सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

.................. भवनस्याग्रतो भुवि ।
गोमयेनोपलिप्तायां गोमूत्रेण तु मण्डलम् ॥
इति । कर्तव्यमिति शेषः । गोमूत्रेण गोमयसहितेन । केव-
लेन वक्ष्यमाणोदक्प्रवणादिसिद्धयसम्भवात् । गोमयसहितेन
कथं कर्तव्यमित्यपेक्षिते शङ्खः—
उदक्प्लवमुदीच्यं स्यात् दक्षिणं दक्षिणप्लवम् । इति ।
उदीच्यं मण्डलमुदक्प्लवं उदकप्रवणम् । दक्षिणं मण्डलं दक्षि-
णप्लवं दक्षिणाप्रवणं यथा भवति तथोक्तक्रमेण कर्तव्यमित्यर्थः।
मण्डलकरणानन्तरं कर्तव्यमाह स एव—
उत्तरेऽक्षतसंयुक्तान् पूर्वाग्रान् विन्यसेत्कुशान् ।
दक्षिणे दक्षिणाग्रांस्तु सतिलान् विन्यसेद्द्विजः ॥
इति । अत्राप्युक्तक्रमेण कर्तव्यम् । अक्षतग्रहणं तु पुष्पाणामपि
प्रदर्शनार्थम् । अतएव मत्स्यपुराणे—
अक्षताभिस्सपुष्पाभिस्तदभ्यर्च्यीपसव्यवत् ।
विप्राणां क्षालयेत्पादावभिवन्द्य पुतःपुनः ॥
अपसव्यवत् प्रदक्षिणं, उदीच्यमण्डले प्रथमं पुष्पाक्षताभिर-
र्चनं पश्चाद्दक्षिणमण्डल इति यावत् । मण्डलकरणं कुशादि-
न्यसनं पादप्रक्षाळनं च पदार्थानुसमयेन कार्यं, न तु का-
ण्डानुसमयेन । पदार्थानुसमये हि सर्वपदार्थानां प्रधानप्रत्या-
सत्तिर्वैषम्येण भवति, न काण्डानुसमये । तेन पदार्थानुस-
मयेनानुष्ठानमुत्सर्गसिद्धं भवति । वचनबलात् क्वचित्काण्डा-

नुसमयेनानुष्ठानमुपरिष्टाद्वक्ष्यते । पादप्रक्षाळने विशेषो ब्रह्मसि-
द्धान्तनिरुक्ते दर्शितः—
पाद्यं चैव तथैवार्घ्यं दैव आदौ प्रयोजयेत् ।
शंनो देवीति मन्त्रेण पाद्यं चैव प्रदापयेत् ॥
पाद्यार्घ्ययोर्दैवपूर्वकत्वाभिधानं निमन्त्रणादीनां सर्वानुष्ठेयानां
प्रदर्शनार्थम् । शं नो देवीति मन्त्रान्ते पुरूरवार्द्रवसंज्ञिका विश्वे-
देवा इदं वः पाद्यमित्युक्त्वा वैश्वदैविकब्राह्मणपादयोः पाद्योदकं
प्रक्षिप्य तत्पादप्रक्षाळनं कुर्यात् । एवं पित्रर्थब्राह्मणपादप्र-
क्षाळनं शं नो देवीति मन्त्रान्ते पितरमुकगोत्र देवदत्तशर्मन्निदं
ते पाद्यं पितामहामुकगोत्र यज्ञदत्तशर्मन्निदं ते पाद्यं प्रपितामहा-
मुकगोत्र विष्णुमित्रशर्मन्निदं ते पाद्यमिति तु विशेषः । पाद्यादि
समर्पणे पितॄणां गोत्रं नाम च वक्तव्यम्—
नाम गोत्रं पितॄणां तु प्रापकं हव्यकव्ययोः ।
इति मत्स्येनाभिधानात् । हव्यकव्यग्रहणं समर्प्याणां पाद्या-
दीनामपि प्रदर्शनार्थम् । अतएवाश्वलायनेनार्घ्यसमर्पणे 'पितरिदं
ते अर्घ्यं पितामहेदं ते अर्घ्यं प्रपितामहेदं ते अर्घ्यम्' इत्यु-
क्तम् । एवं पादप्रक्षाळनं स्वयमेव कुर्यात्—
पादप्रक्षाळनं कुर्यात्स्वयमेव विनीतवत् ।
इति यमस्मरणात् । पादप्रक्षाळनानन्तरं कर्तव्यमाह क्रतुः—
दर्भपाणिर्द्विराचम्य लघुवासा जितेन्द्रियः ।
परिश्रिते शुचौ देशे गोमयेनोपलेपिते ॥

श्राद्धकाण्डे ब्राह्मणोपवेशनम्. 273
दक्षिणाप्रवणे सम्यगाचान्तान् प्रयतान् शुचीन् ।
आसनेषु सदभेषु विविक्तेषूपवेशयेत् ॥
इति । विविक्तेषु परस्परमसंस्पृष्टेषु देशेषु । उपवेशने क्रममाह
विष्णुः — 'विप्रान् स्वागतान् स्वाचान्तान् यथाभूयोविद्यं
कुशोत्तरेष्वासनेषूपवेशयेत्' इति । आसनेषु कम्बळपीठादिषु
कुशोत्तरेषु पूर्वमेवोपरिनिहितकुशेषु यथाभूयोविद्यं विद्या-
तारतम्यानुसारेण वैश्वदेवब्राह्मणपङ्क्तौ च प्रथमद्वितीयानुसारे
णोपवेशयेदित्यर्थः। पूर्वोपक्लृप्तासनेष्वसत्सु स्मृत्यन्तरेऽभिहितम्—
तत्रासनानि देयानि तिलाश्चैव कुशैस्सह ।
पृथक्पृथगासनेषु तिलतैलेन दीपिकाः ॥
इति । स्थापनीया इति शेषः । तत्र श्राद्धदेशे दीपिकास्थाप-
नानन्तरं भोजनपात्रस्थापनस्थानेषु नीवारादिपिष्टैश्चतुरश्राणि
मण्डलानि कुर्यात् । तथाच तत्रैव—
मण्डलानि तु कार्याणि नीवारैश्शणकैश्शुभैः ।
गौरमृत्तिकया वाऽथ प्रणीतेनाथ भस्मना ॥
प्रणीतेन मण्डलार्थं शुभचूर्णतया निर्मितेन । पाषाणचूर्णेन तु
न मण्डलानि कार्याणि—
पाषाणचूर्णसङ्कीर्णमाहृतं तत्र वर्जयेत् ।
इति तत्रैवाभिधानात् । आहृतमापादितमित्यर्थः । मण्डलकर-
णानन्तरं विप्रानासनेषु पूर्वोक्तप्रकारेणोपवेशयेत् । एतदपि तत्रै-
वानन्तरमुक्तम्—
SMRITI CHA.—Vol. V. 35

पाणिपादमुखाद्रीश्च स्वाचान्तान्सुसमाहिताः ।
तेष्वासनेषु संस्थाप्याः विप्रास्तेन क्रमेण तु ॥
येन क्रमेणोपवशने कृते मान्यानतिक्रमः तेन क्रमेणेत्यर्थः ।
अतएव पैठीनसिः—
विद्यातपोऽधिकानां वै प्रथमासनमुच्यते ।
एकपङ्क्त्युपविष्टानां भोजनादि समं स्मृतम् ॥
इति । हारीतोऽपि—
सन्तिष्ठमानेष्वर्हत्सु योऽनर्होऽग्रासनं श्रयेत् ।
गृह्णाति स मलं पङ्क्तेरायुषा च विहीयते ॥
तस्मान्मान्यानतिक्रमेणैवासनविशेषं संश्रयेदित्यभिप्रायः । पू-
र्वोपकॢप्तेष्वासनेषु विप्रोपवेशनपक्षे तूपविष्टेषु दीपिकास्थापनं
मण्डलकरणं च पूर्वोक्तप्रकारेण कार्यम् । आसनेषूपवेशनप्र-
कारमाह यमः—' असनं संस्पृशन् अपसव्येन पाणिना
दक्षिणेन ब्राह्मणमुपसंगृह्य समाध्वमिति चोपवेशयेत्' इति ।
आस्यतामित्युक्त्वा वोपवेशयेत् ।
आस्यतामिति तान् ब्रूयादासनं संस्पृशन्नपि ।
इति स्मृत्यन्तरेऽभिधानात् । उपसंग्रहणस्थाने जान्वारम्भणं,
पित्रर्थब्राह्मणानामुपवेशने मन्त्रं चाह धर्मः—
जान्वारभ्य ततो देवानुपवेश्य ततः पितॄन् ।
समस्ताभिर्व्याहृतिभिरासनेषूपवेशयेत् ॥
जान्वारभ्य दैविकब्राह्मणानत्रास्यतामित्यासनेषूपवेश्य पैतृक-

[Header] श्राद्धकाण्डे ब्राह्मणोपवेशनम् । 275

ब्राह्मणान् जान्वारम्भणपूर्वकं 'भूर्भुवस्स्वः' इत्युक्त्वाऽत्रास्य-
तामित्युपवेशयेदित्यर्थः । अत्र पुराणम्—
विप्रौ तु प्राङ्मुखौ दैव्यौ द्वौतु पूर्वं निवेशयेत् ।
उत्तराभिमुखान् विप्रान् त्रीन् पितृभ्यश्च सर्वदा ॥
इति । दैविकौ विप्रौ प्राङ्मुखौ सर्वदा निवेशयेत् । पित्र-
र्थान् विप्रान् सर्वदा उदङ्मुखान्निवेशयेदित्यर्थः । द्वौ त्रीनिति
स्मृत्यन्तरोक्तब्राह्मणसङ्ख्योपलक्षणार्थम्, अतएव याज्ञवल्क्यः।
द्वौ दैवे प्राक् त्रयः पित्र्ये उदगेकैकमेव वा ।
मातामहानामप्येवं तन्त्रं वा वैश्वदैविकम् ॥
प्राक् प्राङ्मुखावुपवेशनीयौ। उदक् उदङ्मुखा उपवेशनीयाः। माता-
महानामप्येवमित्यस्यायमर्थः—मातामहार्थब्राह्मणानामपि यथो-
क्तसङ्ख्याविकल्पो वक्ष्यमाणनिर्देशसिद्धो वेदितव्य इत्यनु-
सन्धेय इति । तन्त्रं वा वैश्वदैविकमित्यत्र वाशब्दार्थः प्रति-
योगिपक्षान्तरप्रदर्शनमुखेन मरीचिना स्पष्टीकृतः—
तथा मातामहश्राद्धं वैश्वदेवसमन्वितम् ।
कुर्वीत भक्तिसम्पन्नस्तन्त्रं वा वैश्वदैविकम् ॥
इति । वैश्वदेवसमन्वितं मातामहश्राद्धं भक्तिसम्पन्नः आवृत्तं
कुर्वीतेत्यर्थः । अत्र प्राप्ताप्राप्तविवेकेन वैश्वदेवमावृत्तं कुर्वीते-
त्युक्तं भवति । वैश्वदेवेतराङ्गोपेतप्रधानावृत्तेर्न्यायत एव
सिद्धत्वात्, वैश्वदेवे तु तन्त्रावृत्ती पूर्वमसिद्धे इदानीमेव प्र-

276 स्मृतिचन्द्रिकायां

तिपादनीये । एतच्च वाक्यमेवं व्याख्येयं, अन्यथा तन्त्रं वा
वैश्वदैविकमिति पक्षान्तराभिधानाघटनात् । तथाहि पूर्ववाक्ये
आवृत्तिक्षे अनुक्ते पक्षान्तरतया तन्त्राभिधानमनुपपन्नमेव ।
तन्त्रं वा वैश्वदैविकमित्यस्यायमर्थः—वैश्वदैविककर्मानुष्ठानं पितृ-
मातामहश्राद्धद्वयार्थं तन्त्रेण वा कर्तव्यं सकृद्वा कर्तव्यमिति ।
अयन्तु तन्त्रानुष्ठानपक्षः साङ्गयोः पितृमातामहश्राद्धयोः एक-
प्रयोगविधिप्रयोज्यत्वे भवितुमर्हति, न भिन्नप्रयोगविधिप्रयोज्य-
त्वे, ‘भिन्नप्रयोगविधिप्रयोज्येषु पदार्थेषु न तन्त्रता’ इति
तन्त्रचिन्ताध्याये प्रतिपादितत्वात् । ततश्च तन्त्रपक्षोक्त्यैव
पितृमातामहश्राद्धयोरेकप्रयोगविधिप्रयोज्यत्वमप्युक्तम् । एकप्र-
योगविधिप्रयोज्यत्वं चैकाधिकारापूर्वसाधकत्वे भवति, एका-
धिकारापूर्वसाधकत्वमप्यस्मादेव वाक्यादनयोर्ज्ञायते । एतेन चै-
काधिकारापूर्वसाधकत्वमनयोः पाक्षिकमिति वाशब्दात् ज्ञायते ।
तेन भिन्नाधिकारापूर्वसाधकत्वमप्यस्तीति वाशब्दादेवावगन्त-
व्यम् । ततश्च प्रथमं पैतृकश्राद्धं संकल्पप्रभृति ब्राह्मणविसर्ज-
नान्तं कृत्वा पश्चान्मातामहश्राद्धं संकल्पप्रभृति ब्राह्मणविसर्ज-
नान्तं कार्यमित्यस्मादेववाक्यात् ज्ञायते । न च वाच्यं भक्ति-
संपन्न इति वचनात् भक्तचभावे मातामहश्राद्धं न कर्तव्यमिति ।
पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवम् ।
अविशेषेण कर्तव्यं विशेषात्नरकं व्रजेत् ॥
इति स्मरणात् । अतएव श्राद्धद्वयेऽपि यथा सामर्थ्यमवैषम्येण

विप्रसंख्यादिकं पुराणे दर्शितम्—
पञ्चभिः पञ्चभिर्विप्रैः द्वाभ्यां द्वाभ्यामथापि वा ।
श्राद्धद्वयं त्रिभिर्वा स्यादेकैकेनाथ वा पुनः ॥
साङ्गप्रधानस्य पृथक्पृथगनुष्ठानपक्षे यदा पित्र्ये श्राद्धे द्वौ
विप्रौ दैवे, पित्र्ये त्रीन् विप्रानुपवेशयेत् तदा मातामहश्राद्धे
तथैवोपवेशयेत् । यदा तु पित्र्ये श्राद्धे एकं विप्रं दैवे पित्र्ये
चैकं विप्रमुपवेशयेत्, तदा मातामहश्राद्धे तथैवोपवेशयेत् ।
यदा तु श्राद्धद्वयस्य सहानुष्ठानपक्षः तदा वैश्वदैविकब्राह्मण-
द्वयालाभे एकमेव ब्राह्मणं श्राद्धद्वयवैश्वदेवार्थमुपवेश्य तदर्थ-
परिशिष्टमन्नं विश्वान् देवानुद्दिश्य सकृदेव त्याज्यं, यदा तु
श्राद्धद्वयार्थमेकस्यैव ब्राह्मणस्य लाभः तदावर्गद्वयार्थमुपवेश्य
श्राद्धद्वयाङ्गभूतवैश्वदैविकार्थमन्नं पात्रे समुद्धृत्य वैश्वदैविकब्रा-
ह्मणस्थाने निधाय पूर्ववत्त्याज्यम् । न तु पित्र्यश्राद्धे माता-
महश्राद्धे ब्राह्मणसंख्यादिना वैषम्यं सर्वथा कार्यमिति वच-
नस्य तात्पर्यार्थः प्रत्येतव्यः । एवं श्राद्धद्वये उपवेशनायोक्त-
सङ्ख्यानुसारेणैव निमन्त्रणकाले ब्राह्मणनिमन्त्रणं कार्यम्,
तथाच वृद्धवसिष्ठोपि—
श्राद्धद्वयं करिष्यंस्तु दश वा चतुरोपि वा ।
त्रीन्वा निमन्त्रयेद्विप्रान् द्वावेकं ब्रह्मवादिनम् ॥
इति । उपवेशनायोद्युक्तान् ब्राह्मणान् प्रत्याह यमः—
दक्षिणासंस्था आसीरन्नस्पृशन्तः परस्परम् ।

इति । दक्षिणासंस्था इत्यस्य न दक्षिणासंस्थापरत्वं, किन्तु
प्राक्संस्थापरत्वमवसेयम् । प्राक्संस्थत्वेऽभिधित्सितेऽपि द
क्षिणासंस्थेत्युक्तिः पित्रर्थब्राह्मणविषयतां द्योतयितुं कृता । अत
एव स्मृत्यन्तरम्—
पश्चार्धात्समुपक्रम्य प्राच्यां निष्ठा यथा भवेत् ।
दक्षिणासंस्थता ह्येषा पितॄणां श्राद्धकर्मणि ॥
इति । निष्ठा समाप्तिः । वैश्वदैविकब्राह्मणांस्तु प्रत्याह बोधा-
यनः— 'प्रदक्षिणं तु दैवानाम्' इति । दैवानां ब्राह्मणानां
प्रदक्षिणं दक्षिणादिक्रमक्रममुदगपवर्गं च यथा भवति तथा
आसीरन्नित्यर्थः । उभयार्थब्राह्मणान् प्रति स्मृत्यन्तरेऽभिहितम्—
पवित्रपाणयस्सर्वे ते च मौनव्रतान्विताः ।
उच्छिष्टोच्छिष्टसंस्पर्शं वर्जयन्तः परस्परम् ॥
इति । ते विप्रास्सर्वे देवार्थाः पित्रर्थाश्च पवित्रपाणयो मौ-
नव्रतान्विताः प्रमादसम्भवं परस्परमुच्छिष्टोच्छिष्टसंस्पर्शं व-
र्जयन्तः आ भोजनसमाप्तेर्वर्तेरन्नित्यर्थः । चशब्दाच्छ्राद्धकर्ताऽपि
मौनव्रतान्त्यस्य कचिद-
पवादमाह यमः—
ब्रह्मोद्याश्च कथाः कुर्युः पितॄणामेतदीप्सितम् ।
इति । पैठीनसिरप्युपवेशनायोयुक्तब्राह्मणान् प्रत्याह—
नानियुक्तोग्रासनं गच्छेत्पङ्क्त्या हरति दुष्कृतम् ।
इति । अत्रास्यतामिति श्राद्धकर्त्रा न नियुक्तो योसावनियुक्तः ।

अग्रासनं प्रथमासनम् । अनुपविष्टदशायामपि परस्परसंस्पर्शो
यथा न भवति तथा वर्तितव्यमित्याह गौतमः—
परस्पर्शे भवेत्पापमेकपङ्क्तिनियोगतः ।
हीनवृत्तादिपङ्कौ तु युक्तं तस्माद्विवेचनम् ॥
इति । अत्र यमः—
भिक्षुको ब्रह्मचारी वा भोजनार्थमुपस्थितः ।
उपविष्टेष्वनुप्राप्तः कामं तमपि भोजयेत् ॥
इति । भिक्षुकोयतिः । तथाच छागलेयः—
पूजयेच्छ्राद्धकालेऽपि यतिं सब्रह्मचारिणम् ।
विप्रानुद्धरते पापात्पितॄन् मातृगणानपि ॥
वृद्धशातातपोपि—
आतिथ्यरहिते श्राद्धे भुञ्जते ये बुधा द्विजाः ।
वृथा तेनान्नपाकेन काकयोनिं व्रजन्ति ते ॥
इति । आतिथ्यरहिते अतिथिलक्षणलक्षितविप्रागमनेऽपि तत्पू-
जारहिते । तस्मादुपविष्टब्राह्मणैस्सह सत्यवकाशे तत्समीपे
भिक्षुको ब्रह्मचारी अतिथिश्च पित्रर्थविप्रानुप्रवेशेनैव भोज-
यितव्यः । तथाच पुराणे निमन्त्रितब्राह्मणभोजनं विधायाभि-
हितम्—
शेषान्वित्तानुसारेण भोजयेदन्यवेश्मनि ।
इति । शेषान् निमन्त्रितव्यतिरिक्तानतिथिप्रभृतीन् । एतच्चाति-
थिभोजनमतिथिलक्षणलक्षिते आगते सति द्रष्टव्यं, न पुनः

‘काकयोनिं व्रजन्ति ते’ इति दोषश्रवणात् कल्पयित्वाऽप्य-
तिथिः कर्तव्यः । यस्त्वतिथिलक्षणहीनो भोजनयाचनादिना
श्राद्धविघ्नं करोति तस्य दोषमाह हारीतः—
चतुर्णां दुष्कृतं हरति ब्राह्मणो विघ्नकारकः ।
अन्नस्यान्नपतेः पङ्क्तेर्भोजनाकाङ्क्षिणां तथा ॥
इति । भोजनाकांक्षिणः कृते श्राद्धे भोजनाकांक्षिणः । श्राद्ध-
कर्तुर्बान्धवा इति यावत् ।
इति स्मृतिचन्द्रिकायां निमन्त्रितब्राह्मणोपवेशनम् .

अथावान्तरसङ्कल्पादिकृत्यम् .
तत्र पुराणम्—
श्राद्धभूमौ गयां ध्यात्वा ध्यात्वा देवं गदाधरम् ।
ताभ्यां चैव नमस्कृत्य ततः श्राद्धं प्रवर्तयेत् ॥
श्राद्धावान्तरसङ्कल्पं कुर्यादित्यर्थः । अत्रावान्तरसङ्कल्पः उप-
विष्टब्राह्मणानुज्ञालाभार्थं, तथाच तत्रैवोक्तम्—
उभौ हस्तौ समौ कृत्वा जानुभ्यामन्तरे स्थितौ ।
समप्रश्रयोपविष्टान् सर्वान् पृच्छेत् द्विजोत्तमान् ॥
नमस्काराञ्जलिकरणादुभौ हस्तौ समौ जान्वोरन्तरे यथा स्थितौ
स्यातां तथा कृत्वा सप्रश्रयः नमस्कारांजलिबन्धनादिविनय
सम्पन्नो निमन्त्रितानुपविष्टान् द्विजोत्तमान् सर्वान् पृच्छेदि-
त्यन्वयः । कथं पृच्छेत्कथं च तैरूत्तरं देयमित्यपेक्षिते तत्रैवोक्तं—

[Page Header]
६ तत्सङ्कल्पादिकृत्यम्. 281

श्राद्धं करिष्ये इत्येवं पृच्छेद्दिप्रान् समाहितः ।
कुरुष्वेति च तैरूक्तो दद्याद्दर्भासनं तदा ॥
इति । दर्भासनदानात्पूर्वं 'देवताभ्यः पितृभ्यश्च' इति मन्त्रः
त्रिरावर्तनीयः । तथाच ब्रह्माण्डपुराणे—
देवताभ्यः पितृभ्यश्च तथा योगिभ्य एव च ।
नमस्स्वधायै स्वाहायै नित्यमेव भवत्विति ॥
आद्यासने तु श्राद्धस्य त्रिरावृत्तं जपेत्सदा ।
पठ्यमानमिदं श्रुत्वा श्राद्धकाल उपस्थिते ॥
पितरः क्षिप्रमायान्ति राक्षसाः प्रद्रवन्ति च ।
चशब्दादसुराः पिशाचाः प्रद्रवन्तीति सूचितम् । राक्षसादी-
नामपनुत्तये कर्तव्यानन्तरमाह निगमः—'अपहता इति तिलान्
विकिरेत्' इति ।
अपहता असुरा रक्षांसि पिशाचा ये क्षयन्ति पृथिवीमनु ।
अन्यत्रेतो गच्छन्तु यत्रैषां गतं मनः ॥
इति मन्त्रलिङ्गादसुरादीनामपहत्यर्थमनेन मन्त्रेण तिलविकिरणं
कर्तव्यमिति गम्यते । श्राद्धे दैवपूर्वकं सर्वमनुष्ठानं राक्षसा
द्यपनुत्तये कर्तव्यमित्याह क्रतुः—
सदैवं भोजयेच्छ्राद्धं तत्पूर्वं च प्रवर्तयेत् ।
अन्यथा ह्यवलुम्पन्ति सदैवासुरराक्षसाः ॥
सदैवं श्राद्धं वैश्वदैविककर्मोपेतम् । सदैव सर्वदैव । मनुरपि—
देवकार्याद्दिजातीनां पितृकार्यं विशिष्यते ।
SMRITI CHA.—VOL. V. 36

दैवं हि पितृकार्यस्य पूर्वमाप्यायनं स्मृतम् ॥
तेषामारक्षभूतं तु दैवं पूर्वं नियोजयेत् ।
रक्षांसि विप्रलुम्पन्ति श्राद्धमारक्षवर्जितम् ॥
इति । देवकार्यात्पितृकार्यं विशिष्यते, देवकार्यस्याङ्गत्वात्पि-
तृकार्यस्य प्रधानत्वादित्यभिप्रायः । पूर्वमाप्यायनं दैवं कर्म
पूर्वानुष्ठेयं पितृकार्यस्योपबृंहकं उपकारि तदङ्गमिति यावत् ।
एवञ्च कुरुष्वेत्यनुज्ञानन्तरं 'देवताभ्यः पितृभ्यश्च' इति मन्त्र-
मुक्त्वा 'अपहताः' इति मन्त्रेण श्राद्धभूमौ तिलान् विकीर्य
प्रथमं वैश्वदैविकब्राह्मणासनार्थं दर्भासनं दद्यादित्यनुष्ठानक्रमो
वेदितव्यः। दर्भासनदानं च ब्राह्मणहस्ते अप आसिच्य कार्यम् ।
पाणिप्रक्षाळनं दत्वा विष्टरार्थान् कुशानपि ।
आवाहयेदनुज्ञातो विश्वे देवास इत्यृचा ॥
इति याज्ञवल्क्यस्मरणात् । विष्टरार्थान् कुशान् आसनार्थान्
कुशान् । यद्यपि पाणिप्रक्षाळनार्थमुदकं ब्राह्मणहस्ते दत्वा
विष्टरार्थान् कुशानपि तत्रैव दत्वा आवाहयेदिति शब्दब-
लात्प्रतिभाति । तथापि विष्टरार्थान् कुशानासने दत्वेति
विष्टरार्थपदसामर्थ्यादर्थः प्रत्येतव्यः । अत एव प्रचेताः—
दर्भांश्चैवासने दद्यान्न तु पाणौ कदाचन ।
इति । यत्तु तेनोक्तम्—
देवानामृजवो दर्भाः प्रदातव्याः पृथक् पृथक् ।
धर्मोऽसीत्यथ मन्त्रेण गृह्णीयुस्ते तु तान् कुशान् ॥

इति । तस्यायमर्थः—पूर्वोपकॢप्तासनेषूपविष्टा आसनान्तरा-
नाकांक्षा अपि धर्मोसीति मन्त्रमुच्चार्य तान् कुशानप्यासनाथँ-
तया मनसा स्वीकुर्युः, न तु पाणिनेति । अतो न पूर्वापर-
विरोधः । देवस्वामिनाऽप्यविरोधार्थमेवमुक्तं—'पाणौ दर्भदान-
प्रतिषेध आसनास्तरणार्थदर्भविषयः, मन्त्रेण ग्रहणविधानसा-
मर्थ्याद्याज्ञवल्क्यवचनाच्च विष्टरार्था दर्भाः पाणावेव देयाः'
इति, तदयुक्तम्—आसनास्तरणार्थदर्भाणामासने प्रक्षेप्याणां
हस्ते दानाप्रसक्तेस्तत्र प्रतिषेधानवकाशात् ,
आसने चासनं दद्याद्वामे वा दक्षिणेऽपि वा ।
इति विष्टरार्थदर्भाणामासने निधानविधायकादिपुराणवचनवि-
रुद्धत्वाच्च । अत्र वाम इति पित्रर्थब्राह्मणासनदानविषयम् ।
दक्षिणं इति देवार्थब्राह्मणासनदानविषयम् । तथाचानन्तर-
मुक्तं तत्रैव—
पितृकर्मणि वामे वै दैवकर्मणि दक्षिणे ।
इति । वामे आसनस्य वामभागे । दक्षिणे दक्षिणभागे ।
दैविककर्मणि यवसहितं दर्भासनं दद्यात्, 'देवानां सयवा
दर्भाः' इति काठकेऽभिधानात् । आसनस्य दक्षिणे भागे पुरूर-
वार्द्रवसंज्ञकानां विश्वेषां देवानामिदमासनमिति दर्भासनं दद्यात् ।
तथा च श्लोकसङ्ग्रहकारः—
अक्षय्यासनयोष्षष्ठी द्वितीयाऽऽवाहने स्मृता ।
अन्नदाने चतुर्थी स्यात् शेषास्सम्बुद्धयस्स्मृताः ॥

इति । दर्भासनदानान्तरं गद्यसङ्ग्रहकारः—'ततः पुनरपो
दत्त्वा दैवे क्षणः क्रियतामिति कर्ता, ओं तथेति विप्रो
ब्रूयात् । प्राप्नोतु भवानिति कर्ता पुनर्ब्रूयात् । प्राप्नवानीति
विप्रः पुनर्ब्रूयादिति । एतत्तु निमन्त्रणं ब्राह्मणहस्तमङ्गुष्ठव्य-
तिरिक्तं गृहीत्वा कर्तव्यं—
निरङ्गुष्ठं गृहीत्वा तु विश्वान् देवान् समाह्वयेत् ।
इति पुराणेऽभिधानात् । निरङ्गुष्ठं गृहीत्वा निमन्त्रणे कृते
सत्यनन्तरं विश्वान् देवान् समाह्वयेदित्यर्थः । आवाहनप्रका-
रमाह यमः—
यवहस्तस्ततो देवान्विज्ञाप्यावाहनं प्रति ।
आवाहयेदनुज्ञातो विश्वेदेवास इत्यृचा ॥
विश्वेदेवाशृणुतेमं मन्त्रं जप्त्वा ततोऽक्षतान् ।
ओषधय इति मन्त्रेण विकिरेत्तु प्रदक्षिणम् ॥
इति । श्राद्धकर्ता गृहीतयवः पुरूरवार्द्रवसंज्ञकान् विश्वान्
देवानावाहयिष्यामीति विशेषनाम्ना सामान्यनाम्ना च देवा-
नामावाहनं वैश्वदेवब्राह्मणेभ्यो विज्ञाप्य तैरावाहयेत्यनुज्ञातो
'विश्वेदेवास आगत' इत्यनया ऋचा विश्वान् देवान्
ब्राह्मणेष्वावाह्य यवान् ब्राह्मणस्य दक्षिणपादे सव्यपादे
दक्षिणजानुनि सव्यजानुनि दक्षिणेऽंसे सव्येऽंसे शिरसि च
समारोप्य ब्राह्मणेषु विश्वान् देवानागतान् ध्यात्वा 'विश्वे
देवाश्शृणुत' इति मन्त्रं जपित्वा प्रदक्षिणं दक्षिणपादादि-

मस्तकान्तं ‘ओषधयः प्रतिमोदध्वम्’ इति मन्त्रेणाक्षतान्
विकिरेत् आरोपयेदित्यर्थः । एवमुक्तो यवाक्षतारोपप्रकारः
प्रचेतसा पुष्पारोपणमुदाहृत्य दर्शितं—
पादप्रभृति मूर्धान्तं देवानां पुष्पपूजनम् ।
इति । अनुज्ञापनानुज्ञानप्रकारः कात्यायनेन सामान्यनाम्ना
दर्शितः ‘विश्वान् देवान् आवाहयिष्यामीति पृच्छत्यावाह-
येत्यनुजानाति’ इति । विशेषनाम्नाऽनुज्ञापनप्रकारस्तु ‘पुरूर-
वार्द्रवसंज्ञकान्’ इत्येवंरूपः स्वयमूह्यः । विशेषनामानि च
बृहस्पतिना दर्शितानि—
क्रतुर्दक्षो वसुस्सत्यः कालः कामस्तथैव च ।
धुरिश्च रोचनश्चैव तथा चैव पुरूरवः ॥
आर्द्रवश्च दशैते तु विश्वे देवाः प्रकीर्तिताः ॥
श्राद्धेषु विभज्येति शेषः । तथाच शङ्खः—
इष्टिश्राद्धे क्रतुर्दक्षः संकीर्त्यौ वैश्वदैविके ।
नान्दीमुखे सत्यवसू काम्ये तु धुरिलोचनौ ॥
पुरूरवार्द्रवौ चैव पार्वणे समुदाहृतौ ।
नैमित्तिके कालकामावेवं सर्वत्र कीर्तयेत् ॥
इति । इष्टिश्राद्धं यागादिकर्माङ्गं, श्रौतस्मार्तकर्मणामाधानसो-
मयागपुंसवनसीमन्तादीनामादौ तदङ्गत्वेनानुष्ठीयमानं श्राद्धमिति
यावत् ।
निषेककाले सोमे च सीमन्तोन्नयने तथा ॥

286 स्मृतिचन्द्रिकायां

ज्ञेयं पुंसवने श्राद्धं कर्माङ्गं वृद्धिवत्कृतम् ॥
इति कर्माङ्गश्राद्धलक्षणमभिदधता पारस्करेणैव वृद्धिवत्कृत-
मित्यभिधानात् कर्माङ्गश्राद्धं वृद्धिश्राद्धादन्यदिति दर्शितम् ।
नान्दीमुखं नान्दीमुखसंज्ञकपितृदेवताकं वृद्धिश्राद्धमिति यावत् ।
एवं प्रदक्षिणीकृत्य वृद्धौ नान्दीमुखान् पितॄन् ।
यजेत.......................................... ॥
इति याज्ञवल्क्येन वृद्धिश्राद्धे नान्दीमुखसंज्ञकपितॄणां देवता-
त्वेन विधानात् । वृद्धिश्राद्धं च वृद्धवसिष्ठेन निरूपितम्—
पुत्रजन्मविवाहादौ वृद्धिश्राद्धमुदाहृतम् ।
इति । पुत्रजन्मविवाहादौ क्रियमाणमाभ्युदयिकं श्राद्धं वृद्धि-
श्राद्धमिति व्यपदिश्यत इत्यर्थः । आदिशब्देन गर्भाधानपुं-
सवनसीमन्तव्यतिरिक्तानामन्नप्राशनचूडाकरणादिसंस्कारकर्मणां
सङ्ग्रहणं, गर्भाधानपुंसवनसीमन्तेषु क्रियमाणाभ्युदयिकश्राद्ध-
स्य कर्माङ्गश्राद्धकोटिप्रविष्टत्वात् । काम्यं फलकामनयाऽनुष्ठेयं
महालयादिश्राद्धम्,
पुत्रानायुस्तथाऽऽरोग्यमैश्वर्यमतुलं तथा।
प्राप्नोति पञ्चमे दत्वा श्राद्धं कामांश्च पुष्कलान् ॥
इति पञ्चमपक्षे कन्यागते सूर्ये महालयाख्यश्राद्धस्य पुत्रा-
दिकाम्यफलसाधकत्वस्मरणात् । पार्वणश्राद्धं सर्वश्राद्धप्रकृति-
भूतममावास्याश्राद्धम् । तथाच शातातपः —
दर्शश्राद्धं तु यत्प्रोक्तं पार्वणं तत्प्रकीर्तितम् ।

श्राद्धकाण्डे अवान्तरसङ्कल्पादिकृत्यम्. २८७
इति ।
एकोद्दिष्टं तु यच्छ्राद्धं तन्नैमित्तिकमुच्यते ।
इतिवचनान्नैमित्तिकपदेनात्रैकोद्दिष्टश्राद्धमुक्तमिति यद्यपि प्रति-
भाति । तथाऽपि तद्वचनोत्तरार्धे,
तदप्यदैवं कर्तव्यमयुग्मानांशयेद्विजान् ।
इति पूर्वार्धोक्तैकोद्दिष्टश्राद्धे वैश्वदैविकनिषेधेन तत्र कालका-
मसंज्ञया विश्वेषां देवानां निर्देशः कार्य इति विध्यसंभवात्
योगरूढ्या प्रतीयमानमेकोद्दिष्टं हित्वा निमित्ते भवं नैमि-
त्तिकमिति योगमाश्रित्य नैमित्तिकपदेन नवान्नलाभादिनिमित्ते
सति पितृभ्यो भक्त्या क्रियमाणं श्राद्धमुक्तमित्यवगन्तव्यम् ।
अथवा—नैमित्तिकपदेनैकोद्दिष्टाभिधायकेन सपिण्डीकरणं ल-
क्षणया निर्दिश्यते, सपिण्डीकरणे एकोद्दिष्टस्यापि सद्भावात् ।
एवञ्च—सपिण्डीकरणे विश्वेषां देवानां आवाहनार्थं काल-
कामसंज्ञया निर्देशः कार्यः । ‘एवं सर्वत्र कीर्तयेत्’ एवमु-
क्तरीत्या सर्वश्राद्धेषु नामग्रहणस्थाने कीर्तयेदित्यर्थः । आ-
दिपुराणे विशेषनामानि दर्शितानि—
विश्वेदेवौ ऋतुर्दक्षः सर्वास्विष्टिषु कीर्तितौ ।
नित्यं नान्दीमुखश्राद्धे वसुसत्यौ च पैतृके ॥
नवान्नलम्भने देवौ कालकामौ सदैव हि ।
अपि कन्यागते सूर्ये श्राद्धे च धुरिलोचनौ ॥
पुरूरवार्द्रवौ चैव विश्वेदेवौ च पार्वणे ।

288 स्मृतिचन्द्रिकायां

इति । सर्वास्विष्टिषु सर्वेषु कर्माङ्गश्राद्धेषु नवान्नलम्भने पैतृके
नवान्नलाभरूपनिमित्ते सति, नवान्नभोजनोपक्रमात् पूर्वं पितृ-
भक्त्या नवान्नेन क्रियमाणश्राद्धवत्। तच्च निमित्ताधिकारेण क्रि-
यमाणानां विश्वेदेवसमन्वितानां श्राद्धानामुपलक्षणार्थम् । कन्या-
गते सूर्ये श्राद्धे पुत्रादिफलकामनया क्रियमाणमहालयाख्य
इत्यर्थः । एतच्च सर्वकाम्यश्राद्धोपलक्षणतयोक्तम् । पार्वणे
अमावास्यायां क्रियमाणे पार्वणश्राद्धे इति । क्रतुदक्षसत्यादीनां
च दक्षप्रजापतेर्दुहितरि विश्वाख्यायां लोकविश्रुतायामुत्पत्ति-
स्समभूदित्यत्पत्तिमपि ज्ञात्वा आवाहनं कार्यम् । अतएवैषा-
मुत्पत्तिः पुराणेऽभिहिता—
दक्षस्य दुहिता साध्वी विश्वा नाम परिश्रुता ।
तस्याः पुत्रा महात्मानो विश्वे देवा इति श्रुताः ॥
एवमुक्तोत्पत्तिरावाहनसमये ज्ञातव्येत्यभिप्रायः । अतएव क्रतु-
दक्षादिसंज्ञां दक्षदुहितुरुत्पत्तिं च ये न विदुः तेषामनुकल्पमाह
शङ्खः—
नाम चैव तथोत्पत्तिं न विदुर्ये द्विजातयः ।
श्लोकमेतं पठेयुस्ते ब्राह्मणानां समीपगाः ॥
आगच्छन्तु महाभागा विश्वेदेवा महाबलाः ।
ये ह्यत्र विहिताश्श्राद्धे सावधाना भवन्तु ते ॥
इति । आगच्छन्तु महाभागा इति मन्त्रं वैश्वदैविकब्राह्मण-
समीपस्थाः 'विश्वे देवासश्शृणुतेमम्' इति मन्त्रजपानन्तरं जपे-
युरित्यर्थः । तथाच पुराणम्—

श्राद्धकाण्डे अवान्तरसङ्कल्पपाद्यः. 289

तथा मन्त्रं जपेन्मौनी विश्वेदेवास आगत ।
विश्वेदेवाश्शृणुतेति द्वितीयं तदनन्तरम् ॥
तृतीयं तु जपेन्मन्त्रं आगच्छन्त्वित्यतःपरम् ।
इति । विश्वेदेवास इत्यनया ऋचा प्रथममावाह्य तदनन्तरं
विश्वेदेवाश्शृणुतेति मन्त्रं जपेदित्यन्वयः । यद्यपि कर्माङ्गश्रा-
द्धादिषु न क्वापि दश विश्वेदेवा देवतात्वेन स्मृतिपुराणा-
भ्यामभिहिताः, किन्तु द्वौद्वावेकैकस्मिन् श्राद्धे देवतात्वेनोक्तौ ।
तथाप्यावाहनादौ पुरूरवार्द्रवसंज्ञकान् विश्वान् देवानावाहयि-
ष्यामीत्येवं बहुवचनान्ततयैव प्रयोगः कार्यः 'विश्वान्देवाना-
वाहयिष्यामीति निरङ्गुष्ठं गृहीत्वा विश्वान् देवान् समाह्व-
येत्' इत्यादिस्मृतिपुराणेषु बहुवचनान्ततयैव प्रयोगदर्शनात् ।
यथा एकस्मिन् पितरि पितामहे प्रपितामहे वा आवाह-
नादिसर्वोपचारेषु पितरः पितामहाः प्रपितामहा इदं व आ-
सनमित्यादिबहुवचनान्तोपि प्रयोगः पूजार्थं यथा नानुपपन्नः
तथा द्वयोरपि पूजार्थं बहुवचनान्तप्रयोगो युक्त एव । वैश्व-
दैविकब्राह्मणानामनेकत्वेऽपि न प्रतिब्राह्मणमावाहनावृत्तिः, स-
कृदावाहनेनैवानेकब्राह्मणाधिष्ठानदेवताध्याससम्भवात् । आवा-
हनादूर्ध्वं तु प्रतिब्राह्मणं देवताध्यासात् ब्राह्मणभेदे सति
तदुपाधितो देवताया अपि भेदो भवति, तेनावाहनोत्तर-
काले यद्देवताराधनं क्रियते यवारोपणादि सन्निपत्योपका-
रकं तत्पुरोडाशप्रदानादिवत्प्रतिब्राह्मणमावर्तनीयं, सन्निपत्योप-

Smriti Cha.—Vol. V. 37

कारकेष्वावृत्तिं विना ब्राह्मणान्तरे कार्यासद्धेः । विश्वेदे-
वाश्शृणुतेमम्' इति मन्त्रजपस्त्वावाहनाेत्तरकाले क्रियमाणोपि
नावर्तते, सकृज्जपेनैव जपसाध्यादृष्टसिद्धेः ॥
इति स्मृतिचन्द्रिकायां अवान्तरसङ्कल्पादि
वैश्वदैविकावाहनान्तकृत्यम्.
अथ वैश्वदैविकार्चनविधिः.
तत्र याज्ञवल्क्यः—
यवैरन्ववकीर्याथ भाजने सपवित्रके ।
शन्नो देव्या अपः क्षित्त्वा यवोसीति यवांस्तथा ॥
इति । अयमर्थः—वैश्वदैविकब्राह्मणयोः पादाद्यङ्गेषु यवान्
समारोप्य ‘विश्वेदेवाश्शृणुत’ इत्यादिकं जपित्वा अर्घ्यभा-
जने द्वे उत्ताने विधाय तत्रैकैकस्मिन् भाजने द्विदर्भमेकैकं
पवित्रं प्रागग्रमुदग्रं वा निधाय ‘शन्नो देवीरभिष्टये’ इत्यृचा
प्रतिपात्रं जलं निषिच्य.
यवोसि धान्यराज त्वं वारुणो मधुसंयुतः ।
निर्णोदस्सर्वपापानां पवित्रमृषिभिः कृतम् ॥
इति मन्त्रेण यवान् प्रतिपात्रं प्रक्षिपेत् । तथाऽन्यदपि गन्धादिकं
क्षिपेदिति । अत्राद्यपादस्यार्थो मत्स्यपुराणे स्पष्टमुक्तः—
विश्वान् देवान् यवैः पुष्पै्रभ्यर्च्यासनपूर्वकम् ।