सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 534, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 534

[प्रपा० ७अनु० ९] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ५२९

ब्देन पुत्रोत्पत्त्यर्थमृतुकाले दारसंगमो विवक्षितः । प्रजातिशब्देन श्रुतिस्मृत्युदितं सर्वं
कर्म स्ववर्णाश्रमानुसारेणोपासकोऽप्यनुतिष्ठेत् । अन्यथा विहिताकरणप्रत्यवायेन प्रति-
बद्धमुपासनं फलपर्यवसायि न स्यात् । न चानेन न्यायेन ब्रह्मतत्त्वज्ञानस्यापि कर्मसमु-
च्चयः प्राप्नुयादिति शङ्कनीयम् । तत्त्वविदः स्वात्मनि कर्तृत्ववर्णाश्रमाद्यध्यासनिवृत्तौ
कर्माधिकाराभावात् । उपासकस्य त्वध्याससद्भावादस्ति कर्माधिकार इति युक्तः समु-
च्चयः । निरन्तरमुपासीनस्य चित्तविक्षेपहेतावग्निहोत्रादौ बहुप्रयाससाध्ये कर्मणि प्रवृत्तिर्न
संभवतीति चेत्तर्ह्यसौ शमदमादिलक्षणमनुकूलं कर्मानुतिष्ठतु । अत एवोपासकं प्रति
यमनियमादिप्रतिपादकं योगशास्त्रं प्रवृत्तम् । अग्निहोत्रादीनां शमदमादीनां च पुरुषवि-
शेषं प्रति चित्तसमाधानानुसारेण वैकल्पिकत्वेऽपि स्वाध्यायप्रवचनयोरवश्यमनुष्ठेयत्वम-
भिप्रेत्य तेन तेन कर्मणा सह समुच्चयं विधातुं पुनः पुनर्वाक्यमभ्यस्तम् । न हि
स्वाध्यायः कदाचिदपि परित्यक्तुं शक्यते । तत्परित्यागे शूद्रत्वप्रसङ्गात् ।
तथा च स्मृतिः—
“योऽनधीत्य द्विजो वेदानन्यत्र कुरुते श्रमम् ।
स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ” इति ॥
प्रवचनपरित्यागनिषेधस्तु ब्रह्मयज्ञप्रकरणे समाम्नायते—“अपहतपाप्मा स्वाध्यायो
देवपवित्रं वा एतत्तं योऽनूत्सृजत्यभागो वाचि भवत्यभागो नाके । तदेषाऽभ्युक्ता—
यस्तित्याज सखिविदꣳ सखायं न तस्य वाच्यपि भागो अस्ति । यदीꣳ शृणोत्यलकꣳ
शृणोति न हि प्रवेद सुकृतस्य पन्थाम्” इति । यस्तु परिव्राट्पूर्वकर्मार्णि संन्यस्यति
तेनापि स्वाध्यायो न परित्याज्यः । तथा च स्मृतिः— “संन्यसेत्सर्वकर्माणि वेदमेकं
न संन्यसेत्” इति । नन्वारुण्युपनिषदि स्वाध्यायस्यापि संन्यासः श्रूयते पुत्रान्भ्रातृब-
न्ध्वादीञ्शिखां यज्ञोपवीतं यागं सूत्रं स्वाध्यायं चेति परित्याज्येषु वस्तुषु स्वाध्याय-
स्य पठितत्वात् । नायं दोषः । परिव्राजकानामनुपयुक्तस्यैव कर्मभागस्य त्याज्यत्वात् ।
उपयुक्तस्य तु भागस्याऽऽवृत्तिर्यतिधर्मेष्वाम्नायते—“त्रिसंध्यादौ स्नानमाचरेत् । संधिं
समाधावात्मन्याचरेत् । सर्वेषु वेदेष्वारणमावर्तयेत् । उपनिषदमावर्तयेदुपनिषदमावर्तयेत्”
इति । अतः स्वाध्यायप्रवचनयोः परित्यागो न कस्यापीत्यभिप्रायेणाऽऽदरार्थोऽयं विधि-
वाक्याभ्यासः ।
अथ यथोक्तेषु कर्मसु प्राशस्त्येन मतभेदं दर्शयति—
**सत्यमिति॑ सत्यव॒र्चा रा॑थी॒