सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 538, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 538

[प्रपा० ७ अनु० ११] - कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ५३३
र्तकर्मसमुच्चयः क्रममुक्तिहेतुः सुस्थितः । अथैकादशेऽनुवाके केवलकर्मणामपि विवि-
दिषोत्पादनद्वारेण मोक्षहेतुत्वमभिप्रेत्य तदनुशासनं विधत्ते—
वेदम॑नूच्या॒ऽऽचार्यो॒ऽन्तेवा॒सिन॒मनु॑शा॒स्ति, इति ।
आचार्यस्वरूपं मनुना स्मर्यते—
“उपनीय तु यः शिष्यं वेदमध्यापयेद्द्विजः।
सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ” ॥ इति ।
अन्ते पूर्वोक्तस्याऽऽचार्यस्य समीपे । सर्वदा वसतीत्यन्तेवासी । “छायाभूतोऽप्यरि-
त्यागी नित्यमेव वसेद्गुरौ ” इति स्मृतेः । तादृशं शिष्यमाचार्यो वेदमन्च्योपन-
यनमनु पश्चादध्याप्यानुशास्ति । ग्रन्थग्रहणादूर्ध्वमनुष्ठेयमर्थं ग्राहयति । अनेनैतदव-
गम्यते । अधीतवेदेन धर्मजिज्ञासामकृत्वा गुरुकुलान्न निवर्तितव्यमिति ।
अनुशासनप्रकारं संग्रहेण दर्शयति—
स॒त्यं व॑द । ध॒र्मं चर, इति ।
सत्यशब्देन “अहिंसा सत्यमस्तेयम् ” इत्यादिस्मृतिप्रसिद्धाः सर्वेऽप्युपल-
क्ष्यन्ते । धर्मशब्देन प्रत्यक्षश्रुतिविहिता अग्निहोत्रादयो विवक्षिताः । “चोदनालक्ष-
णोऽर्थो धर्मः ” इति जैमिनिना सूत्रितत्वात् । श्रौतं स्मार्तं च कर्म सर्वमनुष्ठेयमिति
संग्रहवाक्ययोस्तात्पर्यार्थः ।
“सकृत्कृते कृतः शास्त्रार्थः ” इति न्यायेन श्रौतस्मार्तयोः सकृदनुष्ठितयोः पश्चा-
त्परित्यागप्रसक्तौ तत्परित्यागरूपं प्रमादं निषेधति--
स्वा॒ध्या॒यान्मा प्रम॑दः । आ॒चा॒र्याय॑ प्रि॒यं धन॒माहृत्य॑
प्र॒जातन्तुं॒ मा व्यव॑च्छेत्सीः । स॒त्यान्न प्रम॑दित॒व्यम् ।
ध॒र्मान्न प्रम॑दित॒व्यम् । कुश॒लान्न प्रम॑दित॒व्यम् । भू॒त्यै
न प्रम॑दित॒व्यम् । स्वा॒ध्या॒यप्र॒वच॑नाभ्यां॒ न प्रम॑दि-
त॒व्यम् (१) । दे॒वपि॒तृका॒र्याभ्यां॒ न प्रम॑दित॒व्यम्, इति ।
अध्ययनेन गृहीतस्य स्वाध्यायस्य विस्मृतिः प्रमादस्तं मा कार्षीः । “ब्रह्महत्यासमं
ज्ञेयमधीतस्य च नाशनम्” इति स्मृतेः । गोसुवर्णवस्त्रादिरूपं यद्धनमाचार्यस्य प्रियं
तद्विद्यादक्षिणार्थं संपाद्य गुरवे समर्प्य ततो विवाहं कृत्वा प्रजायाः पुत्रपौत्रादिरूपाया-
स्तन्तुर्विस्तारस्तस्य विच्छेदं मा कार्षीः । पूर्वोक्तयोः सत्यधर्मयोः कदाचिदालस्या-
१ क. ख. ‘क्षणार्था ।