स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 172, कुल 474 में से
संदर्भ में पढ़ें152 स्मृतिचन्द्रिकायां
विप्राः जातिमात्रोपजीविनोपि ब्राह्मणार्थे परिग्राह्याः । तथाच
पुराणान्तरं—
यदि पुत्रो गयां गच्छेत् कदाचित्कालपर्ययात् ।
तानेव भोजयेद्विप्रान् ब्राह्मणा ये प्रकल्पिताः ॥
एषां ब्रह्मसमं स्थानं सोमपानं तथैव च !
ब्रह्मकारितसंस्थाना विप्रा ब्रह्मसमास्मृताः ॥
अमानुषा गयाविप्रा ब्राह्मणा ये प्रकल्पिताः ।
तेषु तुष्टेषु संतुष्टाः पितृभिस्सह देवताः ॥
पितृरूपान् गयाविप्रान् पूजयित्वा समाहितः ॥
सर्वपापविशुद्धात्मा स्वर्गलोके महीयते ॥
तेषां च हस्तदत्तं वै गयायां च विशेषतः ।
तदक्षयं भवेत्तस्य पितॄणां नात्र संशयः ॥
न विचार्यं कुलं शीलं विद्या च तप एव च ।
पूजितैस्तैस्तु सन्तुष्टाः देवास्सपितृगुह्यकाः ॥
इति । 'यदि पुत्रो गयां गच्छेत्' इत्यत्र पुत्रग्रहणं पौत्रादीनां
पित्रादिगतश्रेयस्कामानां सर्वेषां गयागन्तॄणामुपलक्षणार्थं अत
एव ब्रह्मकैवर्ते—
उद्यतस्तु गयां गन्तुं श्राद्धं कृत्वा विधानतः ।
विधाय कर्मशेषं च ग्रामं कृत्वा प्रदक्षिणम् ॥
ततो ग्रामान्तरं गच्छेच्छ्राद्धशेषान्नभुङ्नरः ।
ततः प्रतिदिनं गच्छेत्प्रतिग्रहविवर्जितः ॥