स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 158, कुल 474 में से
संदर्भ में पढ़ें138 स्मृतिचन्द्रिकायां
श्राद्धकृत्सत्यवादी च गृहस्थोपि विमुच्यते ।
इत्येवमादिरूपेण विध्यन्तरेण चोक्तत्वादिति ॥
इति स्मृतिचन्द्रिकायां काम्यश्राद्धकालाः
अथ गौणश्राद्धकालाः.
तत्र ऋश्यशृङ्गः—
दैवे पितॄणां श्राद्धे तु आशौचं जायते यदि ।
आशौचादौ व्यतिक्रान्ते तेभ्यश्श्राद्धं प्रदीयते ॥
मुख्यकाले पाकोपक्रमात् प्राक् यदा श्राद्धाधिकारिण आ-
शौचं जायते तदा मुख्यकाले प्रत्यासन्ने आशौचेन दूषिते
आशौचापगमानन्तरकाल एव पैतृकं कर्म कार्यमित्यर्थः ।
यत्तु स्मृत्यन्तरं—
तदहश्चेत् प्रदुष्येत केनचित्सूतकादिना ।
सूतकानन्तरं कुर्यात्पुनस्तदहरेव वा ॥
इति, तत् श्राद्धाहे सूतकेन प्रदुष्टे सूतकानन्तरं कुर्यादिति
पक्षस्तावत् ऋश्यशृङ्गवचनाविरुद्ध एव । 'पुनस्तदहरेव वा'
इति पक्षस्त्वादिषब्दोक्तनिमित्तान्तरेण विहितमुख्यकालाभा-
वविषय इति पूर्ववचनाविरोधाय कल्पनीयम् । एतच्च पक्षा-
न्तरं क्षयाहे प्रतिमासं क्रियमाणश्राद्धविषयम् । तत्र मास-
स्पृष्टकालाभावेऽपि पक्षतिथिमात्रस्पृष्टस्यापि ग्राह्यत्वात् । अत
एव स्मृत्यन्तरं—