स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 157, कुल 474 में से
संदर्भ में पढ़ेंइति । पित्र्ये कर्मणि दिनान्ते पञ्च नाड्यः पुण्याः प्रोक्ताः,
दैवे कर्मण्युदये पञ्च नाड्यः पुण्याः प्रोक्ता इत्यन्वयः । ख-
ण्डतिथिस्तु काम्यकर्मणि प्रथमोपक्रमे परित्याज्या, संपूर्णति-
थावेवोपक्रमसम्भवात् । उपक्रान्तस्य काम्यकर्मणः श्राद्धादेः
काम्यसिद्धिपर्यन्तमेकसंवत्सरपर्यन्तं वा स्वकाले पुनःपुनर-
नुष्ठाने कर्तव्ये खण्डतिथावप्युक्तदिनेऽवश्यं कर्मानुष्ठानं कर्त-
व्यम् । तथाच देवस्वामिना नक्षत्रश्राद्धमुदाहृत्योक्तं—‘नक्ष-
त्रेषु काम्यश्राद्धेषु तत्कामप्रदनक्षत्रप्राप्तौ यावत्तत्कामप्राप्ति
तस्मिन् ऋक्षे श्राद्धं कुर्यादब्दमेकं यावत्’ इति । अत्र
हारीतः—
काम्यश्राद्धानि काम्यार्थी सम्यग्यत्नेन साधयेत् ।
शरीरारम्भहेतुत्वात् मुमुक्षुस्तानि नाचरेत् ॥
कामप्राप्तानि विहितश्राद्धान्युक्तानि यानि तु ।
तानि विध्यन्तरोक्तत्वात्स्वर्गमोक्षार्थमाचरेत् ॥
यथाकथञ्चिन्नित्यानि कुर्यादिन्दुक्षयादिषु ।
पात्रद्रव्यादिसम्पत्सु सत्सु काम्यफलं लभेत् ॥
विध्यन्तरोक्तत्वादिति—‘द्विविध एव संस्कारो भवति ब्राह्मो
दैवश्च । गर्भाधानादिः स्मार्तो ब्राह्मः, पाकयज्ञहविर्यज्ञसौ-
म्याश्चेति दैवः । ब्राह्मसंस्कारसंस्कृत ऋषीणां समतां समानलो-
कतां सायुज्यं गच्छति । दैवेनोत्तरेण संस्कृतः देवानां समान-
लोकतां सायुज्यं गच्छति’ इत्येवमादिरूपेण विध्यन्तरेण,
SMRITI CHA.—VOL. V. 18