स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 217, कुल 474 में से
संदर्भ में पढ़ेंश्राद्धकाण्डे श्राद्धदिनात्प्राचीनदिनविषयम्. 197
स्वयं कृतं शिष्यकृतं शूद्रव्यतिरिक्तासवर्णकृतं च निमन्त्रण-
मनिन्द्यं, तच्च भोक्तुं समर्थानां ब्राह्मणानामप्रत्याख्येयम् ।
कामं प्रतिश्रवस्तेषामनिन्द्यामन्त्रणे कृते ।
इति देवलस्मरणात् । अनिन्द्यामन्त्रणे कृते तेषां निमन्त्रि-
तानां काममस्त्विति प्रतिश्रवः प्रतिवचनं कर्तव्यमित्यर्थः । का-
त्यायनेनाप्युक्तं—'अनिन्द्येनामन्त्रिते नापक्रमेत् शक्तेन न
प्रत्याख्यानं कर्तव्यम्' इति । अनेनार्थान्निन्द्यामन्त्रणे भो-
क्तुमसामर्थ्ये च प्रत्याख्यानं कर्तव्यमेवेति गम्यते । अङ्गीकृत-
निमन्त्रणस्याङ्गीकारात्पश्चादपि भोक्तुमसामर्थ्ये सत्यातिक्रमो
युक्त इत्यर्थात् ज्ञापयितुमाह स एव—'विधिवत्केतनं परिगृह्य
शक्तस्सन्नापक्रमेत्' इति । केतनं परिगृह्य आमन्त्रणमङ्गीकृ-
त्येत्यर्थः । यत्तु यमेनोक्तं—
ब्राह्मणं तु मुखं कृत्वा देवताः पितृभिस्सह ।
तदन्नं समुपान्नन्ति तस्मात्तन्न व्यतिक्रमेत् ॥
इति, तत् अनिन्द्यामन्त्रितशक्तविषयमिति पूर्वोक्तेन न विरोधः।
यस्तु निमन्त्रितं ब्राह्मणं त्यजति तं प्रत्याह नारायणः—
केतनं कारयित्वा तु निवारयति दुर्मतिः ।
ब्रह्महत्यामवाप्नोति शूद्रयोनौ च जायते ॥
एतस्मिन्नेनसि प्राप्ते ब्राह्मणो नियतश्शुचिः ।
यतिचान्द्रायणं कृत्वा तस्मात् पापात्प्रमुच्यते ॥
एनः पापम् । यतिचान्द्रायणं नाम चान्द्रायणविशेषः । तदे-