स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 156, कुल 474 में से
संदर्भ में पढ़ेंपूर्वं वा ग्राह्यम्' इति । उभयदिनेऽपि यदि सम्भावयितुं
शक्यते तदा तु स्वतः पूर्वदिनं ग्राह्यं, कथञ्चित्तत्रानुष्ठानाभावे
उत्तरदिनं ग्राह्यम् । उपक्रमोपसंहारयोरुभयोरुभयत्रासम्भववि-
षये तु यद्देवस्वामिनोक्तं—'यस्मिन् समाप्तिः तस्यां तिथौ
तस्मिन् काले सम्भवति तस्मिन्नहन्युपक्रम्य समापनीयम्' इति ।
समाप्तिः उपसंहारः । तस्मिन्नहन्यस्वकालेऽप्युपक्रम्य स्वकाले
समापनीयमित्यर्थः । तदेतदयुक्तं--कालस्याप्यधिकारिविशेषण-
त्वेन स्वकालेऽनागते कर्मण्यधिकाराभावादस्वकाले कर्मोपक्र-
मस्या्याय्यत्वात् । तस्मादस्मिन्विषये स्वकाले उपक्रम्यास्व-
काले समापनीयम् । स्वकालोपक्रान्ते कर्मणि कालान्तरेऽपि
समापनस्य विधिनाऽऽक्षिप्तत्वात् । यदा तु स्वकालेऽप्युपक्रमो
न सम्भवति तदा स्मृत्यन्तरोक्तं द्रष्टव्यम् ।
पित्र्यं श्राद्धं कृष्णपक्षे दिनेऽस्तमययोगिनि ।
शुक्ले तूदयसंयुक्ते दानं यज्ञादिकं तथा ॥
इति । कृष्णपक्षे 'प्रतिपद्धनलाभाय' इत्यादिना यद्विहितं
श्राद्धं तदस्तमययोगिप्रतिपदादितिथ्यन्विते दिने कर्तव्यम् ।
शुक्लपक्षे तिथिविशेषोल्लेखेन विहितं दानं देवकार्यादिकं उ-
दययोगितिथिविशेषान्वितदिने कर्तव्यमित्यर्थः । अस्तमययोगि-
त्वे उदययोगित्वे च विशेषस्तत्रैव—
दिनान्ते पञ्च नाड्यस्तु पुण्याः प्रोक्ता मनीषिभिः ।
उदये च तथा पित्र्ये दैवे चैव च कर्मणि ॥