षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पञ्चमोऽध्यायः (१) १६९
अथशब्दो वाक्योपक्रमे । यस्य यजमानस्य उत्पूतम् उत्पवनेन
संस्कृतम् आज्यं स्कन्दति पात्रात् सा वै सैव स्कन्ना नाम स्कन्नरूपा
आहुतिर्भवतीति । ततो वै स्कन्नाहुत्या यजमानः प्रमायुर्भवति मरणशीलो
भवतीत्यर्थः । तस्मिन्निमित्ते वरो देयः गोरूपां दक्षिणां दद्यादित्यर्थः । सैव
दक्षिणा तस्य आज्यस्कन्दस्य प्रायश्चित्तिः । प्रत्यवायपरिहारार्थं कर्मे-
त्याहुर्ब्रह्मवादिनः ॥ ७ ॥
अनुत्पूताज्यस्कन्दने प्रायश्चित्तमाह —
अथ यस्याज्यमनुत्पूतं स्कन्दत्यसौ वा अस्कन्ना
नाम आहुतिः । ततो वै यजमानस्य चित्तं प्रमायुर्भवति ।
चित्रं देयं सैव तस्य प्रायश्चित्तिः ॥ ८ ॥
अथ पुनः यस्य यजमानस्य संबन्धि आज्यम् अनुत्पूतम् उत्पवन-
रहितं स्कन्दति पात्रात्, असावस्कन्ना नाम अस्कन्नरूपा आहुतिः । ततः
तयैवाहुत्या यजमानस्य चित्तं प्रमायुर्विनाशि भवतीति तन्निमित्तं चित्रं नाना-
विधं द्रव्यं देयम् । सैव तस्य प्रायश्चित्तिरनुत्पूतस्कन्दप्रायश्चित्तिरिति ॥ ८ ॥
अग्निहोत्रे सवनत्रयं संपादयति—
यद्गार्हपत्ये जुहोति तत्प्रातःसवनम् । यद्दक्षिणाग्नौ
जुहोति तन्माध्यंदिनं सवनम् । यदाहवनीये जुहोति
तत्तृतीयसवनम् ॥ ९ ॥
- J. om. शब्दो...यस्य ; J. om. उत्पवनेन...आज्यं.
- J. om. पात्रात्, सैव and स्कन्नरूपा.
- J. om. भवतीति...०हुत्या.
- MTK. निमित्तं for निमित्ते.
- J. om. आज्य० ; RI. ०स्कन्दनस्य for ०स्कन्दस्य; J. adds
इति after ०श्चित्तिः. - K. वित्तं for चित्तं.
- RMIK. add तत् after ०रहितं ; J. पात्रम् for पात्रात्, M.
असौ वै स्कन्नानां for असावस्कन्ना नम ; T. ०स्कन्नानां for ०स्कन्ना नाम० ;
J. आज्याहुतिः for आहुतिः. - J om. विनाशि, and (इ)ति.
- JRTK. om. प्रायश्चित्तिर् ; J. ०स्कन्दस्य, RI. ०स्कन्दन० for
०स्कन्द०
१७० षड्विंशब्राह्मणम्
गार्हपत्ये अग्नौ जुहोतीति यत्तदेव प्रातःसवनम् । प्राथम्यसाम्यात् ।
एवमन्यदपि ॥ ९ ॥
यन्मार्जयते सोऽस्यावभृथः ॥ १० ॥
अत्रैवोदयनीयादिसंपत्तिं दर्शयति—
यदन्ना ददाति तेन उदयनीयस्योदवसानीयस्य
समाप्त्यै ॥ ११ ॥
अन्ना अन्नानि हवींषि आददाति इति यत् तेन उदयनीयस्य एतदा-
ख्यस्य कर्मणः उदवसानीयस्य च समाप्त्यै कृतं भवतीत्यर्थः ॥ १०-११ ॥
अग्निहोत्र एव मथने अग्नेरनुत्पादे विकल्पेन प्रायश्चित्तं दर्शयति—
अथ यस्याग्निर्मथ्यमानो न जायेतान्यमाहृत्यास्मिन्न-
वकाशे जुहुयात् ब्राह्मणस्य वा हस्तेऽजस्य वा कर्णे
कुशस्तम्बे वाप्सु वा जुहुयात् ॥ १२ ॥
अथ पुनः यस्य यजमानस्य अग्निर्मथ्यमानो यदि न जायेत तर्हि
अन्यमाहृत्य लौकिकमग्नि मानीय अस्मिन्नवकाशे आहवनीयाधारे व्याहृति-
भिर्जुहुयात् । लौकिकाग्नेरप्यभावे ब्राह्मणस्य हस्ते जुहुयात् । एवमन्यदपि
व्याख्येयत् । तथा चाश्वलायनः—अग्निहोत्राय कालेऽग्नावजायमानेऽन्य-
मानीय जुहुयात् । पूर्व्वाभावे उत्तरोत्तरं ब्राह्मणपाण्यजकर्णदर्भस्तम्बाप्सु
(आ. श्रौ. सू. ३.१४.१४-१६) इत्यादि ॥ १२ ॥
- MTIK. add यद् before अग्नौ ; J. om. (इ)ति.
- MTIK om. यन्मार्जयते...भृथः.
- R trans. अत्रवोद०...दर्शयति before यन्मार्जयते.
- M. हविष्यानि , KT. हविष्यो for हवींषि ; J. अन्नादि हवींषि अन्ना for अन्ना अन्नानि हवींषि ; JMKT. om. इति.
- M. अन्यस्मिन् for अस्मिन् .
- J om. यदि.
- J. ०नीयाग्नौ, K. ०नीयागारे for ०नीयाधारे.
पञ्चमोऽध्यायः (१) १७१
अग्निहोत्रे स्वयंकृतहोमस्तुत्यर्थं गौणकर्तृ[प्रदर्शन]पुरःसरम्
उत्तरोत्तरं मुख्यान् कर्तॄन् दर्शयति—
अन्यैः शतहुतान् होमानेकः शिष्यहुतो वरम् ।
शिष्यैः शतहुतान् होमानेकः पुत्रहुतो वरम् ॥
पुत्रैः शतहुतान् होमानेको ह्यात्महुतो वरम् ॥ १३ ॥
अन्यैः शिष्यादिव्यतिरिक्तैः शतहुतान् शतशो हुतान् कृतान् होमान्
अपेक्ष्य शिष्यहुतः शिष्येण कृतः एको होमः वरम् उत्कृष्टः । एवमन्यदपि
व्याख्येयम् ॥ १३ ॥
अस्त्वेवं किं तत इत्याह—
स्वयं होता स्वयं दोही स्वयमेवोपतिष्ठेताग्नि-
होत्रम् ॥ १४ ॥
यत एवमात्मकृतो होमः प्रशस्तः तस्मात् स्वयं होता देवानामाह्वाता
स्वयमेव दोही अग्निहोत्रार्थं पयसो दोग्धा सन् स्वयमेव यजमानः स्वयमेवाग्नि-
होत्रमुपतिष्ठेत ॥ १४ ॥
तत्र दक्षिणां दर्शयति—
हौम्यशेषं दक्षिणा ॥ १५ ॥
हौम्यशेषं हुतावशिष्टं हविरेव दक्षिणा । नान्यदित्यर्थः ॥ १५ ॥
- R. ०कृतैकहोम, M. ०कृतो होम०, K. ०कृतेकहोम० T.
०कृतकहोम for ०कृतहोम ; M. ०स्तुत्यर्थः for स्तुत्यर्थ.
3&4. JMK. ०हुताद् होमात् for ०हुतान् होमान् . - T. ०हुतैंहोमान् for हुतान् होमान् .
- RKI. शिष्य० for शिष्येण.
- J adds. अग्निहोत्रे after दर्शयति.
16&17. MTK. होम्य० for हौम्य.
17 R. हुत, MTK. हुत्वाव० for हुताव०.
१७२ षड्विंशब्राह्मणम्
अथोक्तमग्निहोत्रं प्रशंसति—
सर्वैर्ह वा एतस्य यज्ञक्रतुभिरिष्टं भवति । य एवं
विद्वानग्निहोत्रं जुहोति ॥ १६ ॥
य एवम् उक्तरीत्या विद्वान् जानन् अग्निहोत्रं जुहोति एतस्य
सर्वैर्यज्ञक्रतुभिः एव इष्टं भवति । सर्वे क्रतवः कृता भवन्तीत्यर्थः ॥ १६ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणे
पञ्चमाध्याये प्रथमः खण्डः ॥ १ ॥
- RTIK. तथो०, J. यथो० for अथो०.
- M. जानानः for जानन् ; TMK. add इति after जुहोति.
- M. om. एव ; M. adds इति after भवति ; J. adds
अपि after सर्वे.
द्वितीयः खण्डः
यदुक्तमग्निहोत्रमात्रेणैव सर्वक्रतुभिरिष्टं भवतीति तदेतदाख्यायिकया
उपपादयति—
प्रजापतिर्वा एतत् सत्रं सहस्रसंवत्सरमसृजत । तेषां
प्र॒जाप॑तिः सहस्रसंवत्सरं गवामयनेऽवारुन्धत् । गवामयनं
द्वादशाहे द्वादशाहमतिरात्रे अतिरात्रं षोडशिनि षोडशिन-
मुक्थ्ये उक्थ्यमग्निष्टोमेऽग्निष्टोममिष्टिपशुबन्धयोरिष्टिपशु-
बन्धावग्निहोत्रे सर्वैर्ह वा एतस्य यज्ञक्रतुभिरिष्टं भवति ।
य एवं विद्वानग्निहोत्रं जुहोति ॥ १ ॥
यतः पुरा प्रजापतिः खल्वेतत् प्रसिद्धं सहस्रसंवत्सरम् । वत्सरशब्दो
दिनपरः । शतायुः पुरुषः (तै. सं ३. २. ६. ३) इति श्रुतेः
सहस्रसंवत्सरं जीव[नस्य] मनुष्यस्य कस्याप्य[सं]भावात् । गन्धर्वादीनां
सहस्रसंवत्सरजीवनेऽपि तेषामनुरूपसंहाराद्यसामर्थ्यान्नाधिकारः । न च
यो मासः स संवत्सरः ( ) इति दर्शनात् संवत्सरशब्दो मासपर इति
शङ्कनीयम् । तत्रापि आधानादूर्ध्वं सहस्रमासजीवनासम्भवात् । नापि संवत्सर-
प्रतिमा वै द्वादशरात्र इति प्रयोगात् द्वादशरात्रपरता संवत्सरशब्दस्येति
शङ्कनीयम् । प्रतिमाविशेषणत्वेनैवात्र संवत्सरशब्दस्य प्रयोगात् । न तु
10. MK. om. वत्सरशब्दो...संवत्सरं (L. 12.)
12. RJMIK. जीवितुं for जीवनस्य; T. after this line is damaged, see CN.
13. M. ०संवत्सरं for ०संवत्सर०; J. अत्युपरूपसंहारासामर्थ्या० for अनुरूप०..., K. ०सामर्थ्येनानधि, MT. ०समर्थनाद[न]धि० for ०सामर्थ्यान्नाधि०.
17. J. चतुर् for न तु.
१७४ षड्विंशब्राह्मणम्
द्वादशरात्रेषु प्रयोगा इति । अतः सहस्रदिवससाध्यं सत्रमसृजतेत्यर्थः ।
सृष्ट्वा च प्रजापतिः तेषामुपसन्नानां देवानांमर्थे सहस्रसंवत्सरं सत्रं गवामयने
एकसंवत्सरसाध्ये सत्रे अवारुन्धत् न्यरौत्सीत् । तच्च गवामयनं द्वादशाहे
संस्थायज्ञे अवारुन्धदित्यनुषङ्गः । एवमन्यदपि व्याख्येयम् । तस्मात्
अग्निहोत्रे सर्वस्याप्यवरोधात् अग्निहोत्रमात्रेण सर्वैर्यज्ञक्रतुभिरिष्टं भवतीति
सिद्धमित्यर्थः ॥ १ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणे
पञ्चमाध्याये द्वितीयः खण्डः ॥ २ ॥
- J. रात्रिषु for रात्रेषु; JMK प्रयोगादिति for प्रयोग इति.
- RJI. उपसंपन्नानां, M. उत्पन्नानां for उपसन्नानां ; J. ०वत्सरसाध्ये
सत्रे for ०वत्सरं सत्रं ; M. om· सत्रं; J. ०मयनं for ०मयने. - J. om. एक०...सत्रे.
- J. द्वादशाहसाध्ये for संस्थायज्ञे.
तृतीयः खण्डः
अथेदानीमौदुम्बरी सविशेषा निरूप्यते । तत्र औदुम्बर्या उच्छ्रयणं
विधातुं प्रशंसति—
प्रजापतिर्देवेभ्य औदुम्बरीमुच्छ्रयति । असुषिरमूला-
मग्रन्थि पृथुबुध्नामेकजाम् ॥ १ ॥
पुरा प्रजापतिर्देवेभ्यः स्वीये यागे असुषिरमूलाम् अच्छिद्रमूलाम्
अग्रन्थिं ग्रन्थिरहितां पृथुबुध्नां स्थूलमूलाम् एकजाम् अनेकशाखारहिताम्
औदुम्बरीमुच्छ्रयति । अत एतादृगौदुम्बर्या उच्छ्रयणं प्रशस्तमित्यर्थः ॥ १ ॥
कियत्परिमाणमौदुम्बर्या इत्यत्राह —
यजमानमात्र्यौदुम्बरी भवति ॥ २ ॥
औदुम्बरी यजमानसंमिता भवतीत्यर्थः । तथा च श्रुत्यन्तरम्—
यजमानेन संमितौदुम्बरी भवति (तै. सं ६. २. १०. ३) इति ॥ २ ॥
यदि कुब्जादयो यजमानास्तदा कथमित्याशङ्क्याह—
अथ कुब्जवामना यजमाना ह्रस्वाश्चोर्ध्वबाहवः
प्रच्छेदं कुर्युः ॥ ३ ॥
2. M. ०शेषं for ०शेषा.
8. JM. ०दृगौ० for ०दृशौ०.
9. MTK. यत् for कियत् ; MTK. om. अत्र.
13. RI. यथा for यदि; JT. तथा for तदा.
14. M. कुब्जा for कुब्ज०.
15. MTK. कुर्यात् for कुर्युः.
अथ यदि कुब्ज[वामनाः] यजमानाः । कुब्जो नाम कुण्ह्रस्वः ।
वामनो नाम अतिह्रस्वसर्वोङ्गः । ह्रस्वाश्च, ह्रस्वो नाम शास्त्रोक्तप्रमाणापेक्षया,
भवेयुस्तर्हि ऊर्ध्वबाहवः स्युः । तैरूर्ध्वबाहुभिः औदुम्बरीं संमाय तस्याः
प्रच्छेदनं कुर्यात्(र्युः ?) ॥ ३ ॥
प्रश्नपूर्वकमौदुम्बर्या यागविशेषे छदनसंख्याविशेषं दर्शयति—
कतिच्छदनौदुम्बरी भवति ? नवच्छदनाग्निष्टोम-
साद्यस्केषु । एकादश वैश्यस्तोमातिरात्रपौण्डरीकेषु । सप्तदश
वाजपेयाप्तोर्याम्णोः । एकविंशत्यश्वमेधे । अष्टाचत्वारिंश[मि]तं
पुरुषमेधे । अपरि मितं सर्वमेधे ॥ ४ ॥
औदुम्बरी कतिच्छदना भवतीति प्रश्नः । अथोत्तरम् । अग्निष्टोम-
साद्यस्केषु यागेषु । औदुम्बरी नवच्छदना भवतीति । वैश्यस्तोमाद्याख्येषु
त्रिषु औदुम्बर्याः छदनानि एकादश कुर्यात् । एवमन्यदपि व्याख्येयम् ॥ ४ ॥
इदानीमौदुम्बर्या उच्छ्रयणं विधत्ते—
य एवं वेद यदौदुम्बरीमुच्छ्रयत्यपचिति-
मेवाप्नोति ॥ ५ ॥
यः पुमानेवम् ओदुम्बरीधर्म्मान् वेद । विदित्वा च यथोक्तामौदुम्बरीं
यत् यदोच्छ्रयति तदा अपचितिं पूजाम् आप्नोति ॥ ५ ॥
- RI. कुब्जा, MK. कुब्जो, T. कुब्ज for कुब्जवामनाः See CN.
M. यजमानः for यजमानाः J. om. कुब्जो...०पेक्षया ; T. कुब्जा for कुब्जो;
TK. om. कुण०....०पेक्षया. - TK. ०बाहुरजस्यु for ०बाहवः स्युः ; TK. संगाय, M. संभाव्य
for संमाय. - JMT. विशेषेण, K. विशेष० for विशेषे.
- MK. चत्वारिंशं for चत्वारिंश[मि]तं.
- J. अर्थः for प्रश्नः.
- RI. om. यागेषु, J. यज्ञेषु for यागेषु.
- J. अदुम्बर्युच्छू० for औदुम्बर्या उच्छ्र०.
- RJ. विद्वान् for वेद यद् •
- RMKI. om. च.
पञ्चमोऽध्यायः (३) १७७
अथ यथोक्तौदुम्बर्युच्छ्रयणस्यापचितिसाधनतामाख्यायिकयोपपादयति—
प्रजापतिरकामयतापचितिं प्राप्नुवानीति । ऊर्गुदुम्बरः ।
ऊर्गन्नम् । अन्नं साम । तस्मात् सामगेभ्योऽपचितिं
करवाणि इति । य एवं वित्त्वौदुम्बरीमुच्छ्रयत्यपचिति-
मेवाप्नोति ॥ ६ ॥
पूर्वं प्रजापतिरपचितिं प्राप्नुवानीति अकामयत । किं च, उदुम्बरः
ऊर्क् । तद्धेतुत्वात् ऊर्क् च अन्नम् । अन्नं च साम । यतः साम अन्नात्मकं
तस्मात् सामगेभ्यः । साम गायन्तीति सामगाः । तेभ्यः अपचितिं पूजां
करवाणीति प्रजापतिः अकामयतेति संबन्धः । अतो यः पुमान् एवं यथोक्त-
लक्षणामौदुम्बरीं वित्त्वा उच्छ्रयति सोऽपचितिमाप्नोत्येवेति ॥ ६ ॥
इति सायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणे
पञ्चमाध्याये तृतीयः खण्डः ॥ ३ ॥
- RI. अवयुत्या, TK. अवयवोक्तौ for अथ यथोक्तौ ० ; M. om. अथ.
- RTK. om. इति , TMK. कृत्वा for वित्त्वा.
- J. adds अहं after करवाणीति; J. करवाणीति for अकामयतेति.
- JMTK. कृत्वा for वित्त्वा ; J. adds एव after ०चितिम
ष० 12
चतुर्थः खण्डः
अथ सविशेषं यूपं निरूपयितुमुपक्रमते—
यूपं करोति सक्षीरं स्थूलं मूले बालाग्रमनुरूपम् ॥ १ ॥
सक्षीरं क्षीरवृक्षप्रकृतिकम् । स्थूलं मूले मूलप्रदेशे । बालाग्रम्
अग्रप्रदेशे सूक्ष्मम् । मध्ये च अनुरूपम् मूलप्रदेशापेक्षया स्थौल्याभावेन
अनुरूपम् एतादृशं यूपं करोति कुर्यादित्यर्थः ॥ १ ॥
अथ यथोक्तं यूपं वज्रत्वेन यज्ञविघ्नकर्तृरक्षोघ्नत्वेन च प्रशंसति—
वज्रो वै यूपो वज्रेणैवास्मै भ्रातृव्यं प्रहरति ॥ २ ॥
यूपो वज्र एव । तथा च तैत्तिरीयकम्—इन्द्रो वृत्राय वज्रं प्राहरत् ।
स त्रेधा व्यभक् । स्फ्यस्तृतीयं रथस्तृतीयं यूपस्तृतीयम् (तै. सं. ५.२.६.
१-२) इति । अतः अस्मै यजमानार्थं वज्रेणैव भ्रातृव्यं यागविघ्नकारिणं
राक्षसं प्रहरति ॥ २ ॥
यूपस्य अष्टाश्रीकरणं विधत्ते—
अष्टाश्रीः करोति ॥ ३ ॥
तस्य यूपस्य अष्टसंख्याका अश्रीः करोति कुर्यात् । दिक्षु चतस्रः
विदिक्षु चतस्र इति ॥ ३ ॥
- KM. वृक्षं for वृक्षप्रकृतिकम् ; KM. om. स्थूलं ... भ्रातृव्यं
(L. 8.) JT om. मूलप्रदेशे. - JT om. अग्रप्रदेशे ; JT. सूक्ष्माग्रं for सूक्ष्मम् ; RI om. मध्ये च ;
RI. ०रूपता for ०रूपं ; JT om. मूलप्रदेशा०...एतादृशं. - JT. om. अथ...रक्षोध्न ; J. तत्, T. तं for च.
- RM. व्यभवत् for व्यभक् .
- J. यज्ञ० for याग०.
- J adds इति after कुर्यात् .
पञ्चमोऽध्यायः (४) १७९
तद् प्रशंसति —
दश दिशः परिगृह्णाति । उभयतः पाङ्क्ते द्वे यूपे करोति ॥ ४ ॥
तथा सति ऊर्ध्वाधोदिग्भ्यां सह दश दिशः परिगृहीतवान् भवति । ततश्च
यूपे यूपविषये उभयतः द्वयोः पार्श्वयोः द्वे पाङ्क्ते द्वे पञ्चसंख्ये करोति कृतवान्
भवति । पञ्चपदा पङ्क्तिः (स. अ. सू. ५-६) इति संख्याम्नानात् ॥ ४ ॥
विकल्पेन धर्मान्तरं दर्शयति —
पञ्चदशोसप्तदशैकविंशत्यरत्निं वा ॥ ५ ॥
पञ्चदशारत्निं वा सप्तदशारत्निं वा एकविंशत्यरत्निं वा कुर्यात् ॥ ५ ॥
यूपस्य काम्यानि प्रकृतिद्रव्याणि दर्शयति —
पालाशं पुष्टिकामस्य । बैल्वं ब्रह्मवर्चसकामस्य ।
औदुम्बरमन्नाद्यकामस्य । खादिरं बलकामस्य । वैभीतक-
राजवृक्षौ भ्रातृव्यवतः । क्रमुकाश्वत्थपाषाणाः यशस्कामस्य ।
यत्किंच यज्ञियं पशुकामस्य ॥ ६ ॥
पुष्टिकामस्य पालाशप्रकृतिकं यूपं कुर्यात् । एवमन्यदपि योज्यम् ।
यज्ञियं यज्ञाहं यत्किंच वैकङ्कतादिकं वृक्षजातमस्ति तत्प्रकृतिकं यूपं
पशुकामस्य कुर्यात् ॥ ६ ॥
पालाशादिष्वेव वर्जनीयान् प्रतिज्ञापूर्वकं दर्शयति —
तत्र वर्जनीया भवन्ति । गडुलो व्रणिलो व्यावृत्तः
कुष्ठिः कुब्जः शूलो दग्धः शुष्कः सुषिरो घुणजग्ध
इत्यप्रशस्ताः ॥ ७ ॥
2. KT. पङ्केर्, MI. पङ्कौ for पाङ्क्ते.
4. J. trans. सह before दिग्भ्यां ; TK. सः for सह ; RI. तथा,
J. अतश् for ततश्च .
5. T. पङ्केर् for पाङ्क्ते.
6. J. साम्न्यात् for ०म्नात् .
15. R. व्याख्येयम् for योज्यम् .
17. K. om. पशुकामस्य.
18. J. पालाशेषु for पालाशादिषु ; JT. ०पुरःसरं for पूर्वकं.
19. MSh. व्यावृक्तः for व्यावृत्तः
.
Wait, "समाश्च"? Yes, "समाश्च."
12. T. यूपस्याश्री०, T. यूपाणि श्रितः ०, RKI. यूपाश्रित० for यूपाश्रि०;
JT. सप्रतिज्ञं for प्रतिज्ञापूर्वं.
13. RM. ०श्रीदैवतानि, T. ०श्रीदैवत्यानि, for ०श्रिदेवतानि.
14. TMK. ०स्तास्त आ० for ०स्तास्वा०; M. आदित्या रुद्रा मरुतो for
आदित्यरुद्रमरुद् .
Wait, let's verify line numbers:
Page header:
१८० षड्विंशब्राह्मणम्
Let's look at line 6 again:
"प्रतिज्ञातेष्वनुपादेयान् दर्शयति—"
Wait, look at line 6:
Can we see the characters clearly?
प्र ति ज्ञा ते ष्त्व नु पा दे या न्
Yes, "प्रतिज्ञातेष्वनुपादेयान्".
Let's check every word of the main text and commentary:
L1:
तत्र तेषु वर्जनीया भवन्ति गडुलो ग्रन्थियुक्तः । व्रणिलः पक्षादि- (or पश्वादि-? Footnote says: "R. ०भ
पञ्चमोऽध्यायः (४) [पृ. १८१]
अथ यूपस्याश्रिदैवतान्युच्यन्त इति शेषः । पूर्वायामश्रावग्निर्दैवता ।
अन्यत्समानम् । या विदिशः सन्ति ता विदिशस्ते प्रसिद्धा आदित्यादयो
यथासंख्यमधितिष्ठन्ति । अपराजिताः । यस्यां दिशि देवा असुरैः पराजिता
नाभवन् सा अपराजिता । अधरा दिगित्यर्थः । सा पितृभ्यः । ऊर्ध्वायां च
दिशि साध्याः तिष्ठन्ति । [सा] तद्देवत्येत्यर्थः ॥ ९ ॥
यथोक्तं यूपं प्रशंसति—
सर्वदेवत्यो वै यूपः । यूपो वै बहुरूपः वज्रीभूत्वा
देवानुपतिष्ठते ॥ १० ॥
अत एव सर्वदेवत्यो यूपः । किं च यूपोऽनेकाश्रित्वाद बहुरूप एव
यद् वज्रीभूत्वा वज्रात्मकत्वं प्रतिपद्य देवानुपतिष्ठते ॥ १० ॥
अथ प्रकारान्तरेण यूपमेव प्रशंसति—
ते देवाः प्रजापतिमुपाधावन् । यूपेन प्रहरन्त्यारोप-
यन्त्यायोधयन्ति च । तद्यूपस्य यूपत्वम् ॥ ११ ॥
प्राप्तयुगास्ते देवाः प्रजापतिमुपाधावन् । उपेत्य च ते लब्धानुज्ञाः
सन्तः यूपेन वज्रात्मकेन राक्षसान् प्रहरन्ति आरोपयन्ति आवृण्वते च ।
तथा आयोधयन्ति तैः सह युद्धं कुर्वन्ति तत् तेन यूपस्य यूपत्वम् ॥ ११ ॥
तत्रैव धर्मान्तरं विधत्ते—
मूलमरत्निं सत्वचं निखनेत् ॥ १२ ॥
पादटिप्पणी (Footnotes):
- T. यूपस्थानि, KM. यूपस्याश्रीर for यूपस्याश्रि०.
- RI. तासु for ताः; RI om. विदिशस्ते प्रसिद्धा See CN. ;
T. दिश० M. तादृश० for विदिश०. - M. ०संख्याः तिष्ठन्ति for ०संख्यमधितिष्ठन्ति ; RI. या दिक् for
यस्यां दिशि ; RJMIK. अपराजिता ; for पराजिताः. - J. तद्देवत्येभ्यः for तद्देवत्येत्यर्थः.
- JM. trans. एव after. ०देवत्यः.
- MT. तद् for ते.
- JR. आवृण्वन्त्येव for आवृण्वते च.
षड्विंशब्राह्मणम्
तस्य मूलं सत्वचम् अरत्निं निखनेत् ॥ १२ ॥
पित्रादिसंबन्धेन यूपं पुनः स्तौति—
तस्य यन्नैखान्यं तत्पितॄणाम् । यदूर्ध्वं तन्मनुष्याणाम्
यत्तदधो रशनाया ओषधिवनस्पतीनाम् । यदूर्ध्वं रशनायास्त-
द्विशेषां देवानाम् ॥ १३ ॥
तस्य यूपस्य यन्नैखान्यं निखनसंबन्धि स्थानं तत् पितॄणाम् आश्रयः ।
यदूर्ध्वं स्थानं तन्मनुष्याणाम् । रशनाया यूपे बद्धाया दर्भमय्या रज्ज्वा
अधो यत् स्थानं तत् ओषधिवनस्पतीनाम् । तदधिष्ठातृदेवानामित्यर्थः ।
रशनाया ऊर्ध्वं यत् स्थानं तद्विशेषां देवानाम् । आश्रय इत्यर्थः ॥ १३ ॥
धर्मान्तराणि दर्शयति—
आप्लावयन्त्यलंकुर्वन्त्यहतेन वसनेनाच्छादयन्ति
च ॥ १४ ॥
यूपम् आप्लावयन्ति अभिषिञ्चेयुः । तथा अलंकुर्वन्ति । किं च ।
अहतेन वसनेन वस्त्रेण आच्छादयन्ति आच्छादयेयुः ॥ १४ ॥
यथोक्तमाप्लावनादिकं प्रशंसति—
तद् गन्धर्वाप्सरसाम् ॥ १५ ॥
तदेतदाप्लावनादि गन्धर्वाणामप्सरसां चार्थे कृतं भवति ॥ १५ ॥
तदीयं चषालं तदूर्ध्वप्रदेशं च इन्द्रादिसंबन्धेन प्रशंसति—
इन्द्रस्य चषालम् । यदूर्ध्वं चषालस्याङ्गुलमात्रं कार्यं
तत्साध्यानां देवानाम् ॥ १६ ॥
- J. अरत्निप्रमाणं for अरत्निं.
- M1K. प्रस्तौति for स्तौति.
- J. adds यन्० before निखन.
- RMIK. om. ओषधिवनस्पतीनां.
- J. आश्रयम् for आश्रयः.
- JMK. ०प्लावनं for ०प्लावनादि.
पञ्चमोऽध्यायः (४) १८३
तस्य यच्चषालं तद् इन्द्रस्य संबन्धि । चषालस्योर्ध्वं यद् अङ्गुल-
मात्रं कार्यं तत् साध्याख्यानां देवानां संबन्धि ॥ १६ ॥
सप्रशंसं धर्मान्तरं विधत्ते—
प्राचीं संनमयेतद्वै विष्णोः परमं पदम् ॥ १७ ॥
तं यूपं प्राचीं दिशं प्रति संनमति संनमयेदित्यर्थः । एतद्वै एतदेव ५
प्राचीसंनमनं विष्णोर्देवस्य परमम् उत्कृष्टं पदं स्थानम् ॥ १७ ॥
पुनर्यूपं तदीयशरीरादेर्ऋत्वाद्यात्मकत्वेनोपवर्णनेन प्रशंसति—
तस्यर्तवः शरीरम् । शिरः संवत्सरः । वेदा रूपाणि ।
संवत्सर एव प्रतितिष्ठति । य एवं वेद ॥ १८ ॥
तस्य यूपस्य शरीरं वसन्ताद्यृतवः । शिरः संवत्सरः । वेदाश्च १०
रूपाणि इत्येवं यो वेद स संवत्सर एव प्रतितिष्ठति । दीर्घायुर्भव-
तीत्यर्थः ॥ १८ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
पञ्चमाध्याये चतुर्थः खण्डः ॥ ४ ॥ १४
2. J. साध्यानां for साध्याख्यानां.
5. MK. प्राचीनं for प्राचीं; RMIK. om. संनमति.
7. TJ. ०त्मकत्वोप० for ०त्मकत्वेनोप०.
10. RIT. रूपाणि वेदाश्चेत्येवं, J. रूपाणि वेदाः for वेदाश्च रूपाणि.
11. J, adds एवं after यः; KTM. om. सः.
पञ्चमः खण्डः
अथ सविशेषां संध्यां प्रश्नपूर्वकमाख्यायिकया निरूपयितुं ब्रह्मवादिनां
प्रश्नं तावदुपस्थापयति—
ब्रह्मवादिनो वदन्ति । कस्माद् ब्राह्मणः सायमासीनः
संध्यामुपास्ते ? कस्मात् प्रातस्तिष्ठन् ? का च संध्या ? कश्च
संध्यायाः कालः ? किं च संध्यायाः संध्यात्वम् ? ॥ १ ॥
अर्थस्त्वतिरोहित एव ॥ १ ॥
उत्तरं वक्तुमुपक्रमते—
देवाश्चासुराश्चास्पर्धन्त । तेऽसुरा आदित्यमभिद्रवन् ।
स आदित्यो बिभेत् । तस्य हृदयं कूर्मरूपेणातिष्ठत् ॥ २ ॥
पुरा देवाश्चासुराश्च परस्परम् अस्पर्धन्त । तत्र ते देवैः सह
स्पर्धमाना असुराः दानवाः आदित्यम् अभिलक्ष्य योद्धुम् अभिद्रवन् ।
तदानीं स आदित्यः तेभ्योऽसुरेभ्यः बिभेत् । अतस्तस्य आदित्यस्य हृदयं
कूर्मरूपेण संकुच्यातिष्ठत् इति ॥ २ ॥
ततः किमित्यत्राह—
स प्रजापतिमुपाधावत् । तस्य प्रजापतिरेतद् भेषज-
मपश्यत् । ऋतं च सत्यं च ब्रह्म चोंकारं च त्रिपदां च
गायत्रीं ब्रह्मणो मुखमपश्यत् ॥ ३ ॥
- MK. ब्रह्मणः for ब्राह्मणः.
- J om. परस्परम् .
- J. अभ्यद्रवन् for अभिद्रवन्.
- MIK. (अ) सुरेभ्योऽबिभेत् for असुरेभ्यः बिभेत् .
- RI. संकोच्यादितिष्ठदिति, M. संकुर्यात् अतिष्ठत् तिष्ठति स्म, K.
संकुर्यात्तिष्ठति for संकुच्यातिष्ठत् .
पञ्चमोऽध्यायः (५) १८५
स भीत आदित्यः प्रजापतिमुपाधावत् । तस्य स्वसमीपं प्राप्तस्य
असुरजयाय प्रजापतिरेतद् वक्ष्यमाणं भेषजं प्रतीकारम् अपश्यत् । ऋतम्
अनृतवर्जनम् । सत्यं यथार्थभाषणम् । ब्रह्म ऋग्वेदादिकम् । ओंकारं प्रणवम् ।
त्रिपदां पादत्रयवतीं गायत्रीं चेति । किं च । यथोक्तस्य भेषजस्य ब्रह्मणो
मुखे प्रधानम् इति अपश्यत् ॥ ३ ॥
अस्त्वेवं किं तत इत्यत्राह —
तस्माद् ब्राह्मणोऽहोरात्रस्य संयोगे संध्यामुपास्ते ।
सज्योतिष्या ज्योतिषो दर्शनात् । सोऽस्याः कालः । सा
संध्या । तत् संध्यायाः संध्यात्वम् । यत्सायमासीनः
संध्यामुपास्ते तया वीरस्थानं जयति । अथ यदपः
प्रयुङ्क्ते ता विप्रुषो वज्रीभवन्ति । ता विप्रुषो वज्री-
भूत्वासुरानपघ्नन्ति । ततो देवा अभवन् । परासुरा
भवन्ति । आत्मना परास्य भ्रातृव्यो भवति । य एवं वेद ।
यत् सायं प्रातश्च संध्यामुपास्ते तया वीरस्थानं स्थानं
च संततमविच्छिन्नं भवति । य एवं वेद ॥ ४ ॥
यस्मादेवं तस्मात् । ब्राह्मणः । ब्राह्मणशब्दः क्षत्रियवैश्ययोरप्युप-
लक्षणम् । तयोरपि तत्राधिकारात् तन्मुख्यत्वाच्च । अहोरात्रस्य संयोगे ।
अहोरात्रयोः संधौ । संध्या[म्], संधौ भवा संध्या, ताम्, उपास्ते ।
- IR. om. तस्य; RI. समीपं प्राप्तस्य for स्वसमीपं प्राप्तस्य ;
J. after तस्य adds संप्राप्तस्य. - J. आदित्यस्य रक्षणाय for असुरजयाय.
- RKTM. पदत्रय० for पादत्रय०.
- RMIK om. इति.
- K. सज्योतिषा० for सज्योतिषि.
- J om. ब्राह्मणः.
- TRK om. तन्०; T. ०मुखत्वात् for ०मुख्यत्वात् .
- J om. संध्या[म्] संधौ; J. भव्या for भवा.
१८६ षड्विंशब्राह्मणम्
सज्योतिषि विनश्यदवस्थापन्नेन पूर्वज्योतिषा सहिते काले आ ज्योतिषो दर्शनात्
आगामिनो ज्योतिषो दर्शनपर्यन्तम् अन्तराले यः कालः स एव अस्याः संध्यायाः।
अस्य संध्योपासनस्य कालः । सा एव संध्या । तद् एव संध्यायाः
संध्यात्वम् । किं च । सायमासीनः उपविष्टः संध्यां यद् उपास्ते तया
संध्यया वीरस्थानं बलवत्स्थानं जयति प्राप्नोति । अथ पुनः संध्याकाले अपः
उदकानि यत् प्रयुङ्क्ते ऊर्ध्वं विक्षिपति तत्र ता अपां विप्रुषो बिन्दवः
वज्रीभवन्ति । वज्रीभूत्वा ता विप्रुषः असुरान् आदित्यं प्रति योद्धुमागतान्
अपाघ्नन्ति । ततो देवा विजयिनोऽभवन् । असुरास्तु पराभवन्ति । पराभूता
अभवन् । किं च, य एवम् उक्तप्रकारेण वेद अस्य वेदितुः भ्रातृव्यः शत्रुः
आत्मना स्वेनैव परा भवति । यथा सायं प्रातश्च संध्यां यदुपास्ते तया
द्विविधया संध्यया तस्य वीरस्थानं भवति । तत्र स्थानं संततं सर्वदा
अविच्छिन्नं भवति । योऽपि एवं वेद तस्यापि यथोक्तं फलं भवतीत्यर्थः ।
तथा च तैत्तिरीयका आमनन्ति—तस्मादुत्तिष्ठन्तं ह वा तानि रक्षांसि
आदित्यं योधयन्ति । यावदस्तमन्वगात् तानि ह वा एतानि रक्षांसि
गायत्रियाऽभिमन्त्रितेनाम्भसा शाम्यन्ति । तदु ह वा एते ब्रह्मवादिनः
पूर्वाभिमुखाः संध्यायां गायत्रियाऽभिमन्त्रिता अप ऊर्ध्वं विक्षिपन्ति । ता
एता आपो वज्रीभूत्वा तानि रक्षांसि मन्देहारुणे द्वीपे प्रक्षिपन्ति
(तै. आ. २. २.) ॥ ४ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणभाष्ये
पञ्चमाध्याये पञ्चमः खण्डः ॥ ५ ॥
- RTJ. ०वस्थानापन्नेन for ०वस्थापन्नेन ; J. सहितेन कालेन for
सहिते काले. - R.. ०रालो यः, T. (रा) ह्यः for ०राले यः; MTK om. सः;
JTK om. एव अस्याः संध्यायाः. - RI om. संध्योपासनस्य.
- RTI. विक्षिपन्ति, M. विक्षिप्ताः for विक्षिपति; J. ऊर्ध्वे for अपां.
- RI. यत् , J. तथा for यथा.
- J om. भवति । तत्र स्थानं.
- R. गायत्र्या, T. गायत्र्य० for गायत्रिया.
- MTIK. गयत्र्या for गायत्रिया; RMTIK. आप for अप
षष्ठः खण्डः
अथ चन्द्रस्य क्षयवृद्धी निरूपयितुं प्रतिजानीते—
अथैषा चन्द्रमसः क्षयवृद्धिर्भवति । यदा वै चन्द्रमाः
क्षीयते चाप्यायते च तदनुव्याख्यास्यामः ॥ १ ॥
अथ इति वाक्योपक्रमे । एषा वक्ष्यमाणा चन्द्रमसः संबन्धिनी
क्षयवृद्धिः । क्षयश्च वृद्धिश्च । यद्यपि द्विवचनेन भाव्यं, तथापि बाहुलकादेक-
वचनम् । तस्यैव विवरणम् । यदा वै यस्मिन्नेव काले चन्द्रमाः क्षीयते
कलाभिः, यदा कलाभिः आप्यायते च तद् वयम् अनुव्याख्यास्यामः ।
अनुवर्णयाम इति ॥ १ ॥
तत्र प्रथमं तस्य क्षयप्रकारं दर्शयति—
पूर्वपक्षे वै देवा दीक्षन्ते । तेऽपरपक्षे सोमं
भक्षयन्ति । तत्रेमानि त्रीणि पात्राण्युपधीयन्ते । पृथिवी
पात्रमन्तरिक्षं पात्रं द्यौः पात्रमिति । तं देवा दिव्येन
पात्रेण आदित्याः प्रथमं पञ्चकलं पञ्चमीं भक्षयन्ति ।
अन्तरिक्षेण पात्रेण रुद्रा द्वितीयं पञ्चकलं दशमीं
भक्षयन्ति । ते पृथिव्या पात्रेण वसवस्तृतीयं पञ्चकलं
पञ्चदशीं भक्षयन्ति । षोडशी कलावशिष्यते । षोडशकलो
वै चन्द्रमाः । स ओषधीश्च वनस्पतींश्च गाश्च पशूंश्चादित्यं
च ब्रह्म च ब्राह्मणांश्चानुप्रविशति । तं देवा इन्द्रज्येष्ठाः
सोमपाश्चासोमपाश्च यथा पितरं पितामहं प्रपितामहं वा वृद्धं
6. JT. भवितव्यं for भाव्यं.
7. MTK. चन्द्रः for चन्द्रमाः.
१८८ | षड्विंशब्राह्मणम्
प्रलयमुपगच्छमानं व्याधिगतं मरिष्यतीति वा तां रात्रिं
वसन्ते । तदमावास्याया अमावास्यात्वम् । तस्मादमावा-
स्यायां नाध्येतव्यं भवति ॥ २ ॥
य एवं देवाः पूर्वपक्षे शुक्लपक्षे दीक्षन्ते सोमपानाय दीक्षां कुर्वन्ति
ते दीक्षिता देवा अपरपक्षे कृष्णपक्षे सोमं भक्षयन्ति । कथम्? तत्र
सोमपानविषये इमानि वक्ष्यमाणानि त्रीणि पात्राणि उपधीयन्ते । तेषामेव
प्रदर्शनम् । पृथिवी परिदृश्यमानः पृथिवीलोक एकं पात्रम् । अन्तरिक्षम्
अन्तरिक्षलोक एकं पात्रम् । द्यौः द्युलोक एकं पात्रम् इति । तत्र
आदित्या आदित्याख्या देवा दिव्येन द्युलोकात्मकेन पात्रेण प्रथमं त्रेधा
विभागेनाद्यविभागात्मकं पञ्चकलं, पञ्च कला यस्य तं सोमं, पञ्चमीम् ।
अत्यन्तसंयोगे द्वितीया । प्रतिपदमारभ्य पञ्चमीपर्यन्तं भक्षयन्ति । प्रतिदिनम्
एकैकां कलां पिबन्तीत्यर्थः । ततस्ते दीक्षिता [रुद्राः] रुद्राख्या देवा
अन्तरिक्षेण अन्तरिक्षलोकात्मकेन पात्रेण द्वितीयं पञ्चकलं सोमं दशमीं
षष्ठीमारभ्य दशमीपर्यन्तं भक्षयन्ति । ततस्ते दीक्षिता वसवो
ऽस्वाख्या देवाः पृथिव्या पात्रेण तृतीयं तृतीयभागात्मकं पञ्चकलं
सोमं पञ्चदशीं पञ्चदशीपर्यन्तं पूर्ववद् भक्षयन्ति । ततश्चन्द्रमसः षोडशी
एका कला अवशिष्यते । यतः चन्द्रमाः षोडशकलः । अनन्तरं सः
अवशिष्टकलः सोम ओषध्यादीन् प्रविशति । तथा च सति इन्द्रज्येष्ठा
इन्द्रप्रमुखाः सोमपाश्च असोमपाश्च सर्वे देवाः तं सोमम् अभिलक्ष्य तादृशसो-
मवतीं रात्रिं वसन्ते । अत्र दृष्टान्तः । यथा पितरम् इत्यादि । वृद्धं जरया
प्रलयं नाशम् उपगच्छमानम् उपगच्छन्तं व्याधिगतं रोगिणं पितरं
7. RI. om. प्रदर्शनम् ; MTK. लोकं प्रदर्शनं for परिदृश्यमानः.
8. RTIK om. अन्तरिक्षलोकः, JRMTIK. अन्तरिक्षलोकं for
अन्तरिक्षलोकः.
9. RMIK om. आदित्या.
10. R. om. पञ्चकलं.
11. JT. ०पदात् for ०पदम.
12. RTMK om. देवा.
13 M om. अन्तरिक्षेण.
16. J om. पञ्चदशीं; M. adds दशमीम रभ्य after पञ्चदशीं.
20. T. adds वसन्ति after वसन्ते; JT. add यथा before वृद्धं.