सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 530, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 530

[प्रपा०७ अनु०८] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ४२५

प्रेक्षित्येवं प्रणवपुरःसरमेव प्रसौति प्रेरयति । अग्निहोत्रहोमेऽध्वर्युर्होमिद्रव्यं क्षीरं तत्पा-
त्रादग्निहोत्रहवणीनामके पात्रे यदा स्रुवेणोन्नयति तदानीमोमुन्नेष्यामि हव्यं देवेभ्यं
त्यादिमन्त्रेण यजमानं प्रत्यनुज्ञां याचते । स च यजमान ॐकारेणानुज्ञां प्रयच्छति ।
तथा च सूत्रकार आह—"ओमुन्नयेत्युच्चैरनुजानाति" इति । तथा ब्रह्मयज्ञं चिकी-
र्षुब्राह्मणो ब्रह्मयज्ञात्मकस्य प्रवचनस्याऽऽदौ प्रणवं प्रयुङ्क्ते । तथा च ब्रह्मयज्ञप्रक-
रणे समाम्नातम् —"दक्षिणोत्तरौ पाणी पादौ कृत्वा सपवित्रावोमिति प्रतिपद्यते "
इति । प्रतिपद्यते ब्रह्मयज्ञं प्रारभत इत्यर्थः ।
तदेवं वैदिकैरुदाहरणैरोंकारव्याप्तिः प्रपञ्चिता । अथ फलकथनव्याजेनोपासनवि-
धिमुन्नयति—
ब्रह्मोपा॑प्नवानीति॑ । ब्रह्मैवोपा॑प्नोति ( १ ), इति ।
ओं दश ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठकेऽ-
ष्टमोऽनुवाकः ॥ ८ ॥
यः पुमान्ब्रह्म प्राप्नुवानीति कामयते स पुमानोमित्यनेन शब्देन वाच्यं ब्रह्मो-
पासीत तेनोपासनेन ब्रह्म प्राप्नोत्येव ।
अथ मीमांसा—अत्रैतच्चिन्तनीयम् । ओमिति ब्रह्मेतिवाक्ये किमोङ्कारे प्रतीके
ब्रह्मदृष्टिविधीयते किं वोपास्यं ब्रह्मोमित्यनेन विशेषणेन विशेष्यत इति । तत्र य ओमिति
शब्दस्तद्ब्रह्मेत्येवमोंकारप्रतीकमाधारत्वेनोद्दिश्य तत्र ब्रह्मदृष्टिविधीयते । तथा सत्युद्देश्य-
विधेययोः क्रमनिर्देशस्योपपन्नत्वादिति प्राप्ते ब्रूमः—उद्गीथन्यायेनात्रोंकारस्य विशे-
षणत्वं द्रष्टव्यम् । स च न्यायस्तृतीयाध्यायस्य तृतीयपादे * दर्शितः—
" किमध्यसोऽथ वा बाध ऐक्यं वाऽथ विशेष्यता ।
अक्षरस्यात्र नास्त्येकं नियतं हेत्वभावतः ॥
वेदेषु व्याप्त ओंकार उद्गीथेन विशेष्यते ।
अध्यासादौ फलं कल्प्यं संनिकृष्टांशलक्षणा ॥
" ओमित्येतदक्षरमुद्गीथमुपासीत " इत्यक्षरोद्गीथयोः सामानाधिकरण्यं श्रूयते । तत्र
चतुर्धा संशयः । तथा हि—" नाम ब्रह्मेत्युपासीत " इत्यत्र नामनि ब्रह्मदृष्ट्यध्यासाय
सामानाधिकरण्यं श्रुतम् । तथा बाधादिष्वप्युदाह्रियते—"यश्चोरः स स्थाणुः " इति
चोरत्वस्य बाधः । "यो जीवस्तद्ब्रह्म" इत्येकत्वम् । "यन्नीलं तदुत्पलम् " इति विशे-

  • व्याप्तेश्च समञ्जसम् । अ० ३ पा० ३ अ० ४ सू० ९ ।
    १ क. घ. 'प्नोती' । २ ग. 'न्ब्रह्मोपाप्नु' ।