सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 639, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 639

ज्ञया साधारणप्रवर्तकत्वेऽपि न वैषम्यम् । पूर्वकृतकर्मणां वासनानां च वैषम्यहेतुत्वात् ।
कर्मणां फलहेतुत्वमेव न कर्मान्तरहेतुत्वमिति चेत् । सत्यम् । सुखदुःखरूपस्य फलस्य
प्रदानाय जीवं व्यापारयत्कर्मार्थात्कर्मान्तरमपि निष्पादयतीति दुर्वारं हेतुत्वम् । वास-
नानां तु साक्षादेव कर्महेतुत्वम् । तथा चेश्वरस्य कुतो वैषम्यप्रसङ्गः । यत्तु रागस्य प्रव-
र्तकत्वदर्शनमुदाहृतं तत्तथैवास्तु नैतावतेश्वरस्य प्रवर्तकत्वहानिः । सर्वान्तर्यामिणेश्वरेण
रागस्यापि नियम्यमानत्वात् । तस्मादीश्वरो जीवस्य प्रवर्तकः ” ।

  • सप्तदशाधिकरणमारचयति—
    “किं जीवेश्वरसांकर्यं व्यवस्था वा श्रुतिद्वयात् ।
    अभेदभेदविषयात्सांकर्यं न निवार्यते ॥
    अंशोऽवच्छिन्न आभास इत्यौपाधिककल्पनैः ।
    जीवेशयोर्व्यवस्था स्याज्जीवानां च परस्परम् ॥

तत्त्वमस्यादिश्रुतिर्जीवेशयोरभेदं प्रतिपादयति । आत्मा द्रष्टव्य इत्यादिना द्रष्टृद्रष्टव्य-
रूपेण भेदः प्रतीयते । तथा च सति भेदश्रुतिबलात्तावज्जीवो नास्तीत्यपलपितुमशक्यम् ।
अभेदश्रुत्या चेश्वरात्पृथक्त्वेन व्यवस्थापयितुं न शक्यते । तस्माद्विद्यमानस्य जीवस्ये-
श्वरेण सांकर्यं दुर्वारम् । परस्परं च जीवानामीश्वराभेदद्वारा सांकर्यमानुषङ्गिकम् । तस्मा-
द्ब्रह्मवादिनो न जीवेश्वरव्यवस्थेति प्राप्ते ब्रूमः-- यद्यपि गोमहिषवज्जीवेश्वरयोरत्यन्तं भेदो
वास्तवो नास्ति तथाऽपि व्यवहारदशायामुपाधिकल्पितं भेदमाश्रित्य शास्त्राणि त्रेधा
जीवं निरूपयन्ति । “ममैवांशो जीवलोके जीवभूतः सनातनः” इत्यंशत्वमवगम्यते ।
“स समानः सन्नुभौ लोकावनुसंचरति” इति श्रुतौ विज्ञानमयस्य जीवस्य विज्ञानशब्द-
वाच्यया बुद्ध्या समानपरिमाणनिर्देशाद्घटाकाशवदवच्छिन्नत्वं प्रतीयते ।
“ एक एव तु भूतात्मा भूते भूते व्यवस्थितः ।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ” ॥
इत्याभासत्वमवगम्यते । तस्मात्सुलभैव ब्रह्मवादिनो जीवेश्वरव्यवस्था । जीवानां
च परस्परमनेकजलपात्रस्थबहुसूर्यप्रतिबिम्बवद्व्यवहारव्यवस्था सुतरामुपपद्यते । तस्मान्न
कोऽपि दोष इति सिद्धम् ” ।

  • अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके—ब्र० सू० अ० २ पा०३
    अ० १७ सू० ४३ ।
    १ घ. 'रं तद्धेतु' । २ ख. 'द्य हे' । ३ क. ग. ङ. 'त्तथाऽस्तु' ४ घ. 'स्तु न तां' ।
    ५ क. ग. ङ. 'त्यन्तभे' । ६ घ. इत्येवमंशं ।