सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 537, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 537

५३२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० ७ अनु० १०]
“ तस्य ह न देवाश्चनाभूत्या ईशते ” इति । वाजिनि स्वममृतमिवाहमूर्ध्वपवि-
त्रोऽस्मि । वाजो गतिस्तद्वानादित्यो वाजी । स हि सर्वदा वेगेनैव गच्छति ।
तथा चोक्तम्—
“ योजनानां सहस्रे द्वे द्वे शते द्वे च योजने ।
एकेन निमिषार्धेन क्रममाण नमोऽस्तु ते ” ॥ इति ।
तस्मिन्वाजिन्यादित्ये शोभनममृतं विद्यते । अत एव च्छन्दोगा मधुविद्यायामादि-
त्यमण्डलस्य मधुरूपत्वं तदीयप्रागादिभागेष्वृग्वेदादिप्रोक्तकर्मफलरूपाणि रोहितशुक्लादि-
वर्णयुक्तान्यमृतानि चाऽऽम्नातानि तद्यत्प्रथमममृतं तद्वसव उपजीवन्तीत्यादिना तेषाममृ-
तानां वस्वाद्युपजीव्यत्वमा(त्वं चाऽऽ)मनन्ति । तदिदमादित्यमण्डलगममृतं शोभनमत्यन्तं
शुद्धम् । तद्वदहमप्यूर्ध्वपवित्र ऊर्ध्वं पवित्रमुत्कृष्टा शुद्धैर्यस्य मम सोऽहमूर्ध्वपवित्रः।
तादृशस्य मम सवर्चसं द्रविणं सिध्यतु । द्विविधं हि द्रविणम् । मानुषं दैवं च ।
तत्र चक्षुषा दृश्यमानं सुवर्णरजतादिकं मानुषम् । श्रोत्रेण श्रूयमाणं वेदे प्रतीयमानं
ब्रह्मज्ञानादिकं दैवम् । अत एव वाजसनेयिनः । कस्मिंश्चिदुपासने चक्षुःश्रोत्रयोर्मा-
नुषदैववित्तदृष्टिमामनन्ति— “ चक्षुर्मानुषं वित्तम् । चक्षुषा हि तद्विन्दते । श्रोत्रं
दैवम् । श्रोत्रेण हि तच्छृणोति ” इति । तत्र दैववित्तमभिप्रेत्य सवर्चसमिति विशे-
ष्यते । वर्चो बलं तद्योगात्सवर्चसं बलवत्त्वं च दैववित्तस्य ब्रह्मज्ञानस्य सर्वसंसार-
निवर्तकत्वादुपपन्नम् । ब्रह्मज्ञानरूपेण दैववित्तेनात्र द्रविणशब्दवाच्येन संपन्नोऽहं
सुमेधा अमृतोक्षितश्च भूयासम् । शोभना मेधा ब्रह्मज्ञानप्रतिपादकग्रन्थतदर्थावधार-
णशक्तिर्यस्य मम सोऽहं सुमेधाः । अत एवाहममृतेन ब्रह्मानन्दरसेनोक्षितः सेचितः।
इत्यहं वृक्षस्येत्यादिमन्त्रस्त्रिशङ्कुनामकस्य मुनेर्मतं वेदानुवचनं वेदस्य गुरुपूर्वकमध्यय-
नमनु पश्चाद्वचनं ब्रह्मयज्ञस्वाध्यायस्तप इत्यर्थः ॥
इति श्रीमत्सायणाचार्यविरचिते श्रीबुक्कणसाम्राज्यधुरंधरमाधवविद्यारण्यपरमे-
श्वरसंबन्धिनेवेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये सप्तम-
प्रपाठके सांहित्यामुपनिषदि दशमोऽनुवाकः ॥ १० ॥
अथ सप्तमे एकादशोऽनुवाकः ।
दशमे ब्रह्मयज्ञप्रतिनिधित्वेन जप्यो मन्त्र उक्तः । ततो मन्दप्रज्ञस्यापि सुकरो
ब्रह्मयज्ञः । तथा तस्य “ऋतं च स्वाध्यायप्रवचने च” इत्येवमुक्तोपासनेन सह श्रौतस्मा-
१ ग, °दिमार्गेष्व्° । २ ग. °माणवे° । ३ ग. घ. °मंते वे° ।