तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
व्याहृतिध्यानमन्तरेणापि ब्रह्मोपासनासिद्धेः फलायैव व्याहृतिध्यानमुच्यत इति नार्थवाद-
त्वम् । तस्मादङ्गाङ्गिभावेनैकोपासनत्वं युक्तम् । न चानेनैव न्यायेन सप्तमानुवाको-
क्तस्य पृथिव्यन्तरिक्षाद्यात्मकब्रह्मोपासनस्यापि पूर्वेण सहैकत्वं शङ्कनीयम् । शाण्डिल्याद-
हरादिन्यायेन पृथगुपासनत्वात् । स च न्यायरतृतीयाध्यायस्य तृतीयपादे*चिन्तितः—
“ न भिन्ना उत भिद्यन्ते शाण्डिल्यदहरादयः ।
समस्तोपासनश्रैष्ठ्याद्ब्रह्मैक्यात्स्यादभिन्नता ॥
कृत्स्नोपास्तेरशक्यत्वादद्गुणैर्वेद्यपृथक्त्वतः ।
दहरादीनि भिद्यन्ते पृथक्पृथगुपक्रमात् ॥
छान्दोग्ये दहरविद्या शाण्डिल्यविद्या मधुविद्येत्यादयः पठिताः । तथा शाखान्तरे-
ष्वपि । तत्र पूर्वाधिकरणन्यायेन समस्तोपासनस्य श्रेष्ठत्वाद्ध्येयस्य ब्रह्मण एकत्वाच्च सर्वा-
सामकविद्यात्वमिति प्राप्ते ब्रूमः — अनन्तासु विद्यास्वेकीकरणेनानुष्ठानं तावदशक्यमिति
विद्याभेदोऽप्यवगन्तव्यः । न च वेद्यस्य ब्रह्मण एकत्वं शङ्कनीयं गुणभेदेन व्यवस्थोप-
पत्तेः । न चैकैकस्या विद्याया इयत्ता निश्चेतुमशक्या प्रत्येकमुपक्रमोपसंहारयोस्तन्निश्चाय-
कत्वात् । तस्माद्विद्यानां नानात्वम् ” ।
एवमुपासनयोर्भेदे सत्येकमेवानुष्ठेयं न तूभयम् । एतदपि तत्रैव + चिन्तितम्—
“ अहंग्रहेष्वनियमो विकल्पनियमोऽथ वा ।
नियामकस्याभावेन यथाकाम्यं प्रतीयताम् ॥
ईशसाक्षात्कृतेस्त्वेकविद्ययैव प्रसिद्धितः ।
अन्यानर्थक्यविक्षेपौ विकल्पस्य नियामकौ ॥
द्विविधान्युपासनान्यहंग्रहाणि प्रतीकानि चेति । आत्मनः सगुणोपासनेष्वहंग्रहस्य
चतुर्थाध्याये वक्ष्यमाणत्वात्तान्यहंग्रहाणि । अनात्मवस्तूनि देवतादृष्ट्या संस्कृत्योपास्य-
मानानि प्रतीकानि । तत्राहंग्रहेषु शाण्डिल्याद्युपासनेष्वेकं द्वे बहूनि वोपासनानि
यथाकाम्येनानुष्ठेयानि विकल्पस्य नियामकाभावात् । न हि शाण्डिल्योपासनं दहरो-
पासनमन्यद्वैकमेवानुष्ठेयं नेतरदिति विकल्पानियमे किंचित्कारणमस्ति । तस्माद्यथाका-
म्यमिति प्राप्ते ब्रूमः — अन्यानर्थक्यं तावदेकं नियामकम् । तथाहीश्वरसाक्षात्कार उपा-
सनस्य प्रयोजनं तच्चैकेनैवोपासनेन सिध्यति चेदन्योपासनवैयर्थ्यम् । किंचोपासनेषु ३
प्रमाणजन्यः साक्षात्कारः । किं तर्हि निरन्तरभावनया ध्येयतादात्म्याभिमानः । ५
- नाना शब्दादिभेदात् । अ० ३ पा० ३ अ० ३३ सू० ५८ । + विकल्पोऽ
विशिष्टफलत्वात् । अ० ३ पा० ३ अ० ३४ सू० ५९ ।
१ क. ग. घ. ङ. ंत्र स । २ क. ख. ङ. 'गुणत्वोपा' । ३ ख. 'सनस्य न । ४ ख
°जन्यसा° । ५ घ. स एवाभिं° ।
प्रपा० ७ अनु० ६] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ५१५
त्राभिमान एकमुपासनमनुष्ठाय तत्परित्यज्यान्यत्र वर्तमानस्य पुरुषस्य चित्तविक्षेपे १ कथं
नाम दृढौ भवेत् । तस्मादानर्थक्यविक्षेपयोर्नियामकत्वाद्विकल्पो नियम्यते” ।
ब्रह्मतत्त्वविद्यायामिव ब्रह्मोपासनेऽप्यहंग्रहः कर्तव्यः । तत्त्वविद्यायामहंग्रहश्चतुर्था-
ध्यायस्य प्रथमपादे * चिन्तितः—
“ज्ञात्रा स्वान्यतया ब्रह्म ग्राह्यमात्मतयाऽथ वा ।
अन्यत्वेन विजानीयाद्दुःख्यदुःखिविरोधतः ॥
औपाधिको विरोधोऽत आत्मत्वेनैव गृह्यते ।
गृह्णन्त्येवं महावाक्यैः स्वशिष्यान्ग्राहयन्त्यपि ॥
यच्छास्त्रप्रतिपाद्यं ब्रह्म तज्जीवेन ज्ञात्रा स्वव्यतिरिक्ततया ग्रहीतव्यम् । दुःख्यदुः-
खिनोर्जीवब्रह्मणोरेकत्वविरोधादिति प्राप्ते ब्रूमः—“वस्तुतो ब्रह्मरूपस्यैव सतो जीवस्या-
न्तःकरणोपाधिकृतो दुःखित्वादिसंसारधर्मः ।” इति वियत्पादे [ ब्र० सू० अ० २
पा० ३ ] जीवविचारे प्रपञ्चितम् । अतो वास्तवविरोधाभावादात्मत्वेनैव ब्रह्म गृह्य-
ताम् । अत एव “ अहं ब्रह्मास्मि ” “ अयमात्मा ब्रह्म ” इत्यादिमहावाक्यैस्तत्त्वविद्
आत्मत्वेनैव ब्रह्म गृह्णन्ति । तथा तत्त्वमस्यादिभिर्महावाक्यैः स्वशिष्यान्ग्राहयन्त्यपि ।
तस्मादात्मत्वेनैव ब्रह्म ग्रहीतव्यम् ” ।
एवं सति मनोमयोऽमृतो हिरण्मयः परमात्माऽहमित्युपासनीयम् । मनोमयस्य पर-
मात्मत्वं शाण्डिल्यविद्योदाहरणेन प्रथमाध्यायस्य द्वितीयपादे + चिन्तितम्—
“मनोमयोऽयं शारीर ईशो वा प्राणमानसे ।
हृदयस्थित्यणीयस्त्वे जीवे स्युस्तेन जीवगीः ॥
शमवाक्यगतं ब्रह्म तद्धितादिरपेक्षते ।
प्राणादियोगश्चिन्ताथैश्चिन्त्यं ब्रह्म प्रसिद्धितः ॥
छान्दोग्यस्य तृतीयाध्याये शाण्डिल्यविद्यायामिदमाम्नायते—“ मनोमयः प्राण-
शरीरो भारूपः ” इति । तत्र जीव ईशो वेति संदेहे जीव इति प्राप्तम् । मनःसंब-
न्धादीनां जीवे सुसं२वादात् । मनसो विकारो मनोमय इति मनःसंबन्धः । प्राणः
शरीरमस्येति प्राणसंबन्धः । न चेदं द्वयमीश्वरे सुसं३वादम् । “ अप्राणो ह्यमनाः शुभ्रः”
ति निषेधात् । तथा “ एष म आत्माऽन्तर्हृदयेऽणीयान् ” इति श्रूयमाणं हृदये४ऽव-
स्थानमणीयस्त्वं च निराधारस्य सर्वगतस्य न कथंचिदप्युपपद्यते । तस्माज्जीव
- आत्मेति तूपगच्छन्ति ग्राहयन्ति च । अ० ४ पा० १ अ० २ सू० ३ ।
- सर्वत्र प्रसिद्धोपदेशात् । अ० १ पा० २ अ० १ सू० १ ।
१ ख. ॰क्षेपात्कथं । २ घ. ॰संपाद॰ । ३ घ संपाद॰ । ४ क. ख. ङ. ॰येऽन्तस्था॰ ।
"? No:
उपसर्जनान्युपास्यान्यभिधाय!
Wait, is that a 'न्य'?
Look at "न्य" in "छान्दोग्यस्य" vs "उपास्यानि":
In "मनोमयत्वविशेषणेन", in "तान्युपास्यानि", the ligature 'न्य' has 'न' on the left and 'य' on the right!
In line 21: between 'स्या' and 'भि', there is:
a 'न' + 'य'? Wait, look at the shape:
It has a loop on the left ('न'), attached to a vertical stroke with a curve at the bottom ('य')? No, it's 'न्य'!
Wait, why did I think there was a 'व'? Because of the loop. But 'न' has a loop!
So it is: न्य!
Wait, let's re-read: "उपसर्जन्नान्युपास्यान्यभिधाय" or "उपसर्जनान्युपास्यान्यभिधाय"?
Let's look at the letter after 'र्ज':
It is 'ना' or 'न'?
It has: a vertical bar! So 'ना'. But wait, is there a horizontal bar connecting to the next letter?
Look at 'ज': repha is on 'ज'. After 'ज' is a 'न' with a vertical bar: 'ना'.
Then 'न्यु' (n-yu).
So
' or 'तस्यर्क्सामार्यशेष'. It is indeed 'तस्यर्क्सामार्थशेषजगदात्मकत्वमु-'.
Let's check line 1:
"ईश्वरो भवेत् । कुतः । सर्वात्मत्वश्रवणात् । “ सैवर्गृक्तसाम तदुक्थं तद्यजुस्तद्ब्रह्म ”"
Wait, in line 1:
“ सैवर्गृक्तसाम ” -> wait, is it “ सैवर्गृक्तसाम ” or “ सैवर्गृक्तत्साम ”?
Look at line 1:
“ सै व र्गृ क्त सा म
Wait, 'सैवर्गृक्तसाम' - wait, is there a 'त्'?
Look at 'क्त': क + त = क्त.
Before 'सा': is there a 'त्'?
No, it's just 'क्त'!
Wait, look at 'सैवर्गृक्त':
स + ै = सै
व + र् = र्व
गृ + क्त = गृक्त?
Wait, "सैवर्क् तत् साम"!
In the print: "सैवर्गृक्तसाम" - wait, 'सैवर्गृ'? No, 'सैवर्ग्'?
Look at the character after 'सै':
व + repha = र्व.
Then: 'क्' + 'त'?
Wait, Chandogya 1.7.5 is: "सैवर्क् तत्साम तदुक्थं तद्यजुस्तद्ब्रह्म".
In sandhi:
५१८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०७अनु०१]
तद्भावभावितः" इत्याह । कथं तर्हि ज्योतिष्टोमादिकर्मणा स्वर्गं गच्छतोऽन्त्यप्रत्ययः,
कर्मजन्यापूर्वादिति ब्रूमः । उपासनेऽप्यपूर्वमस्तीति चेद्बाढम् । नैतावता निरन्तरावृत्ति-
लक्षणो दृष्टोपायः परित्यज्यो भवति । अन्यथा सर्वस्य सुखदुःखादेरपूर्वजन्यत्वेन भोज-
नाद्यर्थो दृष्टः प्रयत्नः परित्यज्येत । ततो दृष्टोपायत्वादा मरणमावर्तनं कर्तव्यम्" ।
तथाविधावृत्तियुक्तस्योपासकस्योत्क्रान्तौ विशेषश्चतुर्थाध्यायस्य द्वितीयपादे
- चिन्तितः—
"अविशेषो विशेषो वा स्यादुत्क्रान्तेरुपासितुः ।
हृत्प्रद्योतनसाम्योक्तेरविशेषोऽन्यनिर्गमात् ॥
मूर्धन्ययैव नाड्याऽसौ व्रजेन्नाडीविचिन्तनात् ।
विद्यासामर्थ्यतश्चेति विशेषोऽस्त्यन्यनिर्गमात् ॥
उपासकस्य येयमुत्क्रान्तिः सेयमितरोत्क्रान्त्या मार्गोपक्रमपर्यन्तं समेत्युक्तम् ।
अथ मार्गोपक्रमेऽपि समैव भवितुमर्हति हृत्प्रद्योतनादेः समत्वश्रवणात् । तथा हि—
"तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुषो वा
मूर्ध्नो वाऽन्येभ्यो वा शरीरदेशेभ्यः" इति श्रूयते । अयमर्थः । वाङ्मनसि संपद्यत
इति क्रमेण सजीवं लिङ्गशरीरं शक्त्यवशेषं परमात्मनि यदा लीयते तदा पूर्वजन्म
समाप्तं भवति । अथ जन्मान्तराय तल्लिङ्गं पुनहृदये प्रादुर्भवति । तस्मिन्नवसरे हृदया-
ग्रेऽवस्थितस्य लिङ्गस्य गन्तव्यभाविजन्मालोचनात्मकोऽन्त्यप्रत्ययत्वेन लोके प्रसिद्धः
कश्चित्प्रद्योतो भवति तेन युक्तः सन्नाडीभ्यो निर्गच्छतीति । एतच्च सर्वेषां समानम् ।
तस्मान्नोपासकस्येतरेभ्यो विशेष इति प्राप्ते ब्रूमः—मूर्धन्ययैव नाड्योपासको निर्गच्छ-
तीतराभ्य एव नाडीभ्य इतरे । कुतः । उपासकेन मूर्धन्यनाड्याश्चिन्तितत्वात्सगुणब्रह्म-
विद्यासामर्थ्याच्च । श्रुत्यन्तरे चायमर्थः स्पष्टमवगम्यते —
"शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका ।
तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति" इति ॥
अन्या नाड्य उत्क्रमणाय युज्यन्ते न त्वमृतत्वप्राप्तय इत्यर्थः । तस्मादस्त्युपास-
कस्य विशेषः" ।
अस्मान्मूर्धन्यनाडीनिष्क्रमणरूपाद्विशेषात्प्राचीनो योऽयमुत्क्रान्तिप्रकारस्तत्र शाखा-
न्तरवाक्योदाहरणेन पञ्च विचाराः प्रवृत्ताः । तद्वाक्यं च च्छन्दोगैराम्ना-
यते—"अस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि संपद्यते । मनः प्राणे । प्राण- - तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च
हार्दानुगृहीतः शताधिकया । अ० ४ पा० २ अ० ९ सू० १७ ।
१ ख. ॰साम्ये को विशेषोऽन्यस्य नि॑ि॰ । २ घ. अश्याय॑ ।
]माशङ्क्य-> actually[व]माशङ्क्य? In L26 end: संनिवेशऽसंभ-In L27 start:वमाशङ्क्य(व + म + ा + श + ङ् + क्य = वमाशङ्क्य, meaning संभवाभावमाशङ्क्य? Ah,[म]ाशङ्क्यor[व]माशङ्क्य? It looks like [स]ंभवमाशङ्क्य-> end of L26 isसंनिवेशऽसंभ-, start of L27 is वमाशङ्क्य! The वis partially cut:[व]माशङ्क्य`).
Wait, look at L27: वायुप्रक्तेन - is there a footnote marker? No, but footnote 3 clearly says: ३ क. ग. घ. ङ. ‘प्रो’ । Wait, looking at L27: वायुप्रक्तेन - the प्र might be what is corrected to प्रो.
And footnote lines:
१ ख. ॰प्रल’ । २ क ख ङ. ‘स्य त्वात्म’ । ३ क. ग. घ. ङ. ‘प्रो’ ।
Looks solid and very precise.[प्रपा ० ७ अनु ० ६] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ५१९
त्तेजसि । तेजः परस्यां देवतायाम्
णलोकस्याऽऽगन्तूनामन्ते^१ संनिवेश इति न्यायेनेन्द्रप्रजापतिलोकयोर्वरुणलोकादूर्ध्वं संनिवेश
इत्युक्तम् । सोऽयं पञ्चमः । तस्मिन्मार्गे श्रुतानामर्चिरादीनां मार्गचिह्नत्वं भोगभूमित्वं च
निराकृत्याऽऽतिवाहिकदेवत्वमुक्तम् । सोऽयं षष्ठः । एतैः षड्भिर्विचारैर्निर्णीतो यो मार्ग-
स्तस्य मार्गस्य ब्रह्मतत्त्वावबोधब्रह्मोपासनयोः साधारणत्वमाशङ्क्योपासनविषय एवायं
मार्ग इति निर्णीतम् । उपासनेष्वपि यत्र मार्गश्रवणं तत्रैवेत्याशङ्क्य सर्वोपासनसाधारणत्वं
मार्गस्य निर्णीतम् । तेन मार्गेणोपासकस्य ब्रह्मप्राप्तिर्भवति । “तत्पुरुषोऽमानवः स ऐना-
न्ब्रह्म^३ गमयति” इत्यमानवेन विद्युल्लोकवर्तिना पुरुषेण ब्रह्मप्रापणस्योक्तत्वात् । तत्र परब्र-
ह्मैव प्राप्यमित्याशङ्क्य परब्रह्मणि गत्यसंभवाल्लोकविशेषरूपं कार्यमेव ब्रह्मोपासके-
प्राप्यमिति निर्णीतम् । एवं कार्यब्रह्मलोकप्राप्तिः प्रतीकोपासकानामप्यस्तीत्याशङ्क्य
ब्रह्मोपासकानामेव नेतरेषामिति निर्णीतम् । योऽयमर्चिरादिमार्गेण प्राप्यो ब्रह्मलोकः स
एव “भूरित्यग्नौ प्रतितिष्ठति” इत्यारभ्य “विज्ञानपतिः” इत्यन्तया श्रुत्या प्रपञ्च्यते ।
तत्र ब्रह्मलोकप्राप्तौ सत्यां व्यष्ट्यभिमानः समष्ट्यभिमानश्चेत्युभयं संपद्यते । तयोर्मध्ये
व्यष्ट्यभिमानेनाग्निव्वाय्वादित्यादिदेवतानां तादात्म्यं प्राप्य तदीयेष्वैश्वर्येषु प्रतितिष्ठति ।
समष्ट्यभिमानेन तु भूलोकाद्यधिष्ठातृ^४ब्रह्मरूपो भूत्वा स्वाराज्यमाप्नोति । तथाविधब्रह्मरू-
पत्वसिद्धयर्थमेव ब्रह्मलोकगामिनं योगिनं प्रति कौषीतकिनः पर्यङ्कविद्यायामेवमामन-
न्ति—“तं पञ्च शतान्यप्सरसां प्रतिधावन्ति शतं चामरहस्ताः^५ शतं माल्यहस्ताः शतं
माञ्जनहस्ताः^६ शतं वासोहस्ताः शतं फलहस्तास्तं^७ ब्रह्मालंकारेणालं कुर्वन्ति । स ब्रह्मालं-
कारेणालंकृतो ब्रह्म विद्वान्ब्रह्मैवाभिप्रेति” इति । तदिदं ब्रह्मप्राप्तिलक्षणं स्वाराज्यमे-
विविच्य चतुर्भिर्विचारैर्निर्णीतम् । ब्रह्मलोकवासिनो योगिनो भोग्यवस्तुसंपादने मनुष्यलो-
कवासिवद्वाह्यसाधनापेक्षितामित्याशङ्क्य संकल्पमात्रस्य तत्सा[ध]नत्वं निर्णीतम् । सोऽ
प्रथमो विचारः । तस्य संकल्पमात्रेण भोग्यजातं सृष्टवतो योगिनो भोगाधिष्ठान-
देहस्य भावाभावौ श्रुतिद्वयप्रोक्तौ पुरुषभेदेन व्यवस्थितावित्याशङ्क्यैकस्यैव पुरुषस्ये-
च्छिकौ देहभावाभावाविति निर्णीतम् । सोऽयं द्वितीयः । यदाऽयं यो-
स्वेच्छया युगपदेव बहून्देहान्सृजति तदानीं तेष्वेक एव देहो जीवात्मोपेत इतरे
तद्रहिता इत्याशङ्क्यैकस्य चित्तानुवर्तिभिः पृथगेव जीवात्माभिरुपेतास्ते सर्वे देहा इ-
निर्णीतम् । सोऽयं तृतीयः । तस्य योगिनो भोग्यवस्तुदेहजीवात्मनां सृष्टिः संकल्प-
मात्रेण यथा भवति तथैवाऽऽकाशादिपञ्चमहाभूतानां भौतिकस्य ब्रह्माण्डादेर्जगत-
सृष्टिः स्यादित्याशङ्कयानादेर्नित्यसिद्धस्य परमेश्वरस्यैव जगत्स्रष्टृत्वं न तु योगिन इ-
निर्णीतम् । सोऽयं चतुर्थः । तैरेतैश्चतुर्भिर्विचारैर्निर्णीतं^८ स्वाराज्यं प्राप्तवतो योगि-
१ ख. ङ. ॰गन्तुकानां । २ क. ख. घ. ङ. ॰न्ते नि० । ३ ख. ग. एतान्ब्र० । ४ ॰विधाधिष्ठातृम्० । ५ क ग. घ चूर्णहस्ताः । ६ ख. ॰तमज्ज० । ७ ग. ॰तं स्वर्णह० । ८ ख ॰ञ्चतुर्भिभिः ।
स्तस्मिन्नेतद्ब्रह्मलोके निर्गुणब्रह्मतत्त्वसाक्षात्कारे सति ब्रह्मलोकस्यावसाने विदेहकैवल्यं भव-
तीति। अयमर्थ एतत्ततो भवतीत्यादिना समाम्नातः। एतदेवाभिप्रेत्य भगवता व्यासे-
नापि सूत्रितम्— “कार्यात्यये तदध्यक्षेण सहातः परमभिधानात्” [ ब्र० सू० अ० ४
पा० ३ सू० १० ] इति । कार्यस्य ब्रह्मलोकस्यात्यये प्रलये सत्यत ऊर्ध्वं तल्लोकाध्यक्षेण
चतुर्मुखेन ब्रह्मणा सह परं ब्रह्म प्राप्नोतीति श्रुतिस्मृत्योस्तथाऽभिधानात् ।
“वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः ।
ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे” ॥ इति श्रुतिः ।
“ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे ।
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्” ॥ इति स्मृतिः ।
तदेवं ब्रह्मोपासकस्य ब्रह्मलोकप्राप्तिपूर्विका क्रममुक्तिर्भवतीति स्थितम् ॥
इति श्रीमत्सायणाचार्यविरचिते श्रीबुक्कणसाम्राज्यधुरंधरमाधवविद्यारण्यपरमे-
श्वरसंबन्धिवेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये सप्तम-
प्रपाठके सांहित्यामुपनिषदि षष्ठोऽनुवाकः ॥ ६ ॥
════════════════════════════════════════════════
अथ सप्तमे सप्तमोऽनुवाकः ।
───────────────────────────
षष्ठेऽनुवाके मनोमयत्वादिगुणविशिष्टस्य ब्रह्मण उपासनमुक्तम् । तस्य ब्रह्मणश्चक्षुर्ग-
म्यगुणविशेषाभावेनोत्तमाधिकारिविषयत्वान्मन्दाधिकारिणं प्रति चक्षुर्गम्यगुणोपेतब्रह्मोपासनं
सप्तमेऽनुवाकेऽभिधीयते । तत्र प्रथममाधिभौतिकं गुणपञ्चकत्रयं दर्शयति- -
पृ॒थि॒व्य॑न्तरि॑क्षं द्यौर्दिशो॑ऽवान्तरदि॒शाः । अ॒ग्निर्वा॒-
युरा॑दि॒त्यश्च॒न्द्रमा॒ नक्ष॑त्राणि । आप॒ ओष॑धयो॒ वन॒-
स्पत॑य आका॒श आ॒त्मा । इत्य॑धिभू॒तम्, इति ।
पृथिव्यादिकं लोकपञ्चकम् । अग्न्यादिकं देवतापञ्चकम् । आप इत्यादिकं³
द्रव्यपञ्चकम् । तत्राऽऽत्मशब्देन समष्टिरूपो विराट्पुरुष उच्यते । इत्येवमुक्तं पञ्च-
कत्रयमाधिभूतम् । अहंप्रत्ययग्राह्येभ्यो वक्ष्यमाणेभ्यः प्राणादिभ्यो व्यतिरिक्तानीदंप्रत्यय
वक्ष्यमाणेनासंकीर्णत्वायोक्तं विभज्य प्रतिज्ञापुरःसरमन्यत्पञ्चकत्रयं दर्शयति—
अथाध्यात्मम् । प्रा॒णो व्या॒नोऽपा॒न उदा॑नः समा॑नः । चक्षुः॒
श्रोत्रं॒ मनो॒ वाक्त्वक् । चर्म॑ मा॒ꣳस॒ꣳ स्नावास्थि॑ म॒ज्जा, इति ।
अथ भूतविषयपञ्चकत्रयकथनानन्तरमध्यात्ममात्मविषयपञ्चकत्रयमभिधीयत इति
शेषः । यस्मिन्देहेन्द्रियादिसंघाते शास्त्रसंस्काररहितस्य जनस्याहमिति बुद्धिः सोऽयं
लोकप्रसिद्ध आत्मा तमधिकृत्य यदुपासनं वर्तते तदध्यात्मम् । देहमध्यवर्तिन एकत्र्यैव
वायोः प्राणादयः पञ्च वृत्तिभेदाः । अत एव प्राणविचारे भगवता व्यासेन सूत्रितम्-
“पञ्चवृत्तिर्मनोवद्व्यपदिश्यते” [ ब्र० सू० अ० २ पा० ४ सू० १२ ] इति । तासां
च वृत्तीनां स्थानभेदः पूर्वैरुदाहृतः—
“हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः ।
उदानः कण्ठदेशे स्याद्व्यानः सर्वशरीरगः ” ॥ इति ।
तदेतद्वायुपञ्चकम् । चक्षुरादिकमिन्द्रियपञ्चकम् । चर्मादि धातुपञ्चकम् । स्नावश-
ब्देन वसाऽभिधीयते । यदेतदधिभूतपञ्चकत्रयं यच्चाध्यात्मपञ्चकत्रयं तेनोभयेन ब्रह्म-
उपाधिभूतं कृत्स्नं जगदभिधीयते । तदेतज्जगदुपाधिविशिष्टं ब्रह्मस्वरूपमुपासितव्यम् ।
अथार्थवादेनोपास्तौ विधिमुन्नयति—
ए॒तद॑धि॒विधाय॒ ऋषिरवो॑चत् । पाङ्क्तं॒ वा इ॒दꣳ
सर्व॑म् । पाङ्क्ते॑नै॒व पाङ्क्तं॑ स्पृणोतीति॑ ( १ ), इति ।
सर्व॑मे॒कं च॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके
सप्तमोऽनुवाकः ॥ ७ ॥
ऋषिरतीन्द्रियस्य शास्त्रार्थस्य द्रष्टा कश्चिन्मुनिरेतत्पृथिव्यन्तरिक्षादिकमुपास्यस्य
रूपमधिविधायाधिकं साक्षात्कारपर्यन्तं यथा भवति तथोपास्य स्वानुभवेन सर्वात्म-
विराड्रूपं प्राप्य स्वानुभवसिद्धमर्थं शिष्येभ्यः प्रोक्तवान् । किमुक्तवानिति तदभिधीयते—
इदं प्रतीयमानं सर्वं जगद्विराड्रूपं पाङ्क्तं पङ्क्तिच्छन्दसः संबन्धि । वैशब्देन तत्प्रसि-
द्धिरुच्यते । प्रसिद्धमेतत्सर्वस्य पाङ्क्तत्वम् । तथा हि—“पञ्चाक्षरा पङ्क्तिः” इति
श्रुत्या पङ्क्तिश्छन्दः पञ्चसंख्योपेतम् । तथा जगदपि पञ्चसंख्योपेतम् । पञ्चीकृतानि
महाभूतानि तत्कार्यं च सर्वं विराडित्युच्यत इति संप्रदायविद्भिरभिधानात् । त-
१ क. स. ङ. °नुभावे ।
[प्र० ७ अनु० ८] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ५२३
[इ]ति जगतः पङ्क्तिच्छन्दसा सह सादृश्यलक्षणस्य संबन्धस्य विद्यमानत्वात्पाङ्क्तत्वम् ।
[य]था पृथिव्याद्युपासनमपि पञ्चकैरुपेतत्वात्पाङ्क्तम् । तेन पाङ्क्तेनैवोपासनेन पाङ्क्तं
[वि]राड्रूपमुपासकः स्पृणोति प्रीणयति प्राप्नोतीत्यर्थः । एतेनार्थवादेन पाङ्क्तरूपविराट्-
[प्रा]प्तिकाम एवमुपासीतेति विधिरुन्नीयते । सत्यां च विराट्प्राप्तौ तत्त्वज्ञानोत्पत्तिद्वारा
[क्रम]मुक्तिः पूर्वोक्तन्यायेनावगन्तव्या ॥
इति श्रीमत्सायणाचार्यविरचिते श्रीबुक्कणसाम्राज्यधुरंधरमाधवविद्यारण्यपरमे-
श्वरसंबन्धिवेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये सप्तम-
प्रपाठके सांहित्यामुपनिषदि सप्तमोऽनुवाकः ॥ ७ ॥
अथ सप्तमेऽष्टमोऽनुवाकः ।
सप्तमे स्थूलदर्शिनो मन्दस्य स्थूलरूपपृथिव्याद्युपाधिकब्रह्मोपासनमुक्तम् । पूर्वस्मिन्न-
नुवाके षष्ठे किंचित्सूक्ष्मदर्शिनो मध्यमस्य सूक्ष्मरूपमनआद्युपाधिकब्रह्मोपासनमुक्तम् ।
अथोत्तमाधिकारिणोऽष्टमानुवाके वेदान्तप्रतिपाद्यप्रणवाभिधेयशुद्धब्रह्मोपासनमुच्यते । तत्रो-
पास्यस्वरूपं दर्शयति—
ओमिति॒ ब्रह्म॑, इति ।
ओंकारः परमात्मनो वाचकः । तथा च पतञ्जलिप्रोक्तं योगसूत्रं पूर्वमेवोदाहृ-
तम्—‘‘तस्य वाचकः प्रणवः’’ इति । इतिशब्दोऽर्थान्तरव्यावृत्त्यर्थः । ओमित्यनेनैव
शब्देन प्रतिपाद्यं यद्ब्रह्म तदेवात्रोपास्यं वस्तु । न ह्यत्र मनआद्युपाधि पृथिव्याद्युपाधि
वा चिन्तनीयम् । वाचकमोंकारमुच्चारयन्वाच्यं ब्रह्मोपासीतेत्यर्थः ।
ओंकारस्य ब्रह्मवाचकत्वयोग्यतां दर्शयति--
ओमिती॒दꣳ सर्व॑म्, इति ।
ओमित्येतस्मिन्नेवाक्षरे शब्दरूपमर्थरूपं चेदं सर्वं जगदन्तर्भूतम् । तद्यथा शङ्कुने-
त्यादिश्रुत्या शब्दान्तर्भाव आम्नातः । तस्य वाक्तन्तिरित्यादिश्रुत्या शब्दद्वारेणार्था-
न्तर्भावोऽप्याम्नातः । एतच्च सर्वं यच्छन्दसामृषभ इत्यत्र विश्वरूपपदव्याख्याने प्रपञ्चि-
तम् । तथा सति प्रणवस्य सर्वात्मकत्वेन सर्वात्मकब्रह्मवाचकत्वयोग्यता संभवति ।
ओंकारस्य सर्वसंबन्धं केषुचिद्वैदिकव्यवहारेषूदाहृत्य दर्शयति—
ओमित्ये॒तद॑नु॒कृति॑र्ह॒ स्म वा अप्यो॒ श्रावय॒त्याश्रा॑वयन्ति । ओमिति॑
सामा॑नि गायन्ति । ओꣳ शोमिति॑ शस्त्रा॑णि शꣳसन्ति । ओमि-
१ घ. न त्वत्र ।
? Wait, look at तै: it has an e-matra तेand a dot? No,तै. It says तैदिदमित्येतदनुकृति(orतदिदमित्येतदनुकृति). Let's look closely: the letter is तैorते॑? It has two strokes above त: तैदिदमित्येतदनुकृतिorते दिदमित्येतदनुकृति. Wait, उच्चारिते तदिदमित्येतदनुकृति! If line 9 ends with तद्यस्मिन्नुच्चार-, then तेwas combined:तैis a typo in the book forते! Wait, let's transcribe faithfully what is printed: तैदिदमित्येतदनुकृति ।`
Let's check line 10:
तैदिदमित्येतदनुकृति । प्रसिद्धद्योतनार्था ह स्म वा इति त्रयो निपाताः । प्र
(At end of line 10: । प्र or । प्रण? It is । प्र)
Line 11:
णवभागसादृश्यमोकारे प्रसिद्धमित्यर्थः । अपिशब्दो वक्ष्यमाणोदाहरणसमुच्चयार्थः
Wait, at end of line 11: समुच्चयार्थः or समुच्चयार्थः ।?
There is a colon-like visarga समुच्चयार्थः and
[प्रपा०७ अनु०८] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ४२५
प्रेक्षित्येवं प्रणवपुरःसरमेव प्रसौति प्रेरयति । अग्निहोत्रहोमेऽध्वर्युर्होमिद्रव्यं क्षीरं तत्पा-
त्रादग्निहोत्रहवणीनामके पात्रे यदा स्रुवेणोन्नयति तदानीमोमुन्नेष्यामि हव्यं देवेभ्यं
त्यादिमन्त्रेण यजमानं प्रत्यनुज्ञां याचते । स च यजमान ॐकारेणानुज्ञां प्रयच्छति ।
तथा च सूत्रकार आह—"ओमुन्नयेत्युच्चैरनुजानाति" इति । तथा ब्रह्मयज्ञं चिकी-
र्षुब्राह्मणो ब्रह्मयज्ञात्मकस्य प्रवचनस्याऽऽदौ प्रणवं प्रयुङ्क्ते । तथा च ब्रह्मयज्ञप्रक-
रणे समाम्नातम् —"दक्षिणोत्तरौ पाणी पादौ कृत्वा सपवित्रावोमिति प्रतिपद्यते "
इति । प्रतिपद्यते ब्रह्मयज्ञं प्रारभत इत्यर्थः ।
तदेवं वैदिकैरुदाहरणैरोंकारव्याप्तिः प्रपञ्चिता । अथ फलकथनव्याजेनोपासनवि-
धिमुन्नयति—
ब्रह्मोपा॑प्नवानीति॑ । ब्रह्मैवोपा॑प्नोति ( १ ), इति ।
ओं दश ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठकेऽ-
ष्टमोऽनुवाकः ॥ ८ ॥
यः पुमान्ब्रह्म प्राप्नुवानीति कामयते स पुमानोमित्यनेन शब्देन वाच्यं ब्रह्मो-
पासीत तेनोपासनेन ब्रह्म प्राप्नोत्येव ।
अथ मीमांसा—अत्रैतच्चिन्तनीयम् । ओमिति ब्रह्मेतिवाक्ये किमोङ्कारे प्रतीके
ब्रह्मदृष्टिविधीयते किं वोपास्यं ब्रह्मोमित्यनेन विशेषणेन विशेष्यत इति । तत्र य ओमिति
शब्दस्तद्ब्रह्मेत्येवमोंकारप्रतीकमाधारत्वेनोद्दिश्य तत्र ब्रह्मदृष्टिविधीयते । तथा सत्युद्देश्य-
विधेययोः क्रमनिर्देशस्योपपन्नत्वादिति प्राप्ते ब्रूमः—उद्गीथन्यायेनात्रोंकारस्य विशे-
षणत्वं द्रष्टव्यम् । स च न्यायस्तृतीयाध्यायस्य तृतीयपादे * दर्शितः—
" किमध्यसोऽथ वा बाध ऐक्यं वाऽथ विशेष्यता ।
अक्षरस्यात्र नास्त्येकं नियतं हेत्वभावतः ॥
वेदेषु व्याप्त ओंकार उद्गीथेन विशेष्यते ।
अध्यासादौ फलं कल्प्यं संनिकृष्टांशलक्षणा ॥
" ओमित्येतदक्षरमुद्गीथमुपासीत " इत्यक्षरोद्गीथयोः सामानाधिकरण्यं श्रूयते । तत्र
चतुर्धा संशयः । तथा हि—" नाम ब्रह्मेत्युपासीत " इत्यत्र नामनि ब्रह्मदृष्ट्यध्यासाय
सामानाधिकरण्यं श्रुतम् । तथा बाधादिष्वप्युदाह्रियते—"यश्चोरः स स्थाणुः " इति
चोरत्वस्य बाधः । "यो जीवस्तद्ब्रह्म" इत्येकत्वम् । "यन्नीलं तदुत्पलम् " इति विशे-
- व्याप्तेश्च समञ्जसम् । अ० ३ पा० ३ अ० ४ सू० ९ ।
१ क. घ. 'प्नोती' । २ ग. 'न्ब्रह्मोपाप्नु' ।
ष्यता । अतोऽक्षरस्य चतुर्धा संदेहे सतीदमेवेत्यध्यवसायो नास्ति नियामकस्य हेतो-
रभावादिति प्राप्ते ब्रूमः—अक्षरस्योद्गीथेन विशेष्यता नियन्तुं शक्यते । ओंकार
ऋग्यजुःसामसु त्रिषु पठ्यते । तत्र कस्योपास्यत्वमित्यपेक्षायामुद्गीथभागगतस्य न
त्वितरस्येति सामवेदगतस्य विशेषणीयत्वात् । अध्यासबाधैक्यपक्षेषु फलमपि कल्पनीयं
प्रसज्येत । स्वतन्त्रोपासनत्वेन फलस्याऽऽकाङ्क्षितत्वात् । विशेषणपक्षे तु वक्ष्यमाणर-
सतमत्वादिगुणोपासनाय प्रतीकत्वेनौकार उद्गीथेन विशेष्यते न तु स्वतन्त्रमुपासनम् ।
तदा न पृथक्कल्पनीयं फलम् । ननूद्गीथशब्दः कृत्स्नभक्तिवाचकः । ओंकारस्तु तदवयवः।
अत ओंकारं विशेषयितुमुद्गीथशब्दे तदंशलक्षणा स्वीकारणीया स्यात् । बाढम् । तथाऽ-
प्यध्यासपक्षात्समीचीनो विशेषणपक्षः । अध्यासपक्षे तु यथा विष्णुशब्दः स्वार्थं सर्वं
परित्यज्यार्थान्तरभूतां शिल्पिप्रतिमां लक्षयति तथोद्गीथशब्दोऽपीति विप्रकर्षः । अंश-
लक्षणायां तु स्वार्थैकदेशस्यैव परित्याग इति संनिकर्षः । ओंकारादितरदक्षरजातं यदस्ति
सोऽयं परित्यक्तव्यस्तदेकदेशः । तस्माद्वेदान्तरगतोंकारव्यावृत्त्यर्थमुद्गीथावयवत्वेनेदम-
क्षरं विशेष्यते ।
अनेन न्यायेनात्रापि ब्रह्मशब्देन मनोमयत्वादिगुणं पृथिव्यादिगुणं शुद्धं चेति
त्रिविधब्रह्मप्राप्तौ सत्यां सगुणत्वं व्यावृत्य शुद्धब्रह्मसमर्पणार्थमोमिति विशेषणम् । ओमि-
त्यनेनैव वाचकेन शब्देन वाच्यं यत्परं ब्रह्म तदुपासितव्यमित्युक्तं भवति । प्रती-
कपक्षे त्वोंकारस्य शब्दात्मकस्य ब्रह्मदृष्ट्योपासनायां शब्दोपासनमेव स्यान्न तु ब्रह्मो-
पासनम् । तथा सति प्रतीकोपासकस्य ब्रह्मलोकप्राप्तिरेव तावन्न संभवति । कुतो ब्रह्म-
तत्त्वप्राप्तिः । तदभावे च ब्रह्मैवोपामोतीति फलवाक्यं बाध्येत । ओंकारवाच्यब्रह्म-
तत्त्वोपासने तु ब्रह्मलोकप्राप्तिर्ब्रह्मतत्त्वज्ञानद्वारेण विदेहमुक्तिलक्षणा ब्रह्मप्राप्तिश्चोप-
पद्यते । तस्मादोंकारवाच्यत्वेन ब्रह्मतत्त्वं विशेषणीयम् । ननु ब्रह्मतत्त्वस्य प्रमाणजन्यं
वेदनमेव संभवति न तूपासनम् । अत एव दहरशाण्डिल्यादिविद्यासु सर्वत्र सगु-
णस्यैव ब्रह्मण उपासनं विधीयते न तु क्वचिदपि शुद्धस्य ब्रह्मतत्त्वस्य । किं च
वेदान्तवाक्येन शुद्धे ब्रह्मतत्त्वेऽवगते सति कृतकृत्यत्वान्नानेनोपासनेन किंचित्प्रयोजन-
मस्ति । नापि ब्रह्मवि²दां कर्तृत्वेऽपगते सत्युपासकत्वं संभवतीति । नायं दोषः ।
द्विविधं हि वेदान्तवाक्यम् । अवान्तरवाक्यं महावाक्यं चेति । जगत्कारणब्रह्मणो
यत्तात्त्विकं रूपं तस्य बोधकमवान्तरवाक्यम् । जीवब्रह्मणोस्तादात्म्यबोधकं महावा-
क्यम् । तत्र महावाक्येन तादात्म्यं विदितवतस्त्वदुक्तरीत्या प्रयोजनाभाव उपास-
कत्वाभावश्च भवतु नाम । यस्त्ववान्तरवाक्यमात्रेण जगत्कारणस्य तत्त्वमात्रं बुध्यते
तस्य तावता कर्तृत्वानपायादुपासकत्वं संभवति । प्रयोजनं च ब्रह्मलोकप्राप्तिर्ब्रह्मतत्त्वा-
१ क. ख. ङ. ॰ब्देन तदंशे लँ । २ घ. ॰विदुः कँ ।
[प्रपा० ७ अनु० ८] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ५२७
वबोधे विदेहमुक्तिलक्षणं संभाव्यते । तस्मात्तादृशः पुमान्ब्रह्मतत्त्वमुपासीत । अत एवो-
त्तरतापनीयोपनिषदि निर्गुणब्रह्मतत्त्वविषयाण्येव बहून्युपासनानि विहितानि । स्मृतिश्च
ब्रह्मतत्त्वध्यानं विदधाति—
“ उपपातकसंघेषु पातकेषु महत्सु च ।
प्रविश्य रजनीपादं ब्रह्मध्यानं समाचरेत् ” ॥ इति ।
तदेतद्ब्रह्मतत्त्वस्य ध्यानं प्रथमाध्यायस्य तृतीयपादे *चिन्तितम् ।
“ त्रिमात्रप्रणवे ध्येयमपरं ब्रह्म वा परम् ।
ब्रह्मलोकफलोक्त्यादेरपरं ब्रह्म गम्यते ॥
ईक्षितव्यो जीवघनात्परस्तत्प्रत्यभिज्ञया ।
भवेद्ध्येयं परं ब्रह्म क्रममुक्तिः फलिष्यति ॥
प्रश्नोपनिषदि श्रूयते—“ यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्या-
यीत” इति । तत्र ध्येयं वस्तु हिरण्यगर्भाख्यमपरं ब्रह्मोत परं ब्रह्मेति संशये सति ह्यप-
रमिति प्राप्तम् । कुतः । “स सामभिरुन्नीयते ब्रह्मलोकम्” इति कमलासनलोकप्राप्तिफल-
श्रवणात्परब्रह्मध्यानस्य परमपुरुषार्थत्वस्य तावन्मात्रफलत्वानुपपत्तेः । परं पुरुषमिति परब्र-
ह्मविशेषणमपरस्मिन्नपि ब्रह्मण्युपपद्यते । तस्याप्यन्यापेक्षया परत्वादिति प्राप्ते ब्रूमः--पर-
मेव ब्रह्माभिध्येयम् । कुतः । ईक्षितव्यस्य परस्य ध्येयत्वेन प्रत्यभिज्ञानात् । “ स एत-
स्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते ” इति वाक्यशेषे श्रूयते । तस्यायमर्थः । य
उपासनया ब्रह्मलोकं प्राप्तः स एतस्मात्सर्वजीवसमष्टिरूपादुकृष्टाद्धिरण्यगर्भादप्युत्कृष्टं
सर्वप्राणिहृदयेशयं परमात्मानं पश्यतीति । तत्रेक्षितव्यो यः परमात्मा स एव वाक्योप-
क्रमे ध्यानविषयत्वेनाभिप्रेत इत्यवगम्यते । परपुरुषशब्दाभ्यां तस्य प्रत्यभिज्ञानात् । न
च ब्रह्मलोकमात्रमत्र फलं क्रममुक्तिसंभवात् । तस्माद्ब्रह्मैव ध्येयम् ।
तदेवं शुद्धब्रह्मतत्त्वस्याप्युपास्तिसंभवाद्ब्रह्मोपाप्नवानीत्येवं कामयमानः प्रणवमुच्चारयंस्त-
दर्थरूपं ब्रह्मतत्त्वमुपासीत । तेन चोपासनेन ब्रह्म प्राप्नोत्येव ॥
इति श्रीमत्सायणाचार्यविरचिते श्रीबुक्कणसाम्राज्यधुरंधरमाधवविद्यारण्यपरमे-
श्वरसंबन्धिवेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये सप्तमप्रपाठके
सांहित्यामुपनिषद्यष्टमोऽनुवाकः ॥ ८ ॥
- ईक्षतिकर्मव्यपदेशात्सः । अ० १ पा० ३ अ० ५ सू० १३ ।
७५२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० ७ अनु० ९]
अथ सप्तमे नवमोऽनुवाकः ।
अष्टमेऽनुवाके शुद्धब्रह्मतत्त्ववाचिना प्रणवेन ब्रह्मोपासनमुक्तम् । तावतैव क्रममुक्ति-
लक्षणस्य पुरुषार्थस्य सिद्धत्वादुपासकस्य श्रुतिस्मृत्युदितनित्यकर्मवैयर्थ्यमाशङ्क्य नवमेऽ-
नुवाके नित्यकर्मणामुपासनेन सह समुच्चयं विधत्ते—
ऋ॒तं च॑ स्वाध्यायप्रव॒चने च॑ । स॒त्यं च॑ स्वाध्या-
यप्रव॒चने च॑ । तप॑श्च स्वाध्यायप्रव॒चने च॑ । दम॑श्च
स्वाध्यायप्रव॒चने च॑ । शम॑श्च स्वाध्यायप्रव॒चने
च॑ । अग्नय॑श्च स्वाध्यायप्रव॒चने च॑ । अ॒ग्निहो॒त्रं च॑
स्वाध्यायप्रव॒चने च॑ । अति॑थयश्च स्वाध्यायप्रव॒चने
च॑ । मानु॑षं च स्वाध्यायप्रव॒चने च॑ । प्र॒जा च॑
स्वाध्यायप्रव॒चने च॑ । प्र॒जन॑श्च स्वाध्यायप्रव॒चने
च॑ । प्र॒जाति॑श्च स्वाध्यायप्रव॒चने च॑ , इति ।
यं कंचिदर्थं विवक्षुः पुरुषो मनसा तमर्थं यथावस्तु पर्यालोच्य तद्वाचकं शब्दमनु-
स्मरति । तदिदं मानसं यथावस्तु भाषणानुचितमृतमुच्यते । स्वाध्यायो नित्यमध्यय-
नम् । प्रवचनमध्यापनं ब्रह्मयज्ञो वा । न केवलमुपासनमेव मुक्तिकामेनानुष्ठेयम् । किं
तर्हि यदृतमुक्तविधं तदप्यनुष्ठेयम् । तथा स्वाध्यायप्रवचने अप्यनुष्ठेये । उपासने
सह समुच्चयार्थौ चकारौ । वाचा यथार्थभाषणं सत्यम् । अशनपरित्यागरूपं कृच्छ्र-
चान्द्रायणादिव्रतं तप इत्युच्यते । “ तपो नानशनात्परम् ” इति श्रुतेः । “ यज्ञेन
दानेन तपसाऽनाशकेन ” इति श्रुत्यन्तरे तपसः पृथगेवानशनं निर्दिष्टमिति चेत्तर्हि
तस्मिन्ननशने सामर्थ्यरहितस्य धनदानं तपोऽस्तु । “ एतत्खलु वाव तप इत्याहुर्यः सं-
द्ददाति ” इति श्रुतेः । चक्षुरादीनां बाह्येन्द्रियाणां निषिद्धविषयेभ्यो निवर्तनं दमः
मनसो निषिद्धानुचिन्तनान्निवर्तनं शमः । आधानादिसंस्कारेण निष्पन्ना आहवनीया-
योऽग्नयः । आहिताग्नेः सायं प्रातश्चानुष्ठेयो होमोऽग्निहोत्रम् । अमावास्यादितिथिवि-
शेषमनपेक्ष्य यदा कदाचिद्याच्ञार्थं परगृहे समागता अतिथयः । मनुष्यैर्विवाहाद्युत्स-
वेषु क्रियमाणं वध्वादिपूजनं मानुषम् । एतदपि शिष्टाचारप्राप्तत्वाच्छ्रौतस्मार्तवदनुष्ठे-
यमेव । प्रजाशब्देन पुत्रोत्पत्तिविषया गर्भाधानादयः संस्कारा विवक्षिताः । प्रजनश-
१ क. ख. छ. ॰लोक्य तं । २ ग. ॰षदमृतमित्युच्य॰ । ३ ख. ॰नुचितनमृतमित्युच्य॰ ।
४ घ. ॰णं बन्ध्यादि॰ ।
[प्रपा० ७अनु० ९] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ५२९
ब्देन पुत्रोत्पत्त्यर्थमृतुकाले दारसंगमो विवक्षितः । प्रजातिशब्देन श्रुतिस्मृत्युदितं सर्वं
कर्म स्ववर्णाश्रमानुसारेणोपासकोऽप्यनुतिष्ठेत् । अन्यथा विहिताकरणप्रत्यवायेन प्रति-
बद्धमुपासनं फलपर्यवसायि न स्यात् । न चानेन न्यायेन ब्रह्मतत्त्वज्ञानस्यापि कर्मसमु-
च्चयः प्राप्नुयादिति शङ्कनीयम् । तत्त्वविदः स्वात्मनि कर्तृत्ववर्णाश्रमाद्यध्यासनिवृत्तौ
कर्माधिकाराभावात् । उपासकस्य त्वध्याससद्भावादस्ति कर्माधिकार इति युक्तः समु-
च्चयः । निरन्तरमुपासीनस्य चित्तविक्षेपहेतावग्निहोत्रादौ बहुप्रयाससाध्ये कर्मणि प्रवृत्तिर्न
संभवतीति चेत्तर्ह्यसौ शमदमादिलक्षणमनुकूलं कर्मानुतिष्ठतु । अत एवोपासकं प्रति
यमनियमादिप्रतिपादकं योगशास्त्रं प्रवृत्तम् । अग्निहोत्रादीनां शमदमादीनां च पुरुषवि-
शेषं प्रति चित्तसमाधानानुसारेण वैकल्पिकत्वेऽपि स्वाध्यायप्रवचनयोरवश्यमनुष्ठेयत्वम-
भिप्रेत्य तेन तेन कर्मणा सह समुच्चयं विधातुं पुनः पुनर्वाक्यमभ्यस्तम् । न हि
स्वाध्यायः कदाचिदपि परित्यक्तुं शक्यते । तत्परित्यागे शूद्रत्वप्रसङ्गात् ।
तथा च स्मृतिः—
“योऽनधीत्य द्विजो वेदानन्यत्र कुरुते श्रमम् ।
स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ” इति ॥
प्रवचनपरित्यागनिषेधस्तु ब्रह्मयज्ञप्रकरणे समाम्नायते—“अपहतपाप्मा स्वाध्यायो
देवपवित्रं वा एतत्तं योऽनूत्सृजत्यभागो वाचि भवत्यभागो नाके । तदेषाऽभ्युक्ता—
यस्तित्याज सखिविदꣳ सखायं न तस्य वाच्यपि भागो अस्ति । यदीꣳ शृणोत्यलकꣳ
शृणोति न हि प्रवेद सुकृतस्य पन्थाम्” इति । यस्तु परिव्राट्पूर्वकर्मार्णि संन्यस्यति
तेनापि स्वाध्यायो न परित्याज्यः । तथा च स्मृतिः— “संन्यसेत्सर्वकर्माणि वेदमेकं
न संन्यसेत्” इति । नन्वारुण्युपनिषदि स्वाध्यायस्यापि संन्यासः श्रूयते पुत्रान्भ्रातृब-
न्ध्वादीञ्शिखां यज्ञोपवीतं यागं सूत्रं स्वाध्यायं चेति परित्याज्येषु वस्तुषु स्वाध्याय-
स्य पठितत्वात् । नायं दोषः । परिव्राजकानामनुपयुक्तस्यैव कर्मभागस्य त्याज्यत्वात् ।
उपयुक्तस्य तु भागस्याऽऽवृत्तिर्यतिधर्मेष्वाम्नायते—“त्रिसंध्यादौ स्नानमाचरेत् । संधिं
समाधावात्मन्याचरेत् । सर्वेषु वेदेष्वारणमावर्तयेत् । उपनिषदमावर्तयेदुपनिषदमावर्तयेत्”
इति । अतः स्वाध्यायप्रवचनयोः परित्यागो न कस्यापीत्यभिप्रायेणाऽऽदरार्थोऽयं विधि-
वाक्याभ्यासः ।
अथ यथोक्तेषु कर्मसु प्राशस्त्येन मतभेदं दर्शयति—
**सत्यमिति॑ सत्यव॒र्चा रा॑थी॒
An accurate line-by-line transcription of the page into Unicode Devanagari:
५३० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा०७अनु०९]
मौ॒द्गल्यः॑ । तद्धि॒ तप॒स्तद्धि॒ तपः॑ ( १ ), इति ।
प्र॒जा च॒ स्वाध्यायप्रव॑चने॒ च॒ षट् च॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके
नवमोऽनुवाकः ॥ ९ ॥
रथीतराख्यस्य मुनेः पुत्रः कश्चित्सर्वदा सत्यमेव वक्त्यतः सत्यवचा इति तस्य
नामधेयम् । स हि सत्यमेवोत्तमं कर्मेति ब्रूते । पुरुशिष्टाख्यस्य मुनेः पुत्रः कश्चि-
त्तपसि नियतो वर्तते । अतस्तपोनित्य इति तस्य नामधेयम् । स त्वनशनधनदान-
रूपमेव कर्मोत्तममिति ब्रूते । मुद्गलाख्यस्य मुनेः पुत्रः कश्चिन्मौद्गल्यः सर्वदा स्वाध्या-
यप्रवचनाभ्यां तुष्टैः सन्दुःखरहितो वर्तते । अतो नाक इति तस्य नामधेयम् । स तु
[प्रपा० ७ अनु० १०] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ५३१
अथ सप्तमे दशमोऽनुवाकः ।
नवमेऽनुवाके ब्रह्मोपासनेन समुच्चित्य श्रौतस्मार्तकर्मानुष्ठेयमित्युक्तम् । तत्प्रसङ्गाद्ब्रह्म-
यज्ञस्योत्तमंतपस्त्वमुक्तम् । यस्तु श्रद्धालु॑रपि प्रज्ञामान्द्यादिदोषेण वेदपाठाभावाद्व्रह्मयज्ञे
समर्थो न भवति तस्य ब्रह्मयज्ञफलसिद्धये जप्यं मन्त्रं दशमानुवाके दर्शयति--
अ॒हं वृक्षस्य॒ रेरि॑वा । की॒र्तिः पृ॒ष्ठं गि॒रेरि॑व । ऊ॒र्ध्वप॑वित्रो
वा॒जिनी॑व स्व॒मृत॑मस्मि । द्रवि॑णग्ँ सवर्च॒सम् । सु॒मेधा
अ॒मृतो॑क्षितः । इति त्रिशङ्कोर्वेदानुवचनम् ( १ ), इति ।
अ॒हग्ँ षट् ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके
दशमोऽनुवाकः ॥ १० ॥
वृश्च्यते तत्त्वज्ञानेनोच्छिद्यत इति वृक्षः संसारः । स चाऽऽरुणकेतुकप्रकरणे
केनचिन्मन्त्रेण स्पष्टीकृतः--" ऊर्ध्वमूलमवाक्शाखं वृक्षं यो वेद संप्रति " इति । ऊर्ध्वं
सर्वस्माज्जगत उत्कृष्टं परं ब्रह्म मूलं कारणं यस्य संसारवृक्षस्य सोऽयमूर्ध्वमूलः । अवाञ्चः
सुरनरतिर्यग्देहाः शाखा यस्य सोऽयमवाक्शाखः । कठवल्लीष्वप्याम्नायते--"ऊर्ध्वमूलोऽ-
वाक्शाख एषोऽश्वत्थः सनातनः " इति । अनित्यतया श्वो न तिष्ठतीत्यश्वत्थः । सना-
तनत्वमनादित्वम् । भगवताऽप्यसौ वृक्षोऽभिहितः--
" ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्" ॥ इति ।
मुमुक्षुरहं तस्य संसाररूपस्याश्वत्थवृक्षस्य रेरिवा विषयवैराग्यरूपेण शस्त्रेण च्छेत्ता
भूयासमिति शेषः । "री हिंसायाम् " इति धातोरयं शब्दो निष्पन्नः । वैराग्यशस्त्रेण
च्छेदो भगवतोक्तः--
" अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा ।
ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः " ॥ इति ।
संसारवृक्षे छिन्ने सति मदीया कीर्तिर्गिरेः पृष्ठमिव भवति । यथा पर्वतस्योपरि-
भागोऽत्यन्तमुन्नतः । या मदीया मोक्षविषया कीर्तिरत्यन्तमुन्नता सती देवलोकेष्वपि
प्रसरति । ततो देवा अपि मदीयं पुरुषार्थं विहन्तुं न क्षमन्ते । तथा च श्रूयते -
१ ग. घ. 'त्यन्त उन्न°' ।
५३२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० ७ अनु० १०]
“ तस्य ह न देवाश्चनाभूत्या ईशते ” इति । वाजिनि स्वममृतमिवाहमूर्ध्वपवि-
त्रोऽस्मि । वाजो गतिस्तद्वानादित्यो वाजी । स हि सर्वदा वेगेनैव गच्छति ।
तथा चोक्तम्—
“ योजनानां सहस्रे द्वे द्वे शते द्वे च योजने ।
एकेन निमिषार्धेन क्रममाण नमोऽस्तु ते ” ॥ इति ।
तस्मिन्वाजिन्यादित्ये शोभनममृतं विद्यते । अत एव च्छन्दोगा मधुविद्यायामादि-
त्यमण्डलस्य मधुरूपत्वं तदीयप्रागादिभागेष्वृग्वेदादिप्रोक्तकर्मफलरूपाणि रोहितशुक्लादि-
वर्णयुक्तान्यमृतानि चाऽऽम्नातानि तद्यत्प्रथमममृतं तद्वसव उपजीवन्तीत्यादिना तेषाममृ-
तानां वस्वाद्युपजीव्यत्वमा(त्वं चाऽऽ)मनन्ति । तदिदमादित्यमण्डलगममृतं शोभनमत्यन्तं
शुद्धम् । तद्वदहमप्यूर्ध्वपवित्र ऊर्ध्वं पवित्रमुत्कृष्टा शुद्धैर्यस्य मम सोऽहमूर्ध्वपवित्रः।
तादृशस्य मम सवर्चसं द्रविणं सिध्यतु । द्विविधं हि द्रविणम् । मानुषं दैवं च ।
तत्र चक्षुषा दृश्यमानं सुवर्णरजतादिकं मानुषम् । श्रोत्रेण श्रूयमाणं वेदे प्रतीयमानं
ब्रह्मज्ञानादिकं दैवम् । अत एव वाजसनेयिनः । कस्मिंश्चिदुपासने चक्षुःश्रोत्रयोर्मा-
नुषदैववित्तदृष्टिमामनन्ति— “ चक्षुर्मानुषं वित्तम् । चक्षुषा हि तद्विन्दते । श्रोत्रं
दैवम् । श्रोत्रेण हि तच्छृणोति ” इति । तत्र दैववित्तमभिप्रेत्य सवर्चसमिति विशे-
ष्यते । वर्चो बलं तद्योगात्सवर्चसं बलवत्त्वं च दैववित्तस्य ब्रह्मज्ञानस्य सर्वसंसार-
निवर्तकत्वादुपपन्नम् । ब्रह्मज्ञानरूपेण दैववित्तेनात्र द्रविणशब्दवाच्येन संपन्नोऽहं
सुमेधा अमृतोक्षितश्च भूयासम् । शोभना मेधा ब्रह्मज्ञानप्रतिपादकग्रन्थतदर्थावधार-
णशक्तिर्यस्य मम सोऽहं सुमेधाः । अत एवाहममृतेन ब्रह्मानन्दरसेनोक्षितः सेचितः।
इत्यहं वृक्षस्येत्यादिमन्त्रस्त्रिशङ्कुनामकस्य मुनेर्मतं वेदानुवचनं वेदस्य गुरुपूर्वकमध्यय-
नमनु पश्चाद्वचनं ब्रह्मयज्ञस्वाध्यायस्तप इत्यर्थः ॥
इति श्रीमत्सायणाचार्यविरचिते श्रीबुक्कणसाम्राज्यधुरंधरमाधवविद्यारण्यपरमे-
श्वरसंबन्धिनेवेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये सप्तम-
प्रपाठके सांहित्यामुपनिषदि दशमोऽनुवाकः ॥ १० ॥
अथ सप्तमे एकादशोऽनुवाकः ।
दशमे ब्रह्मयज्ञप्रतिनिधित्वेन जप्यो मन्त्र उक्तः । ततो मन्दप्रज्ञस्यापि सुकरो
ब्रह्मयज्ञः । तथा तस्य “ऋतं च स्वाध्यायप्रवचने च” इत्येवमुक्तोपासनेन सह श्रौतस्मा-
१ ग, °दिमार्गेष्व्° । २ ग. °माणवे° । ३ ग. घ. °मंते वे° ।
[प्रपा० ७ अनु० ११] - कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ५३३
र्तकर्मसमुच्चयः क्रममुक्तिहेतुः सुस्थितः । अथैकादशेऽनुवाके केवलकर्मणामपि विवि-
दिषोत्पादनद्वारेण मोक्षहेतुत्वमभिप्रेत्य तदनुशासनं विधत्ते—
वेदम॑नूच्या॒ऽऽचार्यो॒ऽन्तेवा॒सिन॒मनु॑शा॒स्ति, इति ।
आचार्यस्वरूपं मनुना स्मर्यते—
“उपनीय तु यः शिष्यं वेदमध्यापयेद्द्विजः।
सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ” ॥ इति ।
अन्ते पूर्वोक्तस्याऽऽचार्यस्य समीपे । सर्वदा वसतीत्यन्तेवासी । “छायाभूतोऽप्यरि-
त्यागी नित्यमेव वसेद्गुरौ ” इति स्मृतेः । तादृशं शिष्यमाचार्यो वेदमन्च्योपन-
यनमनु पश्चादध्याप्यानुशास्ति । ग्रन्थग्रहणादूर्ध्वमनुष्ठेयमर्थं ग्राहयति । अनेनैतदव-
गम्यते । अधीतवेदेन धर्मजिज्ञासामकृत्वा गुरुकुलान्न निवर्तितव्यमिति ।
अनुशासनप्रकारं संग्रहेण दर्शयति—
स॒त्यं व॑द । ध॒र्मं चर, इति ।
सत्यशब्देन “अहिंसा सत्यमस्तेयम् ” इत्यादिस्मृतिप्रसिद्धाः सर्वेऽप्युपल-
क्ष्यन्ते । धर्मशब्देन प्रत्यक्षश्रुतिविहिता अग्निहोत्रादयो विवक्षिताः । “चोदनालक्ष-
णोऽर्थो धर्मः ” इति जैमिनिना सूत्रितत्वात् । श्रौतं स्मार्तं च कर्म सर्वमनुष्ठेयमिति
संग्रहवाक्ययोस्तात्पर्यार्थः ।
“सकृत्कृते कृतः शास्त्रार्थः ” इति न्यायेन श्रौतस्मार्तयोः सकृदनुष्ठितयोः पश्चा-
त्परित्यागप्रसक्तौ तत्परित्यागरूपं प्रमादं निषेधति--
स्वा॒ध्या॒यान्मा प्रम॑दः । आ॒चा॒र्याय॑ प्रि॒यं धन॒माहृत्य॑
प्र॒जातन्तुं॒ मा व्यव॑च्छेत्सीः । स॒त्यान्न प्रम॑दित॒व्यम् ।
ध॒र्मान्न प्रम॑दित॒व्यम् । कुश॒लान्न प्रम॑दित॒व्यम् । भू॒त्यै
न प्रम॑दित॒व्यम् । स्वा॒ध्या॒यप्र॒वच॑नाभ्यां॒ न प्रम॑दि-
त॒व्यम् (१) । दे॒वपि॒तृका॒र्याभ्यां॒ न प्रम॑दित॒व्यम्, इति ।
अध्ययनेन गृहीतस्य स्वाध्यायस्य विस्मृतिः प्रमादस्तं मा कार्षीः । “ब्रह्महत्यासमं
ज्ञेयमधीतस्य च नाशनम्” इति स्मृतेः । गोसुवर्णवस्त्रादिरूपं यद्धनमाचार्यस्य प्रियं
तद्विद्यादक्षिणार्थं संपाद्य गुरवे समर्प्य ततो विवाहं कृत्वा प्रजायाः पुत्रपौत्रादिरूपाया-
स्तन्तुर्विस्तारस्तस्य विच्छेदं मा कार्षीः । पूर्वोक्तयोः सत्यधर्मयोः कदाचिदालस्या-
१ क. ख. ‘क्षणार्था ।