिति तद्वा-
रणाय द्रढिष्ठ इत्युक्तम् । धैर्ययुक्तोऽपि शारीरबलहीनोऽश्वारोहणादावक्षमः स्यादिति
निवारयितुं बलिष्ठ इत्युक्तम् । एतावत्ता भोक्तृत्वसंपत्तिरुक्ता । तस्येयमिति भोग्यसंपत्ति-
रुच्यते । चतुर्दिक्षु समुद्रवेष्टिता या पृथिवी सा सर्वाऽपि वित्तस्य पूर्णा भोग्यद्रव्य-
त्वेन पूरिता । एतच्चान्येषामधिपतिरित्यादिकस्य श्रुत्यन्तरोक्तस्योपलक्षणम् । यदि
कश्चित्सार्वभौमस्यैतत्सर्वं संभवेत्तदानीमयं मानुष आनन्दो भवति । इतोऽर्वाची-
नास्तु दुःखमिश्रत्वादानन्दा एव न संभवन्ति । न खलु कश्चिदपि मनुष्यो यथोक्तसा-
१ घ. ॰ह्वत्तन्नि॰ । २ क. ङ 'लोऽप' । ३ ख. 'पक्रो' । ४ ख. 'यासु चैक॰ ।
५. तद्धारणाय ।