तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 527, कुल 914 में से
संदर्भ में पढ़ेंवक्ष्यमाणेनासंकीर्णत्वायोक्तं विभज्य प्रतिज्ञापुरःसरमन्यत्पञ्चकत्रयं दर्शयति—
अथाध्यात्मम् । प्रा॒णो व्या॒नोऽपा॒न उदा॑नः समा॑नः । चक्षुः॒
श्रोत्रं॒ मनो॒ वाक्त्वक् । चर्म॑ मा॒ꣳस॒ꣳ स्नावास्थि॑ म॒ज्जा, इति ।
अथ भूतविषयपञ्चकत्रयकथनानन्तरमध्यात्ममात्मविषयपञ्चकत्रयमभिधीयत इति
शेषः । यस्मिन्देहेन्द्रियादिसंघाते शास्त्रसंस्काररहितस्य जनस्याहमिति बुद्धिः सोऽयं
लोकप्रसिद्ध आत्मा तमधिकृत्य यदुपासनं वर्तते तदध्यात्मम् । देहमध्यवर्तिन एकत्र्यैव
वायोः प्राणादयः पञ्च वृत्तिभेदाः । अत एव प्राणविचारे भगवता व्यासेन सूत्रितम्-
“पञ्चवृत्तिर्मनोवद्व्यपदिश्यते” [ ब्र० सू० अ० २ पा० ४ सू० १२ ] इति । तासां
च वृत्तीनां स्थानभेदः पूर्वैरुदाहृतः—
“हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः ।
उदानः कण्ठदेशे स्याद्व्यानः सर्वशरीरगः ” ॥ इति ।
तदेतद्वायुपञ्चकम् । चक्षुरादिकमिन्द्रियपञ्चकम् । चर्मादि धातुपञ्चकम् । स्नावश-
ब्देन वसाऽभिधीयते । यदेतदधिभूतपञ्चकत्रयं यच्चाध्यात्मपञ्चकत्रयं तेनोभयेन ब्रह्म-
उपाधिभूतं कृत्स्नं जगदभिधीयते । तदेतज्जगदुपाधिविशिष्टं ब्रह्मस्वरूपमुपासितव्यम् ।
अथार्थवादेनोपास्तौ विधिमुन्नयति—
ए॒तद॑धि॒विधाय॒ ऋषिरवो॑चत् । पाङ्क्तं॒ वा इ॒दꣳ
सर्व॑म् । पाङ्क्ते॑नै॒व पाङ्क्तं॑ स्पृणोतीति॑ ( १ ), इति ।
सर्व॑मे॒कं च॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके
सप्तमोऽनुवाकः ॥ ७ ॥
ऋषिरतीन्द्रियस्य शास्त्रार्थस्य द्रष्टा कश्चिन्मुनिरेतत्पृथिव्यन्तरिक्षादिकमुपास्यस्य
रूपमधिविधायाधिकं साक्षात्कारपर्यन्तं यथा भवति तथोपास्य स्वानुभवेन सर्वात्म-
विराड्रूपं प्राप्य स्वानुभवसिद्धमर्थं शिष्येभ्यः प्रोक्तवान् । किमुक्तवानिति तदभिधीयते—
इदं प्रतीयमानं सर्वं जगद्विराड्रूपं पाङ्क्तं पङ्क्तिच्छन्दसः संबन्धि । वैशब्देन तत्प्रसि-
द्धिरुच्यते । प्रसिद्धमेतत्सर्वस्य पाङ्क्तत्वम् । तथा हि—“पञ्चाक्षरा पङ्क्तिः” इति
श्रुत्या पङ्क्तिश्छन्दः पञ्चसंख्योपेतम् । तथा जगदपि पञ्चसंख्योपेतम् । पञ्चीकृतानि
महाभूतानि तत्कार्यं च सर्वं विराडित्युच्यत इति संप्रदायविद्भिरभिधानात् । त-
१ क. स. ङ. °नुभावे ।