सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 531, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 531

ष्यता । अतोऽक्षरस्य चतुर्धा संदेहे सतीदमेवेत्यध्यवसायो नास्ति नियामकस्य हेतो-
रभावादिति प्राप्ते ब्रूमः—अक्षरस्योद्गीथेन विशेष्यता नियन्तुं शक्यते । ओंकार
ऋग्यजुःसामसु त्रिषु पठ्यते । तत्र कस्योपास्यत्वमित्यपेक्षायामुद्गीथभागगतस्य न
त्वितरस्येति सामवेदगतस्य विशेषणीयत्वात् । अध्यासबाधैक्यपक्षेषु फलमपि कल्पनीयं
प्रसज्येत । स्वतन्त्रोपासनत्वेन फलस्याऽऽकाङ्क्षितत्वात् । विशेषणपक्षे तु वक्ष्यमाणर-
सतमत्वादिगुणोपासनाय प्रतीकत्वेनौकार उद्गीथेन विशेष्यते न तु स्वतन्त्रमुपासनम् ।
तदा न पृथक्कल्पनीयं फलम् । ननूद्गीथशब्दः कृत्स्नभक्तिवाचकः । ओंकारस्तु तदवयवः।
अत ओंकारं विशेषयितुमुद्गीथशब्दे तदंशलक्षणा स्वीकारणीया स्यात् । बाढम् । तथाऽ-
प्यध्यासपक्षात्समीचीनो विशेषणपक्षः । अध्यासपक्षे तु यथा विष्णुशब्दः स्वार्थं सर्वं
परित्यज्यार्थान्तरभूतां शिल्पिप्रतिमां लक्षयति तथोद्गीथशब्दोऽपीति विप्रकर्षः । अंश-
लक्षणायां तु स्वार्थैकदेशस्यैव परित्याग इति संनिकर्षः । ओंकारादितरदक्षरजातं यदस्ति
सोऽयं परित्यक्तव्यस्तदेकदेशः । तस्माद्वेदान्तरगतोंकारव्यावृत्त्यर्थमुद्गीथावयवत्वेनेदम-
क्षरं विशेष्यते ।
अनेन न्यायेनात्रापि ब्रह्मशब्देन मनोमयत्वादिगुणं पृथिव्यादिगुणं शुद्धं चेति
त्रिविधब्रह्मप्राप्तौ सत्यां सगुणत्वं व्यावृत्य शुद्धब्रह्मसमर्पणार्थमोमिति विशेषणम् । ओमि-
त्यनेनैव वाचकेन शब्देन वाच्यं यत्परं ब्रह्म तदुपासितव्यमित्युक्तं भवति । प्रती-
कपक्षे त्वोंकारस्य शब्दात्मकस्य ब्रह्मदृष्ट्योपासनायां शब्दोपासनमेव स्यान्न तु ब्रह्मो-
पासनम् । तथा सति प्रतीकोपासकस्य ब्रह्मलोकप्राप्तिरेव तावन्न संभवति । कुतो ब्रह्म-
तत्त्वप्राप्तिः । तदभावे च ब्रह्मैवोपामोतीति फलवाक्यं बाध्येत । ओंकारवाच्यब्रह्म-
तत्त्वोपासने तु ब्रह्मलोकप्राप्तिर्ब्रह्मतत्त्वज्ञानद्वारेण विदेहमुक्तिलक्षणा ब्रह्मप्राप्तिश्चोप-
पद्यते । तस्मादोंकारवाच्यत्वेन ब्रह्मतत्त्वं विशेषणीयम् । ननु ब्रह्मतत्त्वस्य प्रमाणजन्यं
वेदनमेव संभवति न तूपासनम् । अत एव दहरशाण्डिल्यादिविद्यासु सर्वत्र सगु-
णस्यैव ब्रह्मण उपासनं विधीयते न तु क्वचिदपि शुद्धस्य ब्रह्मतत्त्वस्य । किं च
वेदान्तवाक्येन शुद्धे ब्रह्मतत्त्वेऽवगते सति कृतकृत्यत्वान्नानेनोपासनेन किंचित्प्रयोजन-
मस्ति । नापि ब्रह्मवि²दां कर्तृत्वेऽपगते सत्युपासकत्वं संभवतीति । नायं दोषः ।
द्विविधं हि वेदान्तवाक्यम् । अवान्तरवाक्यं महावाक्यं चेति । जगत्कारणब्रह्मणो
यत्तात्त्विकं रूपं तस्य बोधकमवान्तरवाक्यम् । जीवब्रह्मणोस्तादात्म्यबोधकं महावा-
क्यम् । तत्र महावाक्येन तादात्म्यं विदितवतस्त्वदुक्तरीत्या प्रयोजनाभाव उपास-
कत्वाभावश्च भवतु नाम । यस्त्ववान्तरवाक्यमात्रेण जगत्कारणस्य तत्त्वमात्रं बुध्यते
तस्य तावता कर्तृत्वानपायादुपासकत्वं संभवति । प्रयोजनं च ब्रह्मलोकप्राप्तिर्ब्रह्मतत्त्वा-
१ क. ख. ङ. ॰ब्देन तदंशे लँ । २ घ. ॰विदुः कँ ।