स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 162, कुल 474 में से
संदर्भ में पढ़ें142 स्मृतिचन्द्रिकायां
अथ श्राद्धदेशाः.
तत्र विष्णुधर्मोत्तरे—
दक्षिणाप्रवणे देशे तीर्थादौ वा गृहेऽपि वा ।
भूसंस्कारादिसंयुक्ते श्राद्धं कुर्यात्प्रयत्नतः ॥
तीर्थं ऋषिसेवितं जलं, तत्समीपे । आदिशब्देन ऋषिसे-
विताश्रमादि * गृह्यते । भूसंस्कारादिसंयुक्ते भूसंस्कारो गो-
मयादिलेपनादिः । आदिशब्देन केशाद्यशुचिद्रव्यापसारणं गृ-
ह्यते । तथाचोक्तं तत्रैव—
गोमयेनोपलिप्तेषु विविक्तेषु गृहेषु च ।
कुर्याच्छ्राद्धमथैतेषु नित्यमेव यथाविधि ॥
इति । एतेषु पूर्वोक्तेषु गृहेषु गृहादिषु गोमयेनोपलिप्तेषु के-
शादिद्रव्यवियुक्तेषु श्राद्धं नित्यं कुर्यादित्यर्थः । मनुरपि—
शुचिं देशं विविक्तं तु गोमयेनोपलेपयेत् ।
दक्षिणाप्रवणं चैव प्रयत्नेनोपपादयेत् ॥
इति । अयमर्थः—स्वतश्शुचिं तीर्थादिप्रदेशं गृहप्रदेशं वा
परकृताशुचिपरिहारार्थं विविक्तं केशाद्यसंयुक्तं कृत्वा भूसं-
स्कारातिशयार्थं गोमयेनोपलेपयेत् । स्वतो दक्षिणाप्रवणत्वा-
भावेऽपि पितृयजनत्वसिद्धये दक्षिणाप्रवणत्वं चोद्धननादिना
प्रयत्नेनोपपादयेत् कुर्यादिति । अत्र यमः—
परकीयप्रदेशेषु पितॄणां निर्वपेत्तु यः ।
- ऋषिदेवताश्रयादि इति पाठान्तरम् .