स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 169, कुल 474 में से
संदर्भ में पढ़ेंइति । पौण्डरीकं पौण्डरीकाख्ययज्ञफलम् । ब्रह्मकैवर्तेऽपि—
ब्रह्महा च कृतघ्नश्च गोघाती पञ्चपातकी ।
सर्वे निष्कृतिमायान्ति गयायां पिण्डपातनात् ॥
ब्रह्मघ्नश्च सुरापश्च बालवृद्धगुरुद्रुहः ।
नाशमायाति वै पापं गयायामनुयाति यः ॥
आत्मजत्वमवाप्तस्तु गयाकूले यथातथा ।
यन्नाम्ना पातयेत्पिण्डं तं नयेद्ब्रह्म शाश्वतम् ॥
इति ।
मकरे वर्तमाने तु ग्रहणे चन्द्रसूर्ययोः ।
दुर्लभं त्रिषु लोकेषु गयायां पिण्डपातनम् ॥
ब्रह्मणा सह शाश्वतं ब्रह्मप्राप्त्यापादकं ब्रह्मलोकं नयेदित्यर्थः ।
व्यासोपि—
गयां गत्वा तु यः कश्चित्पितॄन् संतर्पयेन्नरः ।
दश पूर्वापरान् वंश्यानात्मानं च पुनाति सः ॥
पुराणान्तरे—
स्नानं देहपरित्यागो गङ्गायां तु विशिष्यते ।
श्राद्धं पिण्डप्रदानं च गयायां तु विशिष्यते ॥
ब्रह्मज्ञानं गयाश्राद्धं गोगृहे मरणं तथा ।
वासः पुंसां कुरुक्षेत्रे मुक्तिरुक्ता चतुर्विधा ॥
गयाशीर्षे वसेन्नित्यं स्नानं फल्गौ समाचरेत् ।
गयाशीर्षे सदा पिण्डमेतत्स्वर्गेऽपि दुर्लभम् ॥