स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 166, कुल 474 में से
संदर्भ में पढ़ें146 स्मृतिचन्द्रिकायां
ब्रह्मारण्यं धर्मपृष्ठं धेनुकारण्यमेव च ।
त्रिष्वेतेषु पितॄनर्चन् वंशान् सप्त समुद्धरेत् ॥
ब्रह्मकैवर्तेऽपि—
गयायां मुण्डपृष्ठं तु अरविन्दं च पर्वतम् ।
तृतीयं क्रौञ्चपादं तु दृष्ट्वा पापैः प्रमुच्यते ॥
गयायास्तच्छिरसो मुण्डपृष्ठस्य च माहात्म्यं तत्रैव दर्शितं—
स्वर्गपातालमर्त्येषु नास्ति तीर्थं गयासमम् ।
पितरो यान्ति देवत्वं प्राप्तपिण्डा गयाशिरै ॥
गयाशीर्षे यदा पिण्डं नाम्ना येषां प्रकुर्वते ।
नरकस्था दिवं यान्ति स्वर्गस्था मोक्षगामिनः ॥
मुण्डपृष्ठे पदं न्यस्तं महादेवेन धीमता ।
बहून्यब्दसहस्राणि तपस्तप्त्वा सुदारुणम् ॥
अल्पेनाप्यत्र कालेन नरो धर्मपरायणः ।
पापं विमोचयत्याशु जीर्णां त्वचमिवोरगः ॥
इति । अक्षयवटस्य माहात्म्यं तत्रैव दर्शितं—
तत्राक्षयवटो नाम त्रिषु लोकेषु विश्रुतः ।
पितॄणां तत्र वै दत्तमक्षयं भवति प्रभो ॥
वटवृक्षं समासाद्य शाकेनाप्युदकेन वा ।
एकस्मिन् भोजिते विप्रे कोटिर्भवति भोजिता ॥
धेनुकारण्यमाहात्म्यं पुराणान्तरे दर्शितं—
ततो गच्छेत राजेन्द्र धेनुकां लोकविश्रुताम् ।