स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 216, कुल 474 में से
संदर्भ में पढ़ें196 स्मृतिचन्द्रिकायां
निमन्त्रयीत पूर्वेद्युः तदहर्वा द्विजोत्तमान् ।
इति पुराणे सद्यस्कालपक्षस्याप्युक्तत्वात् । अयं च सद्यस्काल-
पक्षः पूर्वेद्युः कथंचिन्निमन्त्रणासम्भवे भवति,
असम्भवे परेद्युर्वा ब्राह्मणांस्तान्निमन्त्रयेत् ।
इति देवलस्मरणात् ।
तस्मात्तु प्रथमं कार्यं प्राज्ञेनोपनिमन्त्रणम् ।
अप्राप्तौ तद्दिने वाऽपि वर्ज्या योषित्प्रसङ्गिनः ॥
इति मदालसावाक्येऽप्युक्तत्वाच्च । उपनिमन्त्रणं सति सम्भवे
पूर्वेद्युः कार्यम् । तत्र कथञ्चिदुपनिमन्त्रणाप्राप्तौ श्राद्धदिने
वा कार्यमित्यर्थः । यदा तु तद्दिने निमन्त्रणं क्रियते तदा
तद्दिन एव निमन्त्रितत्वनिबन्धनत्वान्नियमानुष्ठानं स्यात् । निम-
न्त्रणं कदाचिदन्येनापि कारयेदित्याह यमः—
निमन्त्रयीत सव्येन देवतार्थं द्विजोत्तमान् ।
अपसव्येन पित्र्ये तु स्वयं शिष्योऽथवा सुतः ॥
इति । प्रचेता अपि—
सवर्णं प्रेषयेद्दान्तं द्विजानामुपमन्त्रणे ॥
इति । एतेषु पक्षेषु पूर्वन्यायः श्रेयान्, सर्वाभावे त्वसवर्णमपि
शूद्रव्यतिरिक्तं प्रेषयेत् ।
अभोज्यं ब्राह्मणस्यान्नं वृषलेन निमन्त्रितम् ।
इति यमेन शूद्रनिमन्त्रितस्यैव निषेधस्मरणात् । विशेषप्रति-
षेधस्य सामान्याभ्यनुज्ञानार्थता प्रसिद्धैव । एवञ्च भोज्यान्नेन