सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 520, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 520

प्रपा० ७ अनु० ६] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ५१५
त्राभिमान एकमुपासनमनुष्ठाय तत्परित्यज्यान्यत्र वर्तमानस्य पुरुषस्य चित्तविक्षेपे १ कथं
नाम दृढौ भवेत् । तस्मादानर्थक्यविक्षेपयोर्नियामकत्वाद्विकल्पो नियम्यते” ।
ब्रह्मतत्त्वविद्यायामिव ब्रह्मोपासनेऽप्यहंग्रहः कर्तव्यः । तत्त्वविद्यायामहंग्रहश्चतुर्था-
ध्यायस्य प्रथमपादे * चिन्तितः—
“ज्ञात्रा स्वान्यतया ब्रह्म ग्राह्यमात्मतयाऽथ वा ।
अन्यत्वेन विजानीयाद्दुःख्यदुःखिविरोधतः ॥
औपाधिको विरोधोऽत आत्मत्वेनैव गृह्यते ।
गृह्णन्त्येवं महावाक्यैः स्वशिष्यान्ग्राहयन्त्यपि ॥
यच्छास्त्रप्रतिपाद्यं ब्रह्म तज्जीवेन ज्ञात्रा स्वव्यतिरिक्ततया ग्रहीतव्यम् । दुःख्यदुः-
खिनोर्जीवब्रह्मणोरेकत्वविरोधादिति प्राप्ते ब्रूमः—“वस्तुतो ब्रह्मरूपस्यैव सतो जीवस्या-
न्तःकरणोपाधिकृतो दुःखित्वादिसंसारधर्मः ।” इति वियत्पादे [ ब्र० सू० अ० २
पा० ३ ] जीवविचारे प्रपञ्चितम् । अतो वास्तवविरोधाभावादात्मत्वेनैव ब्रह्म गृह्य-
ताम् । अत एव “ अहं ब्रह्मास्मि ” “ अयमात्मा ब्रह्म ” इत्यादिमहावाक्यैस्तत्त्वविद्
आत्मत्वेनैव ब्रह्म गृह्णन्ति । तथा तत्त्वमस्यादिभिर्महावाक्यैः स्वशिष्यान्ग्राहयन्त्यपि ।
तस्मादात्मत्वेनैव ब्रह्म ग्रहीतव्यम् ” ।
एवं सति मनोमयोऽमृतो हिरण्मयः परमात्माऽहमित्युपासनीयम् । मनोमयस्य पर-
मात्मत्वं शाण्डिल्यविद्योदाहरणेन प्रथमाध्यायस्य द्वितीयपादे + चिन्तितम्—
“मनोमयोऽयं शारीर ईशो वा प्राणमानसे ।
हृदयस्थित्यणीयस्त्वे जीवे स्युस्तेन जीवगीः ॥
शमवाक्यगतं ब्रह्म तद्धितादिरपेक्षते ।
प्राणादियोगश्चिन्ताथैश्चिन्त्यं ब्रह्म प्रसिद्धितः ॥
छान्दोग्यस्य तृतीयाध्याये शाण्डिल्यविद्यायामिदमाम्नायते—“ मनोमयः प्राण-
शरीरो भारूपः ” इति । तत्र जीव ईशो वेति संदेहे जीव इति प्राप्तम् । मनःसंब-
न्धादीनां जीवे सुसं२वादात् । मनसो विकारो मनोमय इति मनःसंबन्धः । प्राणः
शरीरमस्येति प्राणसंबन्धः । न चेदं द्वयमीश्वरे सुसं३वादम् । “ अप्राणो ह्यमनाः शुभ्रः”
ति निषेधात् । तथा “ एष म आत्माऽन्तर्हृदयेऽणीयान् ” इति श्रूयमाणं हृदये४ऽव-
स्थानमणीयस्त्वं च निराधारस्य सर्वगतस्य न कथंचिदप्युपपद्यते । तस्माज्जीव

  • आत्मेति तूपगच्छन्ति ग्राहयन्ति च । अ० ४ पा० १ अ० २ सू० ३ ।
  • सर्वत्र प्रसिद्धोपदेशात् । अ० १ पा० २ अ० १ सू० १ ।
    १ ख. ॰क्षेपात्कथं । २ घ. ॰संपाद॰ । ३ घ संपाद॰ । ४ क. ख. ङ. ॰येऽन्तस्था॰ ।