सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 221, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 221

इति । एवमुक्तदोषपरिहाराय ब्रह्मचर्यादिनियमेष्ववहितास्तिष्ठेयु-
रित्याह यमः—
आमन्त्रितास्तु ये विप्राः श्राद्धकाल उपस्थिते ।
वसेयुर्नियताहारा ब्रह्मचर्यपरायणाः ॥
अहिंसा सत्यमक्रोधोऽदूरादागमनक्रिया ।
अभारोद्वहनं क्षान्तिः श्राद्धस्यौपशमो विधिः ॥ इति ॥
इति स्मृतिचन्द्रिकायां श्राद्धदिनात् प्राग्दिनकृत्यम्.
अथ श्राद्धदिनपूर्वाह्नकृत्यम् .
तत्र प्रचेताः—
श्राद्धभुक् प्रातरुत्थाय प्रकुर्याद्दन्तधावनम् ।
श्राद्धकर्ता न कुर्वीत दन्तानां धावनं बुधः ॥
किं तर्हि श्राद्धकर्ता कुर्यादित्यपेक्षिते देवलः—
तथैव यन्त्रितो दाता प्रातः स्नात्वा सहाम्बरः ।
आरभेत नवैः पात्रैरन्नारम्भं च बान्धवैः ॥
तथैव श्राद्धकर्तुः उक्तनियमानतिक्रमेणैव यन्त्रितो नियतः
अन्नारम्भं श्राद्धार्थान्नपाकारम्भं आरभेत कुर्यादित्यर्थः ।
नवैः पात्रैः अनुपहतैः पाकोपयोगिभिर्भाण्डैः बान्धवैः पा-
कोपयोगिभिरुपेतः दाता श्राद्धाधिकारी। पाके श्राद्धाधिकारिणा
यत्प्रथमं कर्तव्यं तदाहोशना— 'गोमयोदकैर्भूमिभाजनभाण्ड
SMRITI CHA.—VOL. V. 26