सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

कृत्तिकासु पितॄनर्चन् स्वर्गमाप्नोति मानवः ।
अपत्यकामो रोहिण्यां सौम्ये चौजस्वितां लभेत् ॥
आर्द्रायां शौर्यमाप्नोति क्षेत्रादि तु पुनर्वसौ ।
पुष्टिं पुष्ये पितॄनर्चन् आश्लेषासु वरान् सुतान् ।
मघासु स्वजनश्रैष्ठ्यं सौभाग्यं फल्गुनीषु च ।
प्रदानशीलो भवति सापस्रश्चोत्तरासु च ॥
प्राप्नोति श्रेष्ठतां सत्सु हस्ते श्राद्धप्रदो नरः ॥
रूपवन्ति च चित्रासु तथाऽपत्यान्यवाप्नुयात् ।
वाणिज्यलाभदा स्वाती विशाखा पुत्रकामदा ॥
कुर्वतां चानुराधाश्च दद्युश्चक्रप्रवर्तनम् ।
ज्येष्ठा स्वर्गाधिपत्यं च मूले चारोग्यमुत्तमम् ।
अषाढासु. श्रियः प्राप्तिमुत्तरासु विशोकताम् ॥
श्रवणे च शुभान् लोकान् धनिष्ठासु धनं महत् ।
वेदवित्स्यादभिजिति भिषक्सिद्धिं तु वारुणे ॥
[L

पेतान् सुतान् । सौभाग्यं जनप्रियताम् । सापत्यश्च अपत्य-
वान् भवतीत्यर्थः । सत्सु सत्पुरुषेषु । रूपवन्ति सुरूपाणि ।
चक्रप्रवर्तनं प्रतिहतिराहित्येन आज्ञायाः प्रवर्तनम् । अभि-
जित् अभिजित्संज्ञकं नक्षत्रम् । तत्तु वेदे निरूपितं—'अभि-
जिन्नाम नक्षत्रमुपरिष्टादषाढानामधस्ताच्छ्रोणायै ' इति । भि-
षक्सिद्धिः औषधफलावाप्तिः । वारुणं शतभिषङ्नक्षत्रम् ।
कुप्यं त्रपुसीसादिद्रव्यम् । ऋक्षेष्वेतेषु पूर्वोक्तेषु नक्षत्रेषु । त-
त्त्ववित् सम्यक्श्राद्धविधानवित् । विष्णुधर्मोत्तरेऽपि—
आरोग्यमथ सौभाग्यं समरे विजयं तथा ।
सर्वकामांस्तथा विद्यां धनं जीवितमेव च ॥
आदित्यादिदिनेष्वेवं श्राद्धं कुर्वन् सदा नरः ।
क्रमेणैतान् समाप्नोति नात्र कार्या विचारणा ॥
इति । एतानारोग्यादीनात्यादिदिनक्रमेण तत्तद्दिनश्राद्धं कुर्व-
न्नरः प्राप्नोतीत्यर्थः । एतदुक्तं भवति—आदित्यवारे श्राद्धमारो-
ग्यकामः कुर्यात्, सोमवारे सौभाग्यकामः, भौमवारे सङ्ग्राम-
विजयकामः, बुधवारे सर्वकामः, बृहस्पतिवारे विद्याकामः,
शुक्रवारे धनकामः, शनिवारे जीवितकाम इति । याज्ञव-
ल्क्येनापि काम्यश्राद्धकाला दर्शिताः—
कन्यां कन्यावेदिनश्च पशूंश्चैव सुतानपि ।
द्यूतं कृषिं च वाणिज्यं द्विशफैकशफांस्तथा ॥
ब्रह्मवर्चस्विनः पुत्रान् स्वर्णरौप्ये सकुप्यके ।

ज्ञातिश्रैष्ठ्यं सर्वकामानाप्नोति श्राद्धदस्सदा ॥
प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम् ।
इति । कन्या रूपलक्षणशीलवती, प्रायेण तादृश्या एवाति-
काम्यत्वात् । कन्यावेदिनो जामातरः श्रुतवन्तो रोगरहिताः ।
पशून् शीललक्षणसम्पन्नान्, एवम्भूतानामेव काम्यत्वात् ।
काम्यं तु कृष्णपक्षे प्रतिपदि श्राद्धं कन्याकामः कुर्यात्,
द्वितीयायां वरकामः, तृतीयायां पशुकामः, चतुर्थ्यां पुत्र-
कामः, पञ्चम्यां तु विजयकामः, षष्ठ्यां कृषिफलकामः,
सप्तम्यां वाणिज्यलाभकामः, अष्टम्यां द्विशफगवादिपशुकामः,
नवम्यामेकशफाश्वादिपशुकामः, दशम्यां वृत्ताध्ययनबहुलपुत्र-
कामः, एकादश्यां स्वर्णरूप्यकामः, द्वादश्यां त्रपुसीसादिद्र-
व्यकामः, त्रयोदश्यां ज्ञातिश्रैष्ठ्यकामः, अमावास्यायां यो-
गसिद्ध्यधिकरणोक्तन्यायानुसारेण क्रमेण सर्वकाम इति । अत्र—
कृष्णपक्षेऽपराह्ने तु रौहिणं तु न लङ्घयेत् ।
इति स्मृत्यन्तरोक्तो विशेषो द्रष्टव्यः । रौहिणः अह्नो नवमो
मुहूर्तः । एवञ्च कुतपादिघटिकात्रयसंयुक्तायां प्रतिपदादितिथौ
काम्यश्राद्धं कार्यं, न तु कुतपाद्यसंयुक्तायामिति मन्तव्यम् ।
प्रतिपदादितिथिद्वैधे तु पूर्वस्यामुत्तरस्यां वा कुतपादिघटिकात्रय-
युक्तायामेव श्राद्धं कार्यम् । तथाचोक्तं देवस्वामिना—'यस्मिन्
काले यद्विहितं तत्कर्म उपक्रमोपसंहारयुक्तं तस्मिन् काले
तस्यां तिथौ यस्मिन् अहनि संभावयितुं शक्यते तदुत्तरं

पूर्वं वा ग्राह्यम्' इति । उभयदिनेऽपि यदि सम्भावयितुं
शक्यते तदा तु स्वतः पूर्वदिनं ग्राह्यं, कथञ्चित्तत्रानुष्ठानाभावे
उत्तरदिनं ग्राह्यम् । उपक्रमोपसंहारयोरुभयोरुभयत्रासम्भववि-
षये तु यद्देवस्वामिनोक्तं—'यस्मिन् समाप्तिः तस्यां तिथौ
तस्मिन् काले सम्भवति तस्मिन्नहन्युपक्रम्य समापनीयम्' इति ।
समाप्तिः उपसंहारः । तस्मिन्नहन्यस्वकालेऽप्युपक्रम्य स्वकाले
समापनीयमित्यर्थः । तदेतदयुक्तं--कालस्याप्यधिकारिविशेषण-
त्वेन स्वकालेऽनागते कर्मण्यधिकाराभावादस्वकाले कर्मोपक्र-
मस्या्याय्यत्वात् । तस्मादस्मिन्विषये स्वकाले उपक्रम्यास्व-
काले समापनीयम् । स्वकालोपक्रान्ते कर्मणि कालान्तरेऽपि
समापनस्य विधिनाऽऽक्षिप्तत्वात् । यदा तु स्वकालेऽप्युपक्रमो
न सम्भवति तदा स्मृत्यन्तरोक्तं द्रष्टव्यम् ।
पित्र्यं श्राद्धं कृष्णपक्षे दिनेऽस्तमययोगिनि ।
शुक्ले तूदयसंयुक्ते दानं यज्ञादिकं तथा ॥
इति । कृष्णपक्षे 'प्रतिपद्धनलाभाय' इत्यादिना यद्विहितं
श्राद्धं तदस्तमययोगिप्रतिपदादितिथ्यन्विते दिने कर्तव्यम् ।
शुक्लपक्षे तिथिविशेषोल्लेखेन विहितं दानं देवकार्यादिकं उ-
दययोगितिथिविशेषान्वितदिने कर्तव्यमित्यर्थः । अस्तमययोगि-
त्वे उदययोगित्वे च विशेषस्तत्रैव—
दिनान्ते पञ्च नाड्यस्तु पुण्याः प्रोक्ता मनीषिभिः ।
उदये च तथा पित्र्ये दैवे चैव च कर्मणि ॥

इति । पित्र्ये कर्मणि दिनान्ते पञ्च नाड्यः पुण्याः प्रोक्ताः,
दैवे कर्मण्युदये पञ्च नाड्यः पुण्याः प्रोक्ता इत्यन्वयः । ख-
ण्डतिथिस्तु काम्यकर्मणि प्रथमोपक्रमे परित्याज्या, संपूर्णति-
थावेवोपक्रमसम्भवात् । उपक्रान्तस्य काम्यकर्मणः श्राद्धादेः
काम्यसिद्धिपर्यन्तमेकसंवत्सरपर्यन्तं वा स्वकाले पुनःपुनर-
नुष्ठाने कर्तव्ये खण्डतिथावप्युक्तदिनेऽवश्यं कर्मानुष्ठानं कर्त-
व्यम् । तथाच देवस्वामिना नक्षत्रश्राद्धमुदाहृत्योक्तं—‘नक्ष-
त्रेषु काम्यश्राद्धेषु तत्कामप्रदनक्षत्रप्राप्तौ यावत्तत्कामप्राप्ति
तस्मिन् ऋक्षे श्राद्धं कुर्यादब्दमेकं यावत्’ इति । अत्र
हारीतः—
काम्यश्राद्धानि काम्यार्थी सम्यग्यत्नेन साधयेत् ।
शरीरारम्भहेतुत्वात् मुमुक्षुस्तानि नाचरेत् ॥
कामप्राप्तानि विहितश्राद्धान्युक्तानि यानि तु ।
तानि विध्यन्तरोक्तत्वात्स्वर्गमोक्षार्थमाचरेत् ॥
यथाकथञ्चिन्नित्यानि कुर्यादिन्दुक्षयादिषु ।
पात्रद्रव्यादिसम्पत्सु सत्सु काम्यफलं लभेत् ॥
विध्यन्तरोक्तत्वादिति—‘द्विविध एव संस्कारो भवति ब्राह्मो
दैवश्च । गर्भाधानादिः स्मार्तो ब्राह्मः, पाकयज्ञहविर्यज्ञसौ-
म्याश्चेति दैवः । ब्राह्मसंस्कारसंस्कृत ऋषीणां समतां समानलो-
कतां सायुज्यं गच्छति । दैवेनोत्तरेण संस्कृतः देवानां समान-
लोकतां सायुज्यं गच्छति’ इत्येवमादिरूपेण विध्यन्तरेण,
SMRITI CHA.—VOL. V. 18

138 स्मृतिचन्द्रिकायां
श्राद्धकृत्सत्यवादी च गृहस्थोपि विमुच्यते ।
इत्येवमादिरूपेण विध्यन्तरेण चोक्तत्वादिति ॥
इति स्मृतिचन्द्रिकायां काम्यश्राद्धकालाः
अथ गौणश्राद्धकालाः.
तत्र ऋश्यशृङ्गः—
दैवे पितॄणां श्राद्धे तु आशौचं जायते यदि ।
आशौचादौ व्यतिक्रान्ते तेभ्यश्श्राद्धं प्रदीयते ॥
मुख्यकाले पाकोपक्रमात् प्राक् यदा श्राद्धाधिकारिण आ-
शौचं जायते तदा मुख्यकाले प्रत्यासन्ने आशौचेन दूषिते
आशौचापगमानन्तरकाल एव पैतृकं कर्म कार्यमित्यर्थः ।
यत्तु स्मृत्यन्तरं—
तदहश्चेत् प्रदुष्येत केनचित्सूतकादिना ।
सूतकानन्तरं कुर्यात्पुनस्तदहरेव वा ॥
इति, तत् श्राद्धाहे सूतकेन प्रदुष्टे सूतकानन्तरं कुर्यादिति
पक्षस्तावत् ऋश्यशृङ्गवचनाविरुद्ध एव । 'पुनस्तदहरेव वा'
इति पक्षस्त्वादिषब्दोक्तनिमित्तान्तरेण विहितमुख्यकालाभा-
वविषय इति पूर्ववचनाविरोधाय कल्पनीयम् । एतच्च पक्षा-
न्तरं क्षयाहे प्रतिमासं क्रियमाणश्राद्धविषयम् । तत्र मास-
स्पृष्टकालाभावेऽपि पक्षतिथिमात्रस्पृष्टस्यापि ग्राह्यत्वात् । अत
एव स्मृत्यन्तरं—

[Header] णश्राद्धकालः

एकोद्दिष्टे तु संप्राप्ते यदि विघ्नः प्रजायते ।
अन्यस्मिन् तत्तिथौ तस्मिन् श्राद्धं कुर्यात्प्रयत्नतः ।
अन्यस्मिन् अनन्तरे मासि । तत्तिथौ मृततिथौ । यस्मिन्
शुक्ले कृष्णे वा मृतः तस्मिन् पक्षे श्राद्धं विघ्नवशादतिक्रान्तं
कुर्यादित्यर्थः । यदि विघ्न इत्यत्रापि ऋश्यशृङ्गवचनाविरोधा-
द्याशौचव्यतिरिक्तनिमित्तेनेति शेषो द्रष्टव्यः । आशौचनिमि-
त्तेन तु विघ्निते मासिकविषयेऽपि सूतकानन्तरमेव श्राद्धानु-
ष्ठानं ऋश्यशृङ्गोक्तमनुसन्धेयम् । अत एव देवस्वामिनाऽप्युक्तं—
‘एतदृश्यशृङ्गवचनं सूतकाशौचविषयम् । निमित्तान्तरतस्तदह-
र्विघाते—
एकोद्दिष्टे तु सम्प्राप्ते यदि विघ्नः प्रजायते ।
इत्यादिस्मृत्यन्तरवचनम्’ इति । यत्पुनस्स्मृत्यन्तरं—
श्राद्धविघ्ने समुत्पन्ने अन्तरा मृतसूतके ।
अमावास्यां प्रकुर्वीत शुद्धावेके मनीषिणः ॥
इति अन्तरा मृतसूतके श्राद्धप्रयोगमध्ये पाकोपक्रमात्पूर्वं सूतके
मृतके वा जाते अमावास्यायां शुद्धौ शुद्ध्यनन्तरम् । एतत् सां-
वत्सरिकश्राद्धविषयम् । अमावास्याग्रहणं कृष्णैकादश्याश्चोप-
लक्षणार्थम् । अत एव मरीचिः—
श्राद्धविघ्ने समुत्पन्ने अविज्ञाते मृतेऽहनि ।
एकादश्यां तु कर्तव्यं कृष्णपक्षे विशेषतः ॥
इति । कृष्णपक्षे या एकादशी तस्यां विशेषतः कर्तव्यमि-

140 स्मृतिचन्द्रिकायां

त्यन्वयः। पितृकार्ये स्वतः कृष्णपक्षस्यैव ग्राह्यत्वात् कृष्णे-
कादशीतोप्यमावास्यायाः पितृकार्ये श्रेष्ठ्यं दण्डापूपिकान्या-
यसिद्धमिति बोद्धव्यम्। यत्तु षट्त्रिंशन्मतं—
मासिकेऽब्दे तु संप्राप्ते त्वन्तरा मृतसूतके।
वदन्ति शुद्धौ तत्कार्यं दर्शे वाऽपि विचक्षणाः ॥
इति, तदेतत् 'तान्येव तु पुनः कुर्यात्' इति विहितानुमा-
सिकश्राद्धविषयम्। एकोद्दिष्टमासिके पूर्वमेवानुकल्पकालस्यो-
क्तत्वात्। तत्र शुद्धचनन्तरकालो मुख्यकालत्वाच्छ्रेष्ठः। दर्श-
कालस्ततो जघन्यः, मुख्यकालप्रत्यासत्त्यभावादिति मन्तव्यम्।
तथाच ऋश्यशृङ्गः—
शुचिभूतेन दातव्यं या तिथिः प्रतिपद्यते।
सा तिथिस्तस्य कर्तव्या न त्वन्या वै कदाचन ॥
इति। अयमर्थः—शुचिभूतेन तावद्दातव्यम्। तेन मुख्यकाले
शुद्ध्यसम्भवे शुद्ध्यनन्तरं या तिथिः प्रतिपद्यते लभ्यते सा
तिथिस्तस्य कर्तव्या कर्मोपक्रमात्प्राक् साध्यतया कथञ्चिद-
नुष्ठेया न त्वन्या, मुख्या तिथिराशौचदूषिता कदाचन ना-
नुष्ठेयेति। आशौचदूषिता मुख्या तिथिर्नानुष्ठेयेत्याह स एव—
तिथिच्छेदो न कर्तव्यो विनाऽऽशौचं यदृच्छया।
पिण्डं श्राद्धं च दातव्यं विच्छित्तिं नैव कारयेत् ॥
यदृच्छया स्वेच्छया। श्राद्धं ब्राह्मणतर्पणम्। चशब्देनाग्नौ-

श्राद्धकाण्डे गौणश्राद्धकालाः 141

करणमपि कर्तव्यमिति समुच्चिनोति । श्राद्धशब्देनात्र ब्राह्म-

णतर्पणमात्रमुपचारादुच्यते, न मुख्यार्थतया, अग्नौकरणब्राह्म-

णतर्पणपिण्डदानात्मककर्मत्रयसमुदायस्यैव मुख्यार्थत्वात् । तथाच

देवस्वामिना श्राद्धशब्दार्थ एवमेव सम्यङ्निरूपितः-

पिण्डाभावेऽपि नित्यादौ श्राद्धशब्दप्रयोगतः ।

श्राद्धशब्दो न पिण्डेषु नापि च द्विजभोजने ॥

अतिथ्यादौ भुजासत्यां श्राद्धशब्दाप्रयोगतः ।

पितॄनुद्दिश्य वित्तादित्यागमात्रं न चैव हि ॥

तर्पणादेरपि प्राप्तेस्त्यागस्तत्रापि दृश्यते ।

विद्वन्मतान्युपादाय मम त्वेतद्धृदि स्थितम् ॥

होमश्च पिण्डदानं च तथा ब्राह्मणतर्पणम् ।

श्राद्धशब्दाभिधेयं स्यादेकस्मिन्नौपचारिकः ॥

इति । 'विच्छित्तिं नैव कारयेत्' इति ऋष्यशृङ्गवचनस्याय-

मर्थः-कृत्स्नस्य श्राद्धशब्दार्थस्य कर्तुमशक्यत्वेऽपि तदेक-

देशमात्रं वा यथासामर्थ्यं कुर्यात् । सर्वथा कर्मविच्छित्तिं

नैव कुर्यादिति । अत एव निगमः-'आहिताग्नेः पित्रर्चनं

पिण्डैरेव ब्राह्मणानपि वा भोजयेत्' इति । अत्र यथासामर्थ्यं

व्यवस्था । ततश्च द्वितीयपक्षासामर्थ्ये प्रथमोक्तः पक्षः ॥

इति स्मृतिचन्द्रिकायां गौणश्राद्धकालाः,

142 स्मृतिचन्द्रिकायां
अथ श्राद्धदेशाः.
तत्र विष्णुधर्मोत्तरे—
दक्षिणाप्रवणे देशे तीर्थादौ वा गृहेऽपि वा ।
भूसंस्कारादिसंयुक्ते श्राद्धं कुर्यात्प्रयत्नतः ॥
तीर्थं ऋषिसेवितं जलं, तत्समीपे । आदिशब्देन ऋषिसे-
विताश्रमादि * गृह्यते । भूसंस्कारादिसंयुक्ते भूसंस्कारो गो-
मयादिलेपनादिः । आदिशब्देन केशाद्यशुचिद्रव्यापसारणं गृ-
ह्यते । तथाचोक्तं तत्रैव—
गोमयेनोपलिप्तेषु विविक्तेषु गृहेषु च ।
कुर्याच्छ्राद्धमथैतेषु नित्यमेव यथाविधि ॥
इति । एतेषु पूर्वोक्तेषु गृहेषु गृहादिषु गोमयेनोपलिप्तेषु के-
शादिद्रव्यवियुक्तेषु श्राद्धं नित्यं कुर्यादित्यर्थः । मनुरपि—
शुचिं देशं विविक्तं तु गोमयेनोपलेपयेत् ।
दक्षिणाप्रवणं चैव प्रयत्नेनोपपादयेत् ॥
इति । अयमर्थः—स्वतश्शुचिं तीर्थादिप्रदेशं गृहप्रदेशं वा
परकृताशुचिपरिहारार्थं विविक्तं केशाद्यसंयुक्तं कृत्वा भूसं-
स्कारातिशयार्थं गोमयेनोपलेपयेत् । स्वतो दक्षिणाप्रवणत्वा-
भावेऽपि पितृयजनत्वसिद्धये दक्षिणाप्रवणत्वं चोद्धननादिना
प्रयत्नेनोपपादयेत् कुर्यादिति । अत्र यमः—
परकीयप्रदेशेषु पितॄणां निर्वपेत्तु यः ।

  • ऋषिदेवताश्रयादि इति पाठान्तरम् .

...शाः 143
तद्भूमिस्वामिपितृभिश्श्राद्धकर्म विहन्यते ॥
तेन तत्र श्राद्धं न कुर्यादित्यभिप्रायः । परकीयप्रदेशाः पर-
परिगृहीतगृहगोष्ठादिप्रदेशाः, न पुनस्तीर्थादिप्रदेशाः । तथाच
पुराणम्—
अटवीपर्वताः पुण्या नदीतीराणि यानि च ।
सर्वाण्यस्वामिकान्याहुः न हि तेषु परिग्रहः ॥
वनानि गिरयो नद्यः तीर्थान्यायतनानि च ।
देवखाताश्च गर्ताश्च न स्वामी तेषु विद्यते ॥
इति । देवखाताश्च गर्ताश्च देवखातगर्ताश्चेत्यर्थः । कृत्रिमगर्त-
स्यास्वामिकत्वनियमासम्भवात् । यस्मादेतेषु परपरिग्रहा-
भावः, तस्मादेतेषु स्वगृहेष्विव श्राद्धं देयमित्युक्तम् । वि-
ष्णुधर्मोत्तरे—
तस्माच्छ्राद्धानि देयानि पुण्येष्वायतनेषु च ।
नदीतीरेषु तीर्थेषु स्वभूमौ च प्रयत्नतः ॥
इति । स्वभूम्यामपि कृत्रिमप्रदेशादन्यत्र देयानि, तत्र प्रति-
षेधात् । तथाच शङ्खः—
गोगजाश्वादिपृष्ठेषु कृत्रिमायां तथा भुवि ।
न कुर्याच्छ्राद्धमेतेषु पारक्याशुचिभूमिषु ॥
कृत्रिमायां भुवि वेदिकायामित्यर्थः । अनेन अकृत्रिमायामे-
व भुवि पितृतृप्तिर्भवतीत्यर्थादुक्तम् । उक्तं चसाक्षाद्देवलेन—
स्थलीषु गिरिपृष्ठेषु तीर्थेष्वायतनेषु च ।

144 स्मृतिचन्द्रिकायां
गोष्ठेषु च विविक्तेषु तुष्यन्ति पितरस्तथा ॥
स्थलीषु अकृत्रिमोन्नतदेशेष्वित्यर्थः । 'जानपदकुण्डगोळस्थल'
इत्यादिना पाणिनीयसूत्रेण स्थलशब्दादकृत्रिमार्थे ङीप्प्रत्य-
विधानात् । शङ्खोपि कृत्रिमस्थले निषेधमाह— 'नेष्टकाचिते
पितॄंस्तर्पयेत्' इति । यमस्तु वर्ज्यप्रदेशमाह—
रूक्षं क्रिमिहतं क्लिन्नं सङ्कीर्णानिष्टगन्धकम् ।
देशं त्वनिष्टशब्दं च वर्जयेच्छ्राद्धकर्मणि ॥
रूक्षं अस्निग्धम् । क्लिन्नं सकर्दमम् । सङ्कीर्णं पदार्थान्तरैरा-
कीर्णम् । अनिष्टगन्धिकं पूतिगन्धिकम् । अनिष्टशब्दं अश्रा-
व्यशब्दम् । मदालसावाक्यमपि—
वर्ज्या जन्तुमती रूक्षा क्षितिः प्लुष्टा तथाऽग्निना ।
अनिष्टदुष्टशब्दोग्रा दुर्गन्धा श्राद्धकर्मणि ॥
अग्निना प्लुष्टा दग्धा । उग्रा व्याघ्रादिसंनिकृष्टा ।
इति स्मृतिचन्द्रिकायां श्राद्धदेशाः.
अथ काम्यश्राद्धदेशाः.
तत्र व्यासः—
पुष्करे त्वक्षयं श्राद्धं जपहोमतपांसि च ।
महोदधौ प्रयागे च काश्यां च कुरुजाङ्गले ॥
इति । पुष्करे पुष्कराख्यतीर्थे । काशी वाराणसी । कुरुजा-
ङ्गलशब्दौ जनपदविशेषवचनौ । शङ्खोपि—

श्राद्धकाण्डे काम्यश्राद्धदेशाः 145
वाराणस्यां कुरुक्षेत्रे भृगुतुङ्गे हिमालये ।
नर्मदाबाहुदातीरे सर्वमानन्त्यमश्नुते ॥
गङ्गाद्वारे प्रयागे वा नैमिशे पुष्करे तथा ।
सन्निहत्यां गयायां च दत्तमक्षय्यतां व्रजेत् ॥
नैमिशे सरस्वतीतीरवर्तिनि नैमिशारण्ये । सन्निहतिः कुरुक्षे-
त्रवर्ती तीर्थविशेषः । गया प्रसिद्धा । गयाक्षेत्रस्य तु प्रमाणं
पुराणे दर्शितं—
महानदी देवनद्योः सर्वतीर्थाद्यनन्तरम् ।
उदक्कनकनन्दाया गयामध्यं प्रकीर्तितम् ॥
पञ्चक्रोशं गयाक्षेत्रं क्रोशमात्रं गयाशिरः ।
पञ्चक्रोशप्रमाणके गयाक्षेत्रे सारभूतं क्रोशमात्रं गयाशिर इति
प्रसिद्धमित्यर्थः । तच्च तत्रैव निरूपितं—
महानद्याः पश्चिमेन यावद्गृध्रेश्वरो गिरिः ।
उत्तरे ब्रह्मयूपस्य यावद्दक्षिणमानसम् ॥
एतद्गयाशिरो नाम त्रिषु लोकेषु विश्रुतम् ।
इति । गयाशिरोवदन्यान्यपि गयायां विश्रुतानि महानद्या-
दीनि श्राद्धस्थलानि तत्रैव दर्शितानि—
महानदी ब्रह्मसदोऽक्षयो वटः प्रभासमुद्यन्तमथो गयाशिरः।
सरस्वती धेनुकधर्मपृष्ठमेते कुरुक्षेत्रसमा गयायाम् ॥
इति । उद्यन्ताख्यः पर्वतविशेषः । सरस्वती प्राची सरस्वतीति
विश्रुता । व्यासोपि—
SMRITI CHA.—Vol. V. 19

146 स्मृतिचन्द्रिकायां
ब्रह्मारण्यं धर्मपृष्ठं धेनुकारण्यमेव च ।
त्रिष्वेतेषु पितॄनर्चन् वंशान् सप्त समुद्धरेत् ॥
ब्रह्मकैवर्तेऽपि—
गयायां मुण्डपृष्ठं तु अरविन्दं च पर्वतम् ।
तृतीयं क्रौञ्चपादं तु दृष्ट्वा पापैः प्रमुच्यते ॥
गयायास्तच्छिरसो मुण्डपृष्ठस्य च माहात्म्यं तत्रैव दर्शितं—
स्वर्गपातालमर्त्येषु नास्ति तीर्थं गयासमम् ।
पितरो यान्ति देवत्वं प्राप्तपिण्डा गयाशिरै ॥
गयाशीर्षे यदा पिण्डं नाम्ना येषां प्रकुर्वते ।
नरकस्था दिवं यान्ति स्वर्गस्था मोक्षगामिनः ॥
मुण्डपृष्ठे पदं न्यस्तं महादेवेन धीमता ।
बहून्यब्दसहस्राणि तपस्तप्त्वा सुदारुणम् ॥
अल्पेनाप्यत्र कालेन नरो धर्मपरायणः ।
पापं विमोचयत्याशु जीर्णां त्वचमिवोरगः ॥
इति । अक्षयवटस्य माहात्म्यं तत्रैव दर्शितं—
तत्राक्षयवटो नाम त्रिषु लोकेषु विश्रुतः ।
पितॄणां तत्र वै दत्तमक्षयं भवति प्रभो ॥
वटवृक्षं समासाद्य शाकेनाप्युदकेन वा ।
एकस्मिन् भोजिते विप्रे कोटिर्भवति भोजिता ॥
धेनुकारण्यमाहात्म्यं पुराणान्तरे दर्शितं—
ततो गच्छेत राजेन्द्र धेनुकां लोकविश्रुताम् ।

तत्र चिह्नं प्रदृश्येत अद्यापि हि न संशयः ॥
कपिलायास्सवत्साया दृश्यन्ते कुरुसत्तम ।
विचरन्त्याः पदानि स्युः दृश्यन्ते पश्च कृत्स्नवत् ॥
पदानि तानि संस्पृश्य कपिलाया नराधिप ।
तेषु दृष्टेषु यत्पुंसः पापं तत्संप्रणश्यति ॥
गृध्रेश्वरमाहात्म्यं तत्रैव दर्शितं—
ततो गृध्रनगं गच्छेत् स्थानं देवस्य धीमतः ।
स्नात्वा तु भस्मना तत्र अधिगच्छेन्महेश्वरम् ॥
ब्राह्मणेन भवेच्चीर्णं व्रतं द्वादशवार्षिकम् ।
इतरेषां तु वर्णानां सर्वपापक्षयो भवेत् ॥
इति । गृध्रेश्वरगिरिमाहात्म्यं तत्रैव दर्शितं—
ततो गच्छेत्समं त्वन्नपर्वतं गिरिवारितम् ।
सावित्र्यास्तस्य दृश्यन्ते पदानि भरतर्षभ ॥
तत्र सन्ध्यामुपासीत ब्राह्मणस्संशितव्रतः ।
तेनोपासिता भवति सन्ध्या द्वादशवार्षिकी ॥
धर्मपृष्ठस्य माहात्म्यं तच्च तत्रैव दर्शितम् ।
ततो गच्छेत राजेन्द्र धर्मपृष्ठं समाहितः ॥
यत्र धर्मो महाराज नित्यमास्ते युधांवर ।
तत्राधिगम्य राजेन्द्र हयमेधफलं भवेत् ॥
तीर्थान्तराणां च गयायां प्रसिद्धानां माहात्म्यं दर्शितम्—
ततो विशालामासाद्य नदीं त्रैलोक्यविश्रुताम् ।

148 स्मृ

अग्निष्टोममवाप्नोति स्वर्गलोकं च गच्छति ॥
अथ माहेश्वरं धाम समासाद्य नरश्शुचिः ।
हयमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥
दिवौकसां पुष्करिणीं समासाद्य नरश्शुचिः ।
न दुर्गतिमवाप्नोति विष्णुलोकं च गच्छति ॥
तत्र कोटिस्तु तीर्थानां विश्रुता भरतर्षभ ।
कूर्मरूपेण राजेन्द्र दानवेन दुरात्मना ॥
ह्रियमाणोद्धृता राजन् विष्णुना प्रभविष्णुना ।
तत्राभिषेकं कुर्वीत तीर्थकोट्या युधांवर ॥
पौण्डरीकमवाप्नोति विष्णुलोकं च गच्छति ।
गोप्रचारसमीपस्था आम्रा ब्रह्मप्रकल्पिताः ॥
तैस्सिकैः पुरुषस्येह पितरो मोक्षमाप्नुयुः ।
एको मुनिः कुम्भकराग्रहस्तः
आम्रेषु नित्यं सलिलं ददाति ।
आम्राश्च सिक्ताः पितरश्च तृप्ताः
एका क्रिया द्व्यर्थकरी बभूव ॥
या सा वैतरणी नाम त्रिषु लोकेषु विश्रुता ।
साऽवतीर्णा गयाशीर्षे पितॄणां तारणाय वै ॥
तत्र स्नात्वा महाराज गोदानं यः प्रयच्छति ।
एकविंशतिं वंश्यांस्तान् तारयेन्नात्र संशयः ॥
तत्र धेनुप्रदानेन पितरो मोक्षमाप्नुयुः ।

इति । पौण्डरीकं पौण्डरीकाख्ययज्ञफलम् । ब्रह्मकैवर्तेऽपि—
ब्रह्महा च कृतघ्नश्च गोघाती पञ्चपातकी ।
सर्वे निष्कृतिमायान्ति गयायां पिण्डपातनात् ॥
ब्रह्मघ्नश्च सुरापश्च बालवृद्धगुरुद्रुहः ।
नाशमायाति वै पापं गयायामनुयाति यः ॥
आत्मजत्वमवाप्तस्तु गयाकूले यथातथा ।
यन्नाम्ना पातयेत्पिण्डं तं नयेद्ब्रह्म शाश्वतम् ॥
इति ।
मकरे वर्तमाने तु ग्रहणे चन्द्रसूर्ययोः ।
दुर्लभं त्रिषु लोकेषु गयायां पिण्डपातनम् ॥
ब्रह्मणा सह शाश्वतं ब्रह्मप्राप्त्यापादकं ब्रह्मलोकं नयेदित्यर्थः ।
व्यासोपि—
गयां गत्वा तु यः कश्चित्पितॄन् संतर्पयेन्नरः ।
दश पूर्वापरान् वंश्यानात्मानं च पुनाति सः ॥
पुराणान्तरे—
स्नानं देहपरित्यागो गङ्गायां तु विशिष्यते ।
श्राद्धं पिण्डप्रदानं च गयायां तु विशिष्यते ॥
ब्रह्मज्ञानं गयाश्राद्धं गोगृहे मरणं तथा ।
वासः पुंसां कुरुक्षेत्रे मुक्तिरुक्ता चतुर्विधा ॥
गयाशीर्षे वसेन्नित्यं स्नानं फल्गौ समाचरेत् ।
गयाशीर्षे सदा पिण्डमेतत्स्वर्गेऽपि दुर्लभम् ॥

150 स्मृ न्द्रिकायां
फल्गुतीर्थे नरस्नात्वा देवं दृष्ट्वा गदाधरम् ।
गयाशिरः परिक्रम्य मुच्यते ब्रह्महत्यया ॥
गयायां पितृरूपेण स्वयमेव जनार्दनः ।
तं दृष्ट्वा पुण्डरीकाक्षं मुच्यते च ऋणत्रयात् ।
येनाक्रान्तं सकृदपि धर्मपृष्ठं गयाशिरः ॥
नश्यति ब्रह्महत्यादि पातकं नात्र संशयः ।
त्रिर्दत्पृथिवीं कृत्स्नां न मुच्येतपैतृकादृणात् ॥
यावच्छ्राद्धं न वै पुत्रः कुर्याद्गत्वा गयाशिरः ।
गयायां धर्मपृष्ठे च सदसि ब्रह्मणस्तथा ॥
गयाशीर्षे पदे चैव पितॄणां दत्तमक्षयम् ।
शमीपत्रप्रमाणेण पिण्डं दद्याद्गयाशिरे ॥
नरकस्था दिवं यान्ति स्वर्गस्था मोक्षमाप्नुयुः ।
इति । शमीपत्रग्रहणं स्ववित्तानुसारेण पिण्डदानमावश्यकमिति
ज्ञापनाथं, अत एवोक्तं तत्रैव—
वित्तशाठ्यं न कुर्वीत गयां प्राप्य सदा नरः ।
वित्तशाठ्यं च कुर्वाणो न तीर्थफलभाग्भवेत् ॥
अतो वित्तानुसारेण शरीरबलानुसारेण च गयाश्राद्धं कार्यम् ।
एतदपि तत्रैवोक्तम्—
अतो निर्वर्तयेच्छ्राद्धं यथाशक्ति यथाबलम् ।
कामान् स लभते दिव्यान् स्वर्गद्वारं तु तत्स्मृतम् ॥

[Page 151]
श्राद्धकाण्डे काम्यश्राद्धदेशाः 151

ति। तेन सति सम्भवे सवर्णादिभ्योऽपि कृपया पिण्डदाना-
दिकं देयं एतदपि तत्रैवोक्तम्—
सवर्णा ज्ञातयो ये च बान्धवास्सुहृदश्च ये।
तेभ्यो भूप गयाभूमौ पिण्डा देया विधानतः॥
दौहित्रेभ्यश्च पुत्रेभ्यः कनिष्ठेभ्योपि सर्वशः।
ये मृताश्चान्यजन्मानः पिण्डांस्तेभ्यो विनिर्वपेत्॥
तेऽपि यान्ति दिवं सर्वे पिण्डे दत्त इति श्रुतिः।
वर्णादीनां गोत्रादीनाम ज्ञाने तु तेषां पिण्डदानमन्त्रोपि तत्रैव
र्शितः—
पितृवंशसमुत्पन्ना मातृवंश्यास्तथैव च।
गुरुश्वशुरबन्धूनां ये चान्ये मानवा द्विजाः॥
ये मे कुले लुप्तपिण्डाः पुत्रदारविवर्जिताः।
विरूपा आमगर्भाश्च ज्ञाताज्ञातास्तथैव च॥
क्रियालोपगता ये च ये चान्ये गर्भसंस्थिताः।
तेभ्यो दत्तो मया पिण्डो ह्यक्षय्यमुपतिष्ठताम्॥
ामगर्भा अपक्वगर्भा अपूर्णगर्भा इति यावत्। सवर्णादिभ्यः
ण्डदानवदात्मार्थमपि तिलरहितं पिण्डं जनार्दनदेवसंनिधौ नि
पदव्यस्थापनवनिर्वपेत्। एतदपि तत्रैवोक्तम्—
आत्मनस्तु महाबुद्धे गयायां तु तिलैर्विना।
पिण्डनिर्वापणं कार्यं मृतानां तु तिलैस्सह॥
ते। गयायां यत्रयत्र श्राद्धादिकं क्रियते तत्रतत्रत्याएव

152 स्मृतिचन्द्रिकायां
विप्राः जातिमात्रोपजीविनोपि ब्राह्मणार्थे परिग्राह्याः । तथाच
पुराणान्तरं—
यदि पुत्रो गयां गच्छेत् कदाचित्कालपर्ययात् ।
तानेव भोजयेद्विप्रान् ब्राह्मणा ये प्रकल्पिताः ॥
एषां ब्रह्मसमं स्थानं सोमपानं तथैव च !
ब्रह्मकारितसंस्थाना विप्रा ब्रह्मसमास्मृताः ॥
अमानुषा गयाविप्रा ब्राह्मणा ये प्रकल्पिताः ।
तेषु तुष्टेषु संतुष्टाः पितृभिस्सह देवताः ॥
पितृरूपान् गयाविप्रान् पूजयित्वा समाहितः ॥
सर्वपापविशुद्धात्मा स्वर्गलोके महीयते ॥
तेषां च हस्तदत्तं वै गयायां च विशेषतः ।
तदक्षयं भवेत्तस्य पितॄणां नात्र संशयः ॥
न विचार्यं कुलं शीलं विद्या च तप एव च ।
पूजितैस्तैस्तु सन्तुष्टाः देवास्सपितृगुह्यकाः ॥
इति । 'यदि पुत्रो गयां गच्छेत्' इत्यत्र पुत्रग्रहणं पौत्रादीनां
पित्रादिगतश्रेयस्कामानां सर्वेषां गयागन्तॄणामुपलक्षणार्थं अत
एव ब्रह्मकैवर्ते—
उद्यतस्तु गयां गन्तुं श्राद्धं कृत्वा विधानतः ।
विधाय कर्मशेषं च ग्रामं कृत्वा प्रदक्षिणम् ॥
ततो ग्रामान्तरं गच्छेच्छ्राद्धशेषान्नभुङ्नरः ।
ततः प्रतिदिनं गच्छेत्प्रतिग्रहविवर्जितः ॥