सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 535, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 535

An accurate line-by-line transcription of the page into Unicode Devanagari:

५३० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा०७अनु०९]
मौ॒द्गल्यः॑ । तद्धि॒ तप॒स्तद्धि॒ तपः॑ ( १ ), इति ।
प्र॒जा च॒ स्वाध्यायप्रव॑चने॒ च॒ षट् च॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके
नवमोऽनुवाकः ॥ ९ ॥
रथीतराख्यस्य मुनेः पुत्रः कश्चित्सर्वदा सत्यमेव वक्त्यतः सत्यवचा इति तस्य
नामधेयम् । स हि सत्यमेवोत्तमं कर्मेति ब्रूते । पुरुशिष्टाख्यस्य मुनेः पुत्रः कश्चि-
त्तपसि नियतो वर्तते । अतस्तपोनित्य इति तस्य नामधेयम् । स त्वनशनधनदान-
रूपमेव कर्मोत्तममिति ब्रूते । मुद्गलाख्यस्य मुनेः पुत्रः कश्चिन्मौद्गल्यः सर्वदा स्वाध्या-
यप्रवचनाभ्यां तुष्टैः सन्दुःखरहितो वर्तते । अतो नाक इति तस्य नामधेयम् । स तु