स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 225, कुल 474 में से
संदर्भ में पढ़ेंगुल्मविशेषः । मोचं कदलीफलम् । कर्कन्धूः बदरी । तिन्दुकः
सितसारकाख्यवृक्षः । 'तिन्दुकः स्फूर्जकः कालस्कन्धश्च सितसा-
रकः' इत्यमरः। शृङ्गाटकं जलजत्रिकाण्डकम्। बृहती कण्टकारिका,
'निदिग्धका स्पृशी व्याघ्री बृहती कण्टकारिका' इत्यमरः।तस्याः
फलं बृहतीफलम् । शेषाणि बिल्वामलकपनसदाडिमचव्यख
र्जूरतालकन्दविशौवकङ्कतनाळिकेरापिप्पलिमरिचपटोलानि प्रसि
द्धानि । इतराण्यप्रसिद्धानि । एवमादीनि एवं प्रकाराणि ।
नागरं शुण्ठी । दीर्घमूला तुण्डिकेरी तस्याः फलं दीर्घमूलकम् ।
एतच्चाम्रातकादिकं विहितसंस्कारद्रव्यैरेव संस्कार्यम् । तानि
चादित्यपुराणे दर्शितानि--
मधूकं रामठं चैव कर्पूरं मरिचं गुडम् ।
श्राद्धकर्मणि शस्तानि सैन्धवं मानसं तथा ॥
ब्रह्माण्डपुराणेऽपि--
सैन्धवं लवणं चैव तथा मानससम्भवम् ।
पवित्रे परमे ह्येते प्रत्यक्षमपि नित्यशः ॥
एवं मृष्टान्नोपकल्पनं न श्राद्धमात्रविषयमित्याह देवलः--
इष्टापूर्तमृताहेषु दर्शश्राद्धाष्टकासु च ।
पात्रेभ्यस्तेषु कालेषु देयं नैव कुभोजनम् ॥
चशब्दान्महालयादिविशिष्टकालेष्वपि कुभोजनं न देयमिति
समुच्चिनोति । एवंच नित्यश्राद्धादौ दरिद्रकर्तृके कुभोजना
द्यनुज्ञा गम्यते । अत्र यमः--