स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 228, कुल 474 में से
संदर्भ में पढ़ें208
श्वित्री कुष्ठी । देवलोपि—
बीभत्समशुचिं नग्नं मत्तं धूर्तं रजस्वलाम् ।
नीलकाषायवसनं छिन्नकर्णं च वर्जयेत् ॥
बीभत्सो जुगुप्सितः । ब्रह्माण्डपुराणेऽपि—
नग्नादयो न पश्येयुः श्राद्धमेतत्कदाचन ।
गच्छन्त्येतैस्तु दृष्टेन पितरोऽधः पितामहाः ॥
श्राद्धं श्राद्धार्थमन्नादिकम् । नग्नो वेदपरित्यागी । आदिशब्देन
तत्प्रकारवैदिककर्मानुष्ठानपरित्यागिनो गृह्यन्ते । तथाचात्रैवोक्तं—
सर्वेषामेव भूतानां त्रयी संवरणं यतः ।
ये वै त्यजन्ति तां मोहात्ते वै नग्नादयस्स्मृताः ॥
त्रयी वेदः, तां ये त्यजन्ति ते नग्नास्स्मृताः । ये तु तदर्थानुष्ठा-
नत्यागिनः ते न ग्रादयस्स्मृता इत्यर्थः । वायुपुराणेऽपि—
वृथाजटी वृथामुण्डी वृथानग्नश्च यो नरः ।
महापातकिनो ये च ते वै नग्नादयो नराः ॥
वृथा वैदिकविधिमन्तरेणेत्यर्थः । यदि तु नग्नादयः श्राद्धार्थं
अन्नादिकं पश्येयुस्तदा किं कार्यमित्यपेक्षिते तत्रैवोक्तं—
अन्नं पश्येयुरेते तु यदि वा हव्यकव्ययोः ।
उत्स्रष्टव्यं प्रदानार्थं संस्कारस्त्वापदि स्मृतः ॥
नग्नादिभिः दृष्टमन्नं उत्स्रष्टव्यम् । आपदि तु तस्यैव नग्नादिद-
र्शनजनितदोषापाकरणार्थं स्मृतः संस्कारः । कः पुनः संस्कार
इत्यपेक्षिते ब्रह्मपुराणं—