स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 160, कुल 474 में से
संदर्भ में पढ़ें140 स्मृतिचन्द्रिकायां
त्यन्वयः। पितृकार्ये स्वतः कृष्णपक्षस्यैव ग्राह्यत्वात् कृष्णे-
कादशीतोप्यमावास्यायाः पितृकार्ये श्रेष्ठ्यं दण्डापूपिकान्या-
यसिद्धमिति बोद्धव्यम्। यत्तु षट्त्रिंशन्मतं—
मासिकेऽब्दे तु संप्राप्ते त्वन्तरा मृतसूतके।
वदन्ति शुद्धौ तत्कार्यं दर्शे वाऽपि विचक्षणाः ॥
इति, तदेतत् 'तान्येव तु पुनः कुर्यात्' इति विहितानुमा-
सिकश्राद्धविषयम्। एकोद्दिष्टमासिके पूर्वमेवानुकल्पकालस्यो-
क्तत्वात्। तत्र शुद्धचनन्तरकालो मुख्यकालत्वाच्छ्रेष्ठः। दर्श-
कालस्ततो जघन्यः, मुख्यकालप्रत्यासत्त्यभावादिति मन्तव्यम्।
तथाच ऋश्यशृङ्गः—
शुचिभूतेन दातव्यं या तिथिः प्रतिपद्यते।
सा तिथिस्तस्य कर्तव्या न त्वन्या वै कदाचन ॥
इति। अयमर्थः—शुचिभूतेन तावद्दातव्यम्। तेन मुख्यकाले
शुद्ध्यसम्भवे शुद्ध्यनन्तरं या तिथिः प्रतिपद्यते लभ्यते सा
तिथिस्तस्य कर्तव्या कर्मोपक्रमात्प्राक् साध्यतया कथञ्चिद-
नुष्ठेया न त्वन्या, मुख्या तिथिराशौचदूषिता कदाचन ना-
नुष्ठेयेति। आशौचदूषिता मुख्या तिथिर्नानुष्ठेयेत्याह स एव—
तिथिच्छेदो न कर्तव्यो विनाऽऽशौचं यदृच्छया।
पिण्डं श्राद्धं च दातव्यं विच्छित्तिं नैव कारयेत् ॥
यदृच्छया स्वेच्छया। श्राद्धं ब्राह्मणतर्पणम्। चशब्देनाग्नौ-