स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 292, कुल 474 में से
संदर्भ में पढ़ेंनुसमयेनानुष्ठानमुपरिष्टाद्वक्ष्यते । पादप्रक्षाळने विशेषो ब्रह्मसि-
द्धान्तनिरुक्ते दर्शितः—
पाद्यं चैव तथैवार्घ्यं दैव आदौ प्रयोजयेत् ।
शंनो देवीति मन्त्रेण पाद्यं चैव प्रदापयेत् ॥
पाद्यार्घ्ययोर्दैवपूर्वकत्वाभिधानं निमन्त्रणादीनां सर्वानुष्ठेयानां
प्रदर्शनार्थम् । शं नो देवीति मन्त्रान्ते पुरूरवार्द्रवसंज्ञिका विश्वे-
देवा इदं वः पाद्यमित्युक्त्वा वैश्वदैविकब्राह्मणपादयोः पाद्योदकं
प्रक्षिप्य तत्पादप्रक्षाळनं कुर्यात् । एवं पित्रर्थब्राह्मणपादप्र-
क्षाळनं शं नो देवीति मन्त्रान्ते पितरमुकगोत्र देवदत्तशर्मन्निदं
ते पाद्यं पितामहामुकगोत्र यज्ञदत्तशर्मन्निदं ते पाद्यं प्रपितामहा-
मुकगोत्र विष्णुमित्रशर्मन्निदं ते पाद्यमिति तु विशेषः । पाद्यादि
समर्पणे पितॄणां गोत्रं नाम च वक्तव्यम्—
नाम गोत्रं पितॄणां तु प्रापकं हव्यकव्ययोः ।
इति मत्स्येनाभिधानात् । हव्यकव्यग्रहणं समर्प्याणां पाद्या-
दीनामपि प्रदर्शनार्थम् । अतएवाश्वलायनेनार्घ्यसमर्पणे 'पितरिदं
ते अर्घ्यं पितामहेदं ते अर्घ्यं प्रपितामहेदं ते अर्घ्यम्' इत्यु-
क्तम् । एवं पादप्रक्षाळनं स्वयमेव कुर्यात्—
पादप्रक्षाळनं कुर्यात्स्वयमेव विनीतवत् ।
इति यमस्मरणात् । पादप्रक्षाळनानन्तरं कर्तव्यमाह क्रतुः—
दर्भपाणिर्द्विराचम्य लघुवासा जितेन्द्रियः ।
परिश्रिते शुचौ देशे गोमयेनोपलेपिते ॥