स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 219, कुल 474 में से
संदर्भ में पढ़ेंग्रहीतव्यमित्यभिप्रायः । तदेतत्सर्वमाढ्यविषयमिति मन्तव्यम् ।
यस्तु तस्माद्गृह्णन् अन्यस्मादपि ग्रहीतुमिच्छति तं प्रतिषेद्धुमाह
कात्यायनः— 'आमन्त्रितोऽन्यदन्नं न प्रतिगृह्णीयात्' इति ।
आमन्त्रितः पूर्वमन्येन निमन्त्रितस्तदीयादन्नादन्यदन्नं पश्चा-
न्निमन्त्रकस्यान्नं तण्डुलादिरूपकमपि न प्रतिगृह्णीयादित्यर्थः ।
यः पुनः प्रतिगृह्णाति तस्य दोषमाह देवलः—
पूर्वं निमन्त्रितोऽन्येन कुर्यादन्यप्रतिग्रहम् ।
भुक्ताहारोऽथवा भुङ्क्ते सुकृतं तस्य नश्यति ॥
यस्त्वामन्त्रित आहूतोऽप्यनागमनेन कुतपादिश्राद्धकालातिपत्तिं
करोति, तस्य दोष आदिपुराणे दर्शितः—
आमन्त्रितश्चिरं नैव कुर्याद्विप्रः कदाचन ।
देवतानां पितॄणां च दातुरन्नस्य चैव हि ॥
चिरकाली भवेद्द्रोही पच्यते नरकाग्निना ॥
इति । यस्तु निमन्त्रितो वा श्राद्धकर्ता वा ब्रह्मचर्यं न करोति,
तस्य दोषमाह मनुः—
ऋतुकाले नियुक्तो वा नैव गच्छेत् स्त्रियं क्वचित् ।
ततो गच्छन्नवाप्नोति ह्यनिष्टं फलमेव तु ॥
ऋतुकाल इति वदन् स्वभार्यागमनेऽपि दोष इत्याह । नियुक्त
इति वदन् रागतः प्रवृत्तिभावेऽपि दोष इत्याह । गौतमस्तु
श्राद्धकर्तुर्वृषलीगमने दोषाधिक्यमाह—'सद्यश्श्राद्धी शूद्रातल्पग-
स्तत्पुरीषे मासं नयेते पितॄन्' इति । श्राद्धं करिष्यमाणं कृतं