सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 297, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 297

विप्रसंख्यादिकं पुराणे दर्शितम्—
पञ्चभिः पञ्चभिर्विप्रैः द्वाभ्यां द्वाभ्यामथापि वा ।
श्राद्धद्वयं त्रिभिर्वा स्यादेकैकेनाथ वा पुनः ॥
साङ्गप्रधानस्य पृथक्पृथगनुष्ठानपक्षे यदा पित्र्ये श्राद्धे द्वौ
विप्रौ दैवे, पित्र्ये त्रीन् विप्रानुपवेशयेत् तदा मातामहश्राद्धे
तथैवोपवेशयेत् । यदा तु पित्र्ये श्राद्धे एकं विप्रं दैवे पित्र्ये
चैकं विप्रमुपवेशयेत्, तदा मातामहश्राद्धे तथैवोपवेशयेत् ।
यदा तु श्राद्धद्वयस्य सहानुष्ठानपक्षः तदा वैश्वदैविकब्राह्मण-
द्वयालाभे एकमेव ब्राह्मणं श्राद्धद्वयवैश्वदेवार्थमुपवेश्य तदर्थ-
परिशिष्टमन्नं विश्वान् देवानुद्दिश्य सकृदेव त्याज्यं, यदा तु
श्राद्धद्वयार्थमेकस्यैव ब्राह्मणस्य लाभः तदावर्गद्वयार्थमुपवेश्य
श्राद्धद्वयाङ्गभूतवैश्वदैविकार्थमन्नं पात्रे समुद्धृत्य वैश्वदैविकब्रा-
ह्मणस्थाने निधाय पूर्ववत्त्याज्यम् । न तु पित्र्यश्राद्धे माता-
महश्राद्धे ब्राह्मणसंख्यादिना वैषम्यं सर्वथा कार्यमिति वच-
नस्य तात्पर्यार्थः प्रत्येतव्यः । एवं श्राद्धद्वये उपवेशनायोक्त-
सङ्ख्यानुसारेणैव निमन्त्रणकाले ब्राह्मणनिमन्त्रणं कार्यम्,
तथाच वृद्धवसिष्ठोपि—
श्राद्धद्वयं करिष्यंस्तु दश वा चतुरोपि वा ।
त्रीन्वा निमन्त्रयेद्विप्रान् द्वावेकं ब्रह्मवादिनम् ॥
इति । उपवेशनायोद्युक्तान् ब्राह्मणान् प्रत्याह यमः—
दक्षिणासंस्था आसीरन्नस्पृशन्तः परस्परम् ।