तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 536, कुल 914 में से
संदर्भ में पढ़ें[प्रपा० ७ अनु० १०] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ५३१
अथ सप्तमे दशमोऽनुवाकः ।
नवमेऽनुवाके ब्रह्मोपासनेन समुच्चित्य श्रौतस्मार्तकर्मानुष्ठेयमित्युक्तम् । तत्प्रसङ्गाद्ब्रह्म-
यज्ञस्योत्तमंतपस्त्वमुक्तम् । यस्तु श्रद्धालु॑रपि प्रज्ञामान्द्यादिदोषेण वेदपाठाभावाद्व्रह्मयज्ञे
समर्थो न भवति तस्य ब्रह्मयज्ञफलसिद्धये जप्यं मन्त्रं दशमानुवाके दर्शयति--
अ॒हं वृक्षस्य॒ रेरि॑वा । की॒र्तिः पृ॒ष्ठं गि॒रेरि॑व । ऊ॒र्ध्वप॑वित्रो
वा॒जिनी॑व स्व॒मृत॑मस्मि । द्रवि॑णग्ँ सवर्च॒सम् । सु॒मेधा
अ॒मृतो॑क्षितः । इति त्रिशङ्कोर्वेदानुवचनम् ( १ ), इति ।
अ॒हग्ँ षट् ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके
दशमोऽनुवाकः ॥ १० ॥
वृश्च्यते तत्त्वज्ञानेनोच्छिद्यत इति वृक्षः संसारः । स चाऽऽरुणकेतुकप्रकरणे
केनचिन्मन्त्रेण स्पष्टीकृतः--" ऊर्ध्वमूलमवाक्शाखं वृक्षं यो वेद संप्रति " इति । ऊर्ध्वं
सर्वस्माज्जगत उत्कृष्टं परं ब्रह्म मूलं कारणं यस्य संसारवृक्षस्य सोऽयमूर्ध्वमूलः । अवाञ्चः
सुरनरतिर्यग्देहाः शाखा यस्य सोऽयमवाक्शाखः । कठवल्लीष्वप्याम्नायते--"ऊर्ध्वमूलोऽ-
वाक्शाख एषोऽश्वत्थः सनातनः " इति । अनित्यतया श्वो न तिष्ठतीत्यश्वत्थः । सना-
तनत्वमनादित्वम् । भगवताऽप्यसौ वृक्षोऽभिहितः--
" ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्" ॥ इति ।
मुमुक्षुरहं तस्य संसाररूपस्याश्वत्थवृक्षस्य रेरिवा विषयवैराग्यरूपेण शस्त्रेण च्छेत्ता
भूयासमिति शेषः । "री हिंसायाम् " इति धातोरयं शब्दो निष्पन्नः । वैराग्यशस्त्रेण
च्छेदो भगवतोक्तः--
" अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा ।
ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः " ॥ इति ।
संसारवृक्षे छिन्ने सति मदीया कीर्तिर्गिरेः पृष्ठमिव भवति । यथा पर्वतस्योपरि-
भागोऽत्यन्तमुन्नतः । या मदीया मोक्षविषया कीर्तिरत्यन्तमुन्नता सती देवलोकेष्वपि
प्रसरति । ततो देवा अपि मदीयं पुरुषार्थं विहन्तुं न क्षमन्ते । तथा च श्रूयते -
१ ग. घ. 'त्यन्त उन्न°' ।