स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 295, कुल 474 में से
संदर्भ में पढ़ें[Header] श्राद्धकाण्डे ब्राह्मणोपवेशनम् । 275
ब्राह्मणान् जान्वारम्भणपूर्वकं 'भूर्भुवस्स्वः' इत्युक्त्वाऽत्रास्य-
तामित्युपवेशयेदित्यर्थः । अत्र पुराणम्—
विप्रौ तु प्राङ्मुखौ दैव्यौ द्वौतु पूर्वं निवेशयेत् ।
उत्तराभिमुखान् विप्रान् त्रीन् पितृभ्यश्च सर्वदा ॥
इति । दैविकौ विप्रौ प्राङ्मुखौ सर्वदा निवेशयेत् । पित्र-
र्थान् विप्रान् सर्वदा उदङ्मुखान्निवेशयेदित्यर्थः । द्वौ त्रीनिति
स्मृत्यन्तरोक्तब्राह्मणसङ्ख्योपलक्षणार्थम्, अतएव याज्ञवल्क्यः।
द्वौ दैवे प्राक् त्रयः पित्र्ये उदगेकैकमेव वा ।
मातामहानामप्येवं तन्त्रं वा वैश्वदैविकम् ॥
प्राक् प्राङ्मुखावुपवेशनीयौ। उदक् उदङ्मुखा उपवेशनीयाः। माता-
महानामप्येवमित्यस्यायमर्थः—मातामहार्थब्राह्मणानामपि यथो-
क्तसङ्ख्याविकल्पो वक्ष्यमाणनिर्देशसिद्धो वेदितव्य इत्यनु-
सन्धेय इति । तन्त्रं वा वैश्वदैविकमित्यत्र वाशब्दार्थः प्रति-
योगिपक्षान्तरप्रदर्शनमुखेन मरीचिना स्पष्टीकृतः—
तथा मातामहश्राद्धं वैश्वदेवसमन्वितम् ।
कुर्वीत भक्तिसम्पन्नस्तन्त्रं वा वैश्वदैविकम् ॥
इति । वैश्वदेवसमन्वितं मातामहश्राद्धं भक्तिसम्पन्नः आवृत्तं
कुर्वीतेत्यर्थः । अत्र प्राप्ताप्राप्तविवेकेन वैश्वदेवमावृत्तं कुर्वीते-
त्युक्तं भवति । वैश्वदेवेतराङ्गोपेतप्रधानावृत्तेर्न्यायत एव
सिद्धत्वात्, वैश्वदेवे तु तन्त्रावृत्ती पूर्वमसिद्धे इदानीमेव प्र-