स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
दक्षिणं चरणं विप्रः सव्यं वै क्षत्रियस्तथा ॥
पादावादाय वैश्यो द्वौ शूद्रः प्रणतिपूर्वकम् ।
निमन्त्रयीत पूर्वेद्युः.......................।
इति पुराणस्मरणात् । दक्षिणचरणग्रहणे तु प्रदेशविशेषो
मात्स्ये दर्शितः—
दक्षिणं जानुमालभ्य त्वं मया तु निमन्त्रितः ।
इति ब्रूयादिति शेषः । 'पितॄन् पूर्वं निमन्त्रयेत्' इति निय-
मार्थम् ।
दैवे नियोगे पित्र्ये च तांस्तथैवोपकल्पयेत् ।
इति दैवपूर्वकनिमन्त्रणस्यापि मदालसावाक्येन स्मृतत्वात्,
उपवीती ततो भूत्वा देवतार्थं द्विजोत्तमान् ।
अपसव्येन पित्र्ये तु स्वयं शिष्योऽथवा सुतः ॥
इति बृहस्पतिस्मरणाच्च । निमन्त्रणं प्राक्कर्तव्यम् । तदाह पै-
ठीनसिः—'श्वः श्राद्धं करिष्यामीति संकल्प्य ब्राह्मणान् सप्त
पञ्च वा श्रोत्रियान्निमन्त्रयेत्' इति । सप्त पञ्च वेति पैतृकवै-
श्वदेवब्राह्मणानां मिलितानां सङ्ख्या । अस्यैव वाक्यस्या-
न्त्यभागे 'प्राङ्मुखान् वैश्वदेवानुपवेशयेत् पितॄन् दक्षिणपू-
र्वेण' इत्यभिधानात् । अत्र पैतृके वैश्वदेवे च कथं ब्राह्मणस-
ङ्ख्या विभाग इत्यपेक्षिते अङ्गिराः—
अयुजो भोजयेच्छ्राद्धे न समा दैविके समाः ।
न समास्समसङ्ख्याकाः पित्रर्थे न ग्राह्या इत्यर्थः । अतएव मनुः—
192 स्मृतिचन्द्रिकायां
'द्वौ दैवे पितृकृत्ये त्रीन्' इति । एतत् पञ्चसंख्यापक्षे द्र-
ष्टव्यम् । सप्तसङ्ख्यापक्षे तु चत्वारो दैवे त्रयः पित्र्ये इति
विभाग ऊह्यः । ननु द्वौ दैवे पञ्च पित्र्य इति विभागः कस्मान्न
भवति ? तथाहि—'दैवे युग्मान् यथाशक्ति पित्र्य एकैकस्य'
इति कात्यायनेन पित्र्ये एकैकस्य यथाशक्त्ययुग्मानिति वदता
पितृपितामहप्रपितामहानां प्रत्येकमयुग्मब्राह्मणकल्पनं न पुनस्स-
मुदायस्येति दर्शितम् । ततश्च पञ्चानां 'समं स्यादश्रुतत्वात्'
इति न्यायेन प्रत्येकमयुग्मसंख्यया समविभाग ऊहनीयः । न
यथेष्टम् । न च पित्रादिषु त्रिषु पञ्चानां समतया विभागः
सम्भवति, सम्भवति तु त्रयाणाम् । तस्माच्चत्वारो दैवे, पित्र्ये
तु त्रय इत्येव विभागः कार्यः । पित्रर्थब्राह्मणेष्वेवाधिकसङ्ख्या-
मप्याह शौनकः—'एकैकमेकैकस्य द्वौद्वौ त्रींस्त्रीन् वा' इति ।
द्वौद्वौ इति वृद्धिश्राद्धाभिप्रायम् । पार्वणश्राद्धे तु 'अयुजो
भोजयेच्छ्राद्धे न समान्' इति समसङ्ख्यानिषेधात् । एकैकमेकै-
कस्येति पक्षे पितृकृत्ये त्रयो निमन्त्रणीयाः । त्रींस्त्रीनेकैक-
स्येति पक्षे तु पितृकृत्ये नव निमन्त्रणीयाः । त्रींस्त्रीनेकैकस्येति
पक्षाभिप्रायेण गौतमेनाप्युक्तम्—'नवावरान् भोजयेत्' इति ।
यत्तु मनुरोक्तं—
पूर्वेद्युर्वा परेद्युर्वा श्राद्धकर्मण्युपस्थिते ।
निमन्त्रयीत त्र्यवरान् सम्यग्विप्रान् यथोदितान् ॥
इति, अत्र प्रत्येकमिति शेषो द्रष्टव्यः । ततश्च गौतमवचन-
समानार्थत्वान्न तेनास्य विरोधः । प्रत्येकमित्यध्याहारपरिहा-
राय पितृकृत्ये त्र्यवरानिति व्याख्याने तु 'द्वौ दैवे पितृकृत्ये
त्रीन्' इति स्वोक्तेन पौनरुक्त्यं प्रसज्येतेति तथा व्याख्या-
नमयुक्तम् । त्र्यवरानित्यभिधानात् प्रत्येकं पञ्चसङ्ख्या मध्यमः
पक्षः, प्रत्येकं सप्तसङ्ख्या तूत्तमः पक्ष इति मन्तव्यम् । अत
एव गौतमः—'अयुजो वा यथोत्साहम्' इति । पित्रादिषु
प्रत्येकं पञ्चसङ्ख्या सप्तसंख्या वा यथोत्साहं यथाविभवमयुजो
विप्रान् भोजयेदित्यर्थः । एवञ्च सुसमृद्धतमस्य सत्क्रियादिस-
मर्थस्य सप्तभिस्सप्तभिर्विप्रैः पितृकृत्यं कार्यं, सुसमृद्धतरस्य
पञ्चभिःपञ्चभिर्विप्रैः, सुसमृद्धस्य त्रिभिस्त्रिभिः, समृद्धस्य
त्रिभिरेवेति बोद्धव्यम् । यत्पुनर्मनुनोक्तं—
द्वौ दैवे पितृकृत्ये त्रीन् एकैकमुभयत्र वा ।
भोजयेत्सुसमृद्धोपि न प्रसज्येत विस्तरे ॥
सत्क्रियां देशकालौ च शौचं ब्राह्मणसम्पदम् ।
पञ्चैतान् विस्तरो हन्ति तस्मान्नेहेत विस्तरम् ॥
यच्च बृहस्पतिना—
एकैकमथवा द्वौ त्रीन् दैवे पित्र्ये च भोजयेत् ।
सत्क्रियाकालपात्रादि न सम्पद्येत विस्तरे ॥
इति, यदपि पुराणे—
देशकालवलालाभादेकैकमुभयत्र वा ।
शेषान्वित्तानुसारेण भोजयेदन्यवेश्मनि ॥
194 स्मृतिचन्द्रिकायां
यस्मात् ब्राह्मणबाहुळ्यात् दोषो बहुतरो भवेत् ।
श्राद्धनाशो मौननाशः श्राद्धतन्त्रस्य विस्मृतिः ॥
उच्छिष्टोच्छिष्टसंस्पर्शो निन्दा चाप्यन्नभोक्तृषु ।
वितण्डया परीवादो जल्पास्तेऽपि पृथग्विधाः ॥
इति, शेषान् आमन्त्रितान् अतिथिप्रभृतीन् । तदेतत्सुसमृ-
द्धस्यापि यस्य ब्राह्मणबाहुल्ये सत्क्रियादिसंपादनासार्मथ्यं
तद्विषयम् । यस्य तु सम्पादनसामर्थ्यमस्ति तद्विषयं शौनका-
दिवचनमिति सर्वमनवद्यम् । न चात्रानाढ्यतया व्यवस्था
संभवति, 'द्वौ दैवे पितृकृत्ये त्रीन् एकैकमुभयत्र वा। भोजयेत्सु-
समृद्धोपि' इति मनुना आढ्यविषयेऽप्यल्पसंख्याऽभिधानात् ।
यत्तु शङ्खेनोक्तं—
भोजयेदथवाऽप्येकं ब्राह्मणं पङ्क्तिपावनम् ।
इति, तदेतदनेकब्राह्मणाद्यलाभविषयम् । एवं निरूपितसङ्ख्या-
न्वितान् विप्रान् स्वगृह एव स्थितान् उपगम्य निवेदयेत् ।
तथाचोक्तमत्रिणा—
प्रथमेऽह्नि निवासस्थान् श्रोत्रियादीन्निमन्त्रयेत् ।
कथयेत्तु तदैवैषां नियोगं पितृदैविकम् ॥
सर्वायासविनिर्मुक्तैः कामक्रोधविवर्जितैः ।
भवितव्यं भवद्भिर्नः श्वो भूते श्राद्धकर्मणि ॥
इति । प्रथमेऽह्नि पूर्वेद्युरित्यर्थः । निवासस्थान् स्वकीयनिवा-
सस्थितान् । मात्स्येऽपि—
एतान्निमन्त्र्यनियमान् श्रावयेत्पैतृकान् बुधः ।
अक्रोधनैश्शौचपरैः सततं ब्रह्मचारिभिः ॥
भवितव्यं भवद्भिश्च मयाऽपि श्राद्धकारिणा ।
अक्रोधनैरित्यादिवचनं पठन् पैतृकान् पितृकर्माङ्गभूतान् नि-
मन्त्रितविप्रान् श्रावयेदित्यर्थः । अक्रोधादिनियमः श्राद्धकर्तु-
र्यथा ममावश्यकस्तथा भवतामपीति वक्तुं मयाऽपि श्राद्ध-
कारिणेत्यंशस्यापि पाठः । निमन्त्रितविप्राणां कर्तव्यमाहात्रिः—
ते तं तथेत्यविघ्नेन गतेयं रजनी यदि ।
यथा श्रुतं प्रतीक्षेरन् श्राद्धकालमतन्द्रिताः ॥
निमन्त्रिता विप्रास्तं निमन्त्रणकर्तारं 'तथाऽस्तु यद्यविघ्नेनेयं
रजनी गता' इत्युक्त्वा धर्मशास्त्रादौ यथा नियमजातं श्रुतं
तथैव तन्नियमजातं प्रतीक्षेरन् प्रतिपालयेयुः । श्राद्धकालं
श्चोप्यन्नपरिणामपर्यन्तमित्यर्थः । तथाच प्रचेताः—
स्यादन्नपरिणामात्तु ब्रह्मचर्यं द्वयोस्ततः ।
इति । ब्रह्मचर्यग्रहणं द्वयोर्निमन्त्रितनिमन्त्रकयोर्विहितनियमो-
पलक्षणार्थम् । निराहारनियमस्तु निमन्त्रणप्रभृति श्राद्धकर्म-
परिसमाप्तिपर्यन्तमेवेत्याह अपस्तम्बः—'आरब्धे चाभोजनमा
समापनात्' इति । यत्तु वृद्धमनुनोक्तं—
निमन्त्र्य विप्रान् तदहो वर्जयेन्मैथुनं क्षुरम् ।
प्रमत्ततां च स्वाध्यायं क्रोधाशौचं तथाऽनृतम् ॥
इति, तत् सद्यस्कालश्राद्धविषयम् ।
196 स्मृतिचन्द्रिकायां
निमन्त्रयीत पूर्वेद्युः तदहर्वा द्विजोत्तमान् ।
इति पुराणे सद्यस्कालपक्षस्याप्युक्तत्वात् । अयं च सद्यस्काल-
पक्षः पूर्वेद्युः कथंचिन्निमन्त्रणासम्भवे भवति,
असम्भवे परेद्युर्वा ब्राह्मणांस्तान्निमन्त्रयेत् ।
इति देवलस्मरणात् ।
तस्मात्तु प्रथमं कार्यं प्राज्ञेनोपनिमन्त्रणम् ।
अप्राप्तौ तद्दिने वाऽपि वर्ज्या योषित्प्रसङ्गिनः ॥
इति मदालसावाक्येऽप्युक्तत्वाच्च । उपनिमन्त्रणं सति सम्भवे
पूर्वेद्युः कार्यम् । तत्र कथञ्चिदुपनिमन्त्रणाप्राप्तौ श्राद्धदिने
वा कार्यमित्यर्थः । यदा तु तद्दिने निमन्त्रणं क्रियते तदा
तद्दिन एव निमन्त्रितत्वनिबन्धनत्वान्नियमानुष्ठानं स्यात् । निम-
न्त्रणं कदाचिदन्येनापि कारयेदित्याह यमः—
निमन्त्रयीत सव्येन देवतार्थं द्विजोत्तमान् ।
अपसव्येन पित्र्ये तु स्वयं शिष्योऽथवा सुतः ॥
इति । प्रचेता अपि—
सवर्णं प्रेषयेद्दान्तं द्विजानामुपमन्त्रणे ॥
इति । एतेषु पक्षेषु पूर्वन्यायः श्रेयान्, सर्वाभावे त्वसवर्णमपि
शूद्रव्यतिरिक्तं प्रेषयेत् ।
अभोज्यं ब्राह्मणस्यान्नं वृषलेन निमन्त्रितम् ।
इति यमेन शूद्रनिमन्त्रितस्यैव निषेधस्मरणात् । विशेषप्रति-
षेधस्य सामान्याभ्यनुज्ञानार्थता प्रसिद्धैव । एवञ्च भोज्यान्नेन
श्राद्धकाण्डे श्राद्धदिनात्प्राचीनदिनविषयम्. 197
स्वयं कृतं शिष्यकृतं शूद्रव्यतिरिक्तासवर्णकृतं च निमन्त्रण-
मनिन्द्यं, तच्च भोक्तुं समर्थानां ब्राह्मणानामप्रत्याख्येयम् ।
कामं प्रतिश्रवस्तेषामनिन्द्यामन्त्रणे कृते ।
इति देवलस्मरणात् । अनिन्द्यामन्त्रणे कृते तेषां निमन्त्रि-
तानां काममस्त्विति प्रतिश्रवः प्रतिवचनं कर्तव्यमित्यर्थः । का-
त्यायनेनाप्युक्तं—'अनिन्द्येनामन्त्रिते नापक्रमेत् शक्तेन न
प्रत्याख्यानं कर्तव्यम्' इति । अनेनार्थान्निन्द्यामन्त्रणे भो-
क्तुमसामर्थ्ये च प्रत्याख्यानं कर्तव्यमेवेति गम्यते । अङ्गीकृत-
निमन्त्रणस्याङ्गीकारात्पश्चादपि भोक्तुमसामर्थ्ये सत्यातिक्रमो
युक्त इत्यर्थात् ज्ञापयितुमाह स एव—'विधिवत्केतनं परिगृह्य
शक्तस्सन्नापक्रमेत्' इति । केतनं परिगृह्य आमन्त्रणमङ्गीकृ-
त्येत्यर्थः । यत्तु यमेनोक्तं—
ब्राह्मणं तु मुखं कृत्वा देवताः पितृभिस्सह ।
तदन्नं समुपान्नन्ति तस्मात्तन्न व्यतिक्रमेत् ॥
इति, तत् अनिन्द्यामन्त्रितशक्तविषयमिति पूर्वोक्तेन न विरोधः।
यस्तु निमन्त्रितं ब्राह्मणं त्यजति तं प्रत्याह नारायणः—
केतनं कारयित्वा तु निवारयति दुर्मतिः ।
ब्रह्महत्यामवाप्नोति शूद्रयोनौ च जायते ॥
एतस्मिन्नेनसि प्राप्ते ब्राह्मणो नियतश्शुचिः ।
यतिचान्द्रायणं कृत्वा तस्मात् पापात्प्रमुच्यते ॥
एनः पापम् । यतिचान्द्रायणं नाम चान्द्रायणविशेषः । तदे-
198 स्मृतिचन्द्रिकायां
तदङ्गीकृतकेतनस्य भोजनसमर्थस्य निवारणे सति द्रष्टव्यम् ।
यस्तु निमन्त्रणमङ्गीकृत्य भोजने समर्थोऽपि भोजयितारं त्य-
जति तं प्रत्याह मनुः—
केतितस्तु यथान्यायं हव्यकव्ये द्विजोत्तमः ।
कथञ्चिदप्यतिक्रामन् पापस्सूकरतां व्रजेत् ॥
कथंचित् मृष्टान्नबहुदक्षिणालोभादिना, न पुनः भोजनासाम-
र्थेनेत्यर्थः । तदेतत् आढ्यविप्रविषयम् ।
विद्यमानधनो यस्तु भोज्यान्नेन निमन्त्रितः ।
कथंचिदप्यतिक्रामन् पापस्सूकरतां व्रजेत् ॥
इति स्मृत्यन्तरे विद्यमानधनस्य दोषस्मरणात् । एवञ्च यदु-
च्यते यमेन—
आमन्त्रितस्तु यो विप्रो भोक्तुमन्यत्र गच्छति ।
नरकाणां शतं गत्वा चण्डालेष्वभिजायते ॥
इति, यदपि नारायणेन—
आमन्त्रितस्तु यश्श्राद्धे कुर्वीतान्यस्य तु क्षणम् ।
संवत्सरकृतं पुण्यं तस्य नश्यति दुर्मतेः ॥
इति, यदपि मत्स्येन—
निमन्त्रितास्तु गुणिना निर्धनेनापि सद्धिजाः ।
नान्यमृष्टान्नलोभेन तमतिक्रम्य यान्ति हि ॥
निमन्त्रितास्तु येनादौ तस्माद्गृह्णन्ति नान्यतः ।
इति, अतोऽन्यैरपि प्रथमनिमन्त्रयितारमनतिक्रम्य तत एव
ग्रहीतव्यमित्यभिप्रायः । तदेतत्सर्वमाढ्यविषयमिति मन्तव्यम् ।
यस्तु तस्माद्गृह्णन् अन्यस्मादपि ग्रहीतुमिच्छति तं प्रतिषेद्धुमाह
कात्यायनः— 'आमन्त्रितोऽन्यदन्नं न प्रतिगृह्णीयात्' इति ।
आमन्त्रितः पूर्वमन्येन निमन्त्रितस्तदीयादन्नादन्यदन्नं पश्चा-
न्निमन्त्रकस्यान्नं तण्डुलादिरूपकमपि न प्रतिगृह्णीयादित्यर्थः ।
यः पुनः प्रतिगृह्णाति तस्य दोषमाह देवलः—
पूर्वं निमन्त्रितोऽन्येन कुर्यादन्यप्रतिग्रहम् ।
भुक्ताहारोऽथवा भुङ्क्ते सुकृतं तस्य नश्यति ॥
यस्त्वामन्त्रित आहूतोऽप्यनागमनेन कुतपादिश्राद्धकालातिपत्तिं
करोति, तस्य दोष आदिपुराणे दर्शितः—
आमन्त्रितश्चिरं नैव कुर्याद्विप्रः कदाचन ।
देवतानां पितॄणां च दातुरन्नस्य चैव हि ॥
चिरकाली भवेद्द्रोही पच्यते नरकाग्निना ॥
इति । यस्तु निमन्त्रितो वा श्राद्धकर्ता वा ब्रह्मचर्यं न करोति,
तस्य दोषमाह मनुः—
ऋतुकाले नियुक्तो वा नैव गच्छेत् स्त्रियं क्वचित् ।
ततो गच्छन्नवाप्नोति ह्यनिष्टं फलमेव तु ॥
ऋतुकाल इति वदन् स्वभार्यागमनेऽपि दोष इत्याह । नियुक्त
इति वदन् रागतः प्रवृत्तिभावेऽपि दोष इत्याह । गौतमस्तु
श्राद्धकर्तुर्वृषलीगमने दोषाधिक्यमाह—'सद्यश्श्राद्धी शूद्रातल्पग-
स्तत्पुरीषे मासं नयेते पितॄन्' इति । श्राद्धं करिष्यमाणं कृतं
200
च विद्यते यस्येति श्राद्धी दाता । सद्यः तत्क्षणमारभ्य मासं
नयतीत्यर्थः । मनुस्त्वामन्त्रितस्य शूद्रातल्पगमने दोषमाह—
आमन्त्रितस्तु यःश्राद्धे वृषल्या सह मोदते ।
दातुर्यद्दुष्कृतं किञ्चित्तत्सर्वमतिपद्यते ॥
यमस्त्वत्र दोषान्तरमाह—
आमन्त्रितस्तु यःश्राद्धे वृषल्या सह मोदते ।
भ्रमन्ति पितरस्तस्य तन्मासं शुक्लभोजनाः ॥
नियमान्तराणामतिक्रमेऽपि स एव दोषमाह—
आमन्त्रितस्तु यःश्राद्धे अध्वानं प्रतिपद्यते ।
भवन्ति पितरस्तस्य तन्मासं पांसुभोजनाः ॥
आमन्त्रितस्तु यःश्राद्धे कलहं कुरुते नरः ।
भवन्ति पितरस्तस्य तन्मासं त्वश्रुभोजनाः ॥
आमन्त्रितस्तु यःश्राद्धे भारमुद्वहते द्विजः ।
भवन्ति पितरस्तस्य तन्मासं स्वेदभोजनाः ॥
आमन्त्रितस्तु यःश्राद्धे हिंसां वा कुरुते द्विजः ।
तन्मासं पितरस्तस्य भवेयू रक्तभोजनाः ॥
आमन्त्रितस्तु यःश्राद्धे आयासं कुरुते द्विजः ।
भवन्ति पितरस्तस्य तन्मासं पित्तभोजनाः ॥
इति । उशना अपि--
आमन्त्रितस्तु यःश्राद्धे द्यूतं संसेवते द्विजः ।
भवन्ति पितरस्तस्य तन्मासं मलभोजनाः॥
इति । एवमुक्तदोषपरिहाराय ब्रह्मचर्यादिनियमेष्ववहितास्तिष्ठेयु-
रित्याह यमः—
आमन्त्रितास्तु ये विप्राः श्राद्धकाल उपस्थिते ।
वसेयुर्नियताहारा ब्रह्मचर्यपरायणाः ॥
अहिंसा सत्यमक्रोधोऽदूरादागमनक्रिया ।
अभारोद्वहनं क्षान्तिः श्राद्धस्यौपशमो विधिः ॥ इति ॥
इति स्मृतिचन्द्रिकायां श्राद्धदिनात् प्राग्दिनकृत्यम्.
अथ श्राद्धदिनपूर्वाह्नकृत्यम् .
तत्र प्रचेताः—
श्राद्धभुक् प्रातरुत्थाय प्रकुर्याद्दन्तधावनम् ।
श्राद्धकर्ता न कुर्वीत दन्तानां धावनं बुधः ॥
किं तर्हि श्राद्धकर्ता कुर्यादित्यपेक्षिते देवलः—
तथैव यन्त्रितो दाता प्रातः स्नात्वा सहाम्बरः ।
आरभेत नवैः पात्रैरन्नारम्भं च बान्धवैः ॥
तथैव श्राद्धकर्तुः उक्तनियमानतिक्रमेणैव यन्त्रितो नियतः
अन्नारम्भं श्राद्धार्थान्नपाकारम्भं आरभेत कुर्यादित्यर्थः ।
नवैः पात्रैः अनुपहतैः पाकोपयोगिभिर्भाण्डैः बान्धवैः पा-
कोपयोगिभिरुपेतः दाता श्राद्धाधिकारी। पाके श्राद्धाधिकारिणा
यत्प्रथमं कर्तव्यं तदाहोशना— 'गोमयोदकैर्भूमिभाजनभाण्ड
SMRITI CHA.—VOL. V. 26
202 स्मृतिचन्द्रिकायां
शौचं कुर्यात्' इति । गोमयानुलेपनेन महानसभूमिशुद्धिं
कुर्यात् । उदकैरभ्युक्षणा हरणप्रकरणोक्तप्रकारेणाहतैः भाजनानां
गोधूमपिष्टादिक्षेपणार्थानां शुद्धिं कुर्यादित्यर्थः । महानसभू-
मिसंस्कारानन्तरमाह देवलः-
तिलानवकिरेत्तत्र सर्वतो बन्धयेदजम् ।
असुरोपहतं सर्वं तिलैश्शुद्ध्येदजेन च ॥
पाकस्थानभाजनभाण्डशुद्ध्यनन्तरं पाकादिनाऽन्नादिकं निष्पा-
दयेत् । तथाच स एव-
ततोऽन्नं बहुसंस्कारैः नैकव्यञ्जनभक्ष्यवत् ।
चोष्यपेयसमृद्धं च यथाशक्त्युपकल्पयेत् ॥
बहुसंस्कारो राजभोज्यान्ने योयः संस्कारः तेनतेनान्वितम्।
नैकव्यञ्जनभक्ष्यवत् अनेकव्यञ्जनभक्ष्योपेतम् । व्यज्यतेऽनेना-
न्नस्य रस इति व्यञ्जनमत्र सूपशाकादिकम् । यस्य रसांश
एव सेव्यो न द्रव्यांशः इक्षुखण्डादि तच्चोष्यम् । पानार्थं
चापकफलरसादौ गुडादिपिष्टं संसृज्य यत्क्रियते तत्पेयम् ।
चोष्यपेययोरनेकविधयोरनिषिद्धयोः सम्भवाच्चोष्यपेयसमृद्धमि-
त्युक्तम् । चशब्दाल्लेह्यसमृद्धं चेत्यवगन्तव्यम् । अन्नादिकं
विहितव्रीह्यादिप्रकृति । कानि द्रव्याणि विहितानीत्यपेक्षिते
प्रचेताः-
कृष्णमाषास्तिलाश्चैव श्रेष्ठास्स्युर्यवशालयः ।
महायवा व्रीहियवास्तथैव च मधूलिकाः ॥
श्राद्धकाण्डे श्राद्धदिनपूर्वाह्णकृत्यम्. 203
कृष्णाः श्वेताश्च लोहाश्च ग्राह्यास्स्युः श्राद्धकर्मणि ।
यवाः स्फीतशूकाः । शालयः कलमाः । राजशालिमहाशालि-
सुगन्धिकादयो जलजाः । महायवा व्रीहियवाश्च यवविशेषाः।
मधूलिकाख्यं धान्यान्तरम् । कृष्णाः स्थलजाः कृष्णवर्णा
व्रीहयः । श्वेताः स्थलजा महाव्रीहयः। लोहाः जलजा रक्त-
शालयः, स्थलजाः षाष्टिकाश्च । अत्रिरपि—
अगोधूमं च यच्छ्राद्धं कृतमप्यकृतं भवेत् ॥
विना मांसेन यच्छ्राद्धं कृतमप्यकृतं भवेत् ॥
क्रव्यादाः पितरो यस्मादभावे पायसादिनः ।
इति । अनेन गोधूमप्रकृतिद्रव्यमपूपादि भक्ष्यं मांसमयं च
भक्ष्यमवश्यमुपकल्पनीयमिति वचोभङ्ग्या दर्शितम् । तत्र
मांसभक्ष्योपकल्पनप्रकारमाह कात्यायनः—'छागोस्रमेषानालभ्य
शेषान् क्रीत्वा लब्ध्वा वा स्वयंमृतानां वाऽऽहृत्य पचेत्'
इति । उस्रा गौः । आलभ्य संज्ञपनं कृत्वेत्यर्थः । एतच्च कलि-
युगव्यतिरिक्तद्वापरादियुगविषयम् । तथाच कलियुगधर्मप्र-
करणे—
वरातिथिपितृभ्यश्च पशूपकरणक्रिया ।
इत्यादिवचने श्राद्धार्थं गवादिपश्वालम्भननिषेधोऽस्माभिः
प्रदर्शितः । कलियुगे क्रयादिनाऽप्यासाद्य गोमांसं न पचेत्,
लोकविद्विष्टत्वात् । अन्यान्यपि क्रीत्वा यथाकथाञ्चिल्लब्ध्वा वा
उपकल्प्यानि वायुपुराणे दर्शितानि—
बिल्वामलकमृद्वीकाः पनसाम्रातदाडिमम् ।
चव्यपालेयकाक्षोटखर्जूराणां फलानि च ॥
कशेरुः कोविदारश्च तालकन्दस्तथा विशम् ।
कालेयं कालशाकं च सुनिषण्णं सुवर्चला ॥
कर्द्दुरः कोङ्कणी द्राक्षा लिकुचं मोचमेव च ।
कर्कन्धूः ग्रावकं चारु तिन्दुकं मधुसाह्वयम् ॥
वैकङ्कतं नाळिकेरं शृङ्गाटकवरूषकम् ।
पिप्पलं मरिचं चैव पटोलं बृहतीफलम् ॥
सुगन्धि मत्स्यमांसं च प्रकल्प्यास्सर्व एव च ।
एवमादीनि चान्यानि स्वांदूनि मधुराणिच ॥
नागरं चात्र वै देयं दीर्घमूलकमेवच ।
इति । मृद्वीका द्राक्षा, 'मृद्वीका गोस्तनी द्राक्षा' इत्यमर-
सिंहेनाभिधानात् । आम्रातकं चूतवृक्षसदृशकपीतनवृक्षः—'द्वौ
पीतनकपीतनौ । आम्रातकः' इति तेनैवाभिधानात् । अक्षोटः
गिरिसम्भवस्तरुः । कशेरुः जलकन्दविशेषः भद्रमुस्ताख्यः ।
कालेयं दारुहरिद्रा । सुनिषण्णं वितुन्नकाख्यं पत्रशाकं 'वि-
तुन्नं सुनिषण्णकम्' इति शाकप्रकरणे अमरसिंहेनाभिधा-
नात् । कर्द्दुरः श्रीपर्णिकाख्यो वृक्षविशेषः । 'श्रीपर्णिका कुमु-
दिका कुम्भीकैटर्यकट्फलौ' इति तेनैवाभिधानात् । कोङ्कणी
कोङ्कणदेशप्रभवा द्राक्षा । लिकुचं जम्बीरफलतुल्यखर्वफलवान्
गुल्मविशेषः । मोचं कदलीफलम् । कर्कन्धूः बदरी । तिन्दुकः
सितसारकाख्यवृक्षः । 'तिन्दुकः स्फूर्जकः कालस्कन्धश्च सितसा-
रकः' इत्यमरः। शृङ्गाटकं जलजत्रिकाण्डकम्। बृहती कण्टकारिका,
'निदिग्धका स्पृशी व्याघ्री बृहती कण्टकारिका' इत्यमरः।तस्याः
फलं बृहतीफलम् । शेषाणि बिल्वामलकपनसदाडिमचव्यख
र्जूरतालकन्दविशौवकङ्कतनाळिकेरापिप्पलिमरिचपटोलानि प्रसि
द्धानि । इतराण्यप्रसिद्धानि । एवमादीनि एवं प्रकाराणि ।
नागरं शुण्ठी । दीर्घमूला तुण्डिकेरी तस्याः फलं दीर्घमूलकम् ।
एतच्चाम्रातकादिकं विहितसंस्कारद्रव्यैरेव संस्कार्यम् । तानि
चादित्यपुराणे दर्शितानि--
मधूकं रामठं चैव कर्पूरं मरिचं गुडम् ।
श्राद्धकर्मणि शस्तानि सैन्धवं मानसं तथा ॥
ब्रह्माण्डपुराणेऽपि--
सैन्धवं लवणं चैव तथा मानससम्भवम् ।
पवित्रे परमे ह्येते प्रत्यक्षमपि नित्यशः ॥
एवं मृष्टान्नोपकल्पनं न श्राद्धमात्रविषयमित्याह देवलः--
इष्टापूर्तमृताहेषु दर्शश्राद्धाष्टकासु च ।
पात्रेभ्यस्तेषु कालेषु देयं नैव कुभोजनम् ॥
चशब्दान्महालयादिविशिष्टकालेष्वपि कुभोजनं न देयमिति
समुच्चिनोति । एवंच नित्यश्राद्धादौ दरिद्रकर्तृके कुभोजना
द्यनुज्ञा गम्यते । अत्र यमः--
206 स्मृतिचन्द्रिकायां
भक्ष्यं भोज्यं तथा पेयं यत्किञ्चित्पच्यते गृहे ।
न भोक्तव्यं पितॄणां तदनिवेद्य कथञ्चन ॥
पितृणामनिवेद्य तस्मादन्नाद्वैश्वदेवादिकमपि न कार्यम् । तथाच
पैठीनसिः—
पितृपाकं समुद्धृत्य वैश्वदेवं करोति यः ।
आसुरं तद्भवेच्छ्राद्धं पितॄणां नोपतिष्ठति ॥
इति । यमस्तु पक्वान्नोपहतिपरिहाराय पाकस्थानादितो बहि-
ष्कार्यानाह—
मद्यपः स्वैरिणी या च परपूर्वापतिस्तथा ।
नैव श्राद्धेऽभिवीक्षेरन्नावापात्प्रभृति क्वचित् ॥
आवापः पाकं कर्तुं तण्डुलादीनां पिठरादौ प्रक्षेपः, तत्प्र-
भृति भोजननिष्पत्तिपर्यन्तं क्वचित्पाकस्थाने भोजनस्थानेऽ-
न्यत्र वा स्थितान् भोज्यपदार्थान् भुञ्जानांश्च विप्रान् श्राद्ध-
कर्मणि यथा मद्यपादयो नाभिवीक्षेरन् तथा ते दूरत एवा-
पाकरणीया इत्यर्थः । मद्यपादिग्रहणं अप्रशस्तप्राणिनामुपल-
क्षणार्थम् । अत एव मनुः—
चण्डालश्च वराहश्च कुक्कुटश्च तथैव च ।
रजस्वला च खञ्जश्च नेक्षेरन्नश्नतो द्विजान् ॥
होमे प्रदाने भोज्ये च यदेभिरभिवीक्षितम् ।
दैवे कर्मणि पित्र्ये वा तद्गच्छति यथातथम् ॥
इति । होमे अग्नौकरणदेशे । प्रदाने अन्नत्यागदेशे । भोज्ये
भोज्योपकल्पनदेशे महानसादौ । चशब्दादन्यस्मिन्नपि स्थाने
यदन्नादिकं चण्डालादिभिरभिवीक्षितं तद्यथातथं गच्छति
असम्यग्भवतीत्यर्थः । तस्माच्छ्राद्धदेशादतिदूरतोपनेतव्या इत्य-
भिप्रायः । वराहो विड्वराहः, तस्यैवाप्रशस्तत्वात् । अत एवो-
शनसा विशेषितः— 'विड्वराहकमार्जारकुकुटनकुलशूद्ररजस्वला-
शूद्रीभर्तारश्च दूरतोपनेतव्याः' इति । श्राद्धकाल इति शेषः ।
तथाच यमः—
कुक्कुटो विड्वराहश्च काकश्चाऽथ बिडालकः ।
वृषलीपतिश्च वृषलः षण्डो नारी रजस्वला ॥
एते तु श्राद्धकाले वै वर्जनीयाः प्रयत्नतः ।
श्राद्धकाले पाकोपक्रमप्रभृतीत्यर्थः । तथाच व्यासः—
काषायवासाः कुष्ठी वा पतितो भ्रूणहाऽपि वा ।
सङ्कीर्णयोनिविप्रस्य सम्बन्धी पतितस्य यः ॥
वर्जनीया बुधैरेते निवापे समुपस्थिते ।
निवापः पितृभ्यो दानं, ‘पितृदानं निवापस्स्यात्’ इत्यमरसिंहे-
नाभिधानात् । समुपस्थितशब्दात्पाकोपक्रमप्रभृति वर्जनीयाः
न तु पितृभ्यो दानसमय एवेति गम्यते । यमोपि पुरुषेष्व-
पनेयानाह—
खञ्जः काणः कुणिः श्वित्री दातुः प्रेष्यकरो भवेत् ।
न्यूनाङ्गो वाऽतिरिक्ताङ्गस्तमप्यपनयेत्ततः ॥
खञ्जः पादविकलः । काण एकाक्षः । कुणिः एककरः ।
208
श्वित्री कुष्ठी । देवलोपि—
बीभत्समशुचिं नग्नं मत्तं धूर्तं रजस्वलाम् ।
नीलकाषायवसनं छिन्नकर्णं च वर्जयेत् ॥
बीभत्सो जुगुप्सितः । ब्रह्माण्डपुराणेऽपि—
नग्नादयो न पश्येयुः श्राद्धमेतत्कदाचन ।
गच्छन्त्येतैस्तु दृष्टेन पितरोऽधः पितामहाः ॥
श्राद्धं श्राद्धार्थमन्नादिकम् । नग्नो वेदपरित्यागी । आदिशब्देन
तत्प्रकारवैदिककर्मानुष्ठानपरित्यागिनो गृह्यन्ते । तथाचात्रैवोक्तं—
सर्वेषामेव भूतानां त्रयी संवरणं यतः ।
ये वै त्यजन्ति तां मोहात्ते वै नग्नादयस्स्मृताः ॥
त्रयी वेदः, तां ये त्यजन्ति ते नग्नास्स्मृताः । ये तु तदर्थानुष्ठा-
नत्यागिनः ते न ग्रादयस्स्मृता इत्यर्थः । वायुपुराणेऽपि—
वृथाजटी वृथामुण्डी वृथानग्नश्च यो नरः ।
महापातकिनो ये च ते वै नग्नादयो नराः ॥
वृथा वैदिकविधिमन्तरेणेत्यर्थः । यदि तु नग्नादयः श्राद्धार्थं
अन्नादिकं पश्येयुस्तदा किं कार्यमित्यपेक्षिते तत्रैवोक्तं—
अन्नं पश्येयुरेते तु यदि वा हव्यकव्ययोः ।
उत्स्रष्टव्यं प्रदानार्थं संस्कारस्त्वापदि स्मृतः ॥
नग्नादिभिः दृष्टमन्नं उत्स्रष्टव्यम् । आपदि तु तस्यैव नग्नादिद-
र्शनजनितदोषापाकरणार्थं स्मृतः संस्कारः । कः पुनः संस्कार
इत्यपेक्षिते ब्रह्मपुराणं—
श्राद्धकाण्डे श्राद्धदिनपूर्वाह्नकृत्यम्. 209
हविषां संस्कृतानां तु पूर्वमेवापवर्जनम् ।
मृत्संपृक्ताभिरद्भिश्च प्रोक्षणं तु विधीयते ॥
सिद्धार्थकैः कृष्णतिलैः कार्य चाप्यवकीरणम् ।
गुरुसूर्याग्निवस्तानां दर्शनं तु प्रयत्नतः ॥
अस्यार्थः--हविषां हव्यकव्यानां नग्नादिदर्शने सत्यपवर्जनमेव
पूर्वं परित्याग एव मुख्यः कल्पः । आपदि तु दोषापगम-
हेतुभूतसंस्कारसिद्धये प्रशस्तमृत्तिकासंसृष्टाभिरद्भिः प्रोक्षणं,
तथा गौरसर्षपैः कृष्णतिलैश्च अवकीरणं दृष्टहव्यकव्ययोरुपरि
क्षेपणं कार्यम् । तथा गुरुसूर्याग्निच्छागानां दर्शनं यथाऽ
न्नस्य सिद्ध्यति तथा प्रयत्नतो व्यवधायकपरिश्रयणापनो-
दनद्वारा कार्यमिति । अथवा जगदग्निनोक्तामन्नशुद्धिं कुर्यात्—
शुद्धवत्योऽथ कूष्माण्ड्यः पावमान्यस्तरत्समाः ।
पूतेन वारिणा दर्भैरन्नदोषानपानुदेत् ॥
शुद्धवत्यादिमन्त्रैरभिमन्त्रितमुदकं दर्भैरादाय मद्यपस्वैरिण्या-
द्यभिवीक्षणप्रभवान्नदोषापनोदार्थमवोक्षणं कुर्यादित्यर्थः । 'एतो-
न्विन्द्रं स्तवाम' इत्याद्या ऋचः शुद्धवत्यः । 'यद्देवा देवहेळ-
नम्' इत्याद्याः कूष्माण्ड्यः । 'पवमानस्सुवर्जनः' इत्याद्याः
पावमान्यः । 'तरत्समन्दी धावति' इत्याद्याः तरत्समाः । यदि
तु मद्यपादिदर्शनप्रभवमन्नदोषं तदपनोदकेन संस्कारेण पूर्वो-
क्तेन वक्ष्यमाणेन वा मृद्भस्मोदकहिरण्यस्पर्शनेन वाऽपनुदेत्
तदा श्राद्धे तदन्नं भोज्यमित्याह सुमन्तुः—'चण्डालाद्यवे-
SMRITI CHA.—Vol. V. 27
Here is the complete and exact line-by-line transcription of the page:
210 स्मृतिचन्द्रिकायां
क्षितमन्नमभोज्यमन्यत्र मृद्भस्महिरण्योदकस्पर्शनात्' इति । मृ-
द्भस्महिरण्योदकस्पर्शनरूपसंस्कारनिर्देशः पूर्वोक्तद्विप्रकारसं-
स्कारयोरपि प्रदर्शनार्थः ॥
इति स्मृतिचन्द्रिकायां श्राद्धदिनपूर्वाह्नकृत्यम्.
—————
अथ श्राद्धकर्मणि वर्ज्यद्रव्याणि.
तत्र मदालसावाक्यं—
यच्चोत्कोचादिना प्राप्तं पतिताद्यदुपार्जितम् ।
अन्यायकन्याशुल्कोत्थं द्रव्यं चात्र विगर्हितम् ॥
पित्रर्थमेव मे यच्छेत्युक्त्वा यच्चाप्युपार्जितम् ।
तद्वर्जनीयं विद्वद्भिः तत्तद्धै श्राद्धकर्मणि ॥
उत्कोचादिना स्पृहाहेतुना स्तेयादिना । अन्यायकन्याशुल्कं
गोमिथुनाधिककन्याशुल्कं, तेन प्राप्तं अन्यायकन्याशुल्कोत्थम् ।
अत्र श्रा